श्रीमन्मेरुधराधराधिपमहासौभाग्यसंशोभिते
मन्दारद्रुमवाटिकापरिवृते श्रीस्कन्दशैलेमले ।
सौधे हाटकनिर्मिते मणिमये सन्मण्टपाभ्यन्तरे
ब्रह्मानन्दघनं गुहाख्यमनघं सिंहासनं चिन्तये ॥
मदनायुतलावण्यं नव्यारुणशतारुणम् ।
नीलजीमूतचिकुरमर्धेन्दुसदृशालिकम् ॥
पुण्डरीकविशालाक्षं पूर्णचन्द्रनिभाननम् ।
चाम्पेयविलसन्नासं मन्दहासाञ्चितोरसम् ॥
गण्डस्थलचलच्छोत्रकुण्डलं चारुकन्धरम् ।
करासक्तकनः दण्डं रत्नहाराञ्चितोरसम् ॥
कटीतटलसद्दिव्यवसनं पीवरोरुकम् ।
सुरासुरादिकोटीरनीराजितपदाम्बुजम् ॥
नानारत्नविभूषाढ्यं दिव्यचन्दनचर्चितम् ।
सनकादिमहायोगिसेवितं करुणानिधिम् ॥
भक्तवाञ्छितदातारं देवसेनासमावृतम् ।
तेजोमयं कार्तिकेयं भावये हृदयाम्बुजे ॥
आवाहयामि विश्वेशं महासेनं महेश्वरम् ।
तेजस्त्रयातमकंपीठं शरजन्मन् गृहाणभोः ॥
अनवद्यं गृहाणेश पाद्यमद्य षडानन ।
पार्वतीनन्दनानर्घ्यमर्पयाम्यर्घ्यमत्भुतम् ॥
आचम्यतामग्निजातस्वर्णपात्रोद्यतैर्जलैः ।
पञ्चामृतरसैः दिव्यैः सुधासमविभावितैः ॥
दधिक्षीराज्यमधुभिः पञ्चगव्यैः फलोदकैः ।
नानाफलरसैः दिव्यैः नाळिकेरफलोदकैः ॥
दिव्यौषधिरसैः स्वर्णरत्नोदककुशोदकैः ।
हिमांबुचन्दनरसैः घनसारादिवासितैः ॥
ब्रह्माण्डोदरमध्यस्थतीर्थैः परमपावनैः ।
पवनं परमेशान त्वां तीर्थैः स्नापयाम्यहम् ॥
सुधोर्मिक्षीरधवळं भस्मनोधूळ्यतावकम् ।
सौवर्णवाससाकायां वेष्टयेभीष्टसिद्धये ॥
यज्ञोपवीतं सुज्ञानदायिने तेर्पये गुहम् ।
किरीटहारकेयूर भूषणानि समर्पये ॥
रोचनागरुकस्तूरीसिताभ्रमसृणान्वितम् ।
गन्धसारं सुरभिलं सुरेशाभ्युपगम्यताम् ॥
रचये तिलकं फाले गन्धं मृगमदेनते ।
अक्षय्यफलदानर्घानक्षतानर्पये प्रभो ॥
कुमुदोत्पलकल्हारकमलैः शतपत्रकैः ।
जातीचम्पकपुन्नागवकुलैः करवीरकैः ॥
दूर्वाप्रवालमालूरमाचीमरुवपत्रकैः ।
अकीटादिहतैर्नव्यैः कोमलैस्तुलसीदलैः ॥
पावनैश्चन्द्रकदलीकुसुमैर्नन्दिवर्धनैः ।
नवमालालिकाभिः मल्लिकातल्ल्जैरपि ॥
कुरण्डैरपि शम्याकैः मन्दारैरतिसुन्दरैः ।
अगर्हितैश्च बर्हिष्ठः पाटीदैः पारिजातकैः ॥
आमोदकुसुमैरन्यैः पूजयामि जगत्पतिम् ।
धूपोऽयं गृह्यतां देव घ्राणेन्द्रियविमोहकम् ॥
सर्वान्तरतमोहन्त्रे गुह ते दीपमर्पये ।
सद्यसमाभृतं दिव्यममृतं तृप्तिहेतुकम् ॥
शाल्यान्नमत्भुतं नव्यं गोघृतं सूपसङ्गतम् ।
कदलीनालिकेरामृधान्याद्युर्वारुकादिभिः ॥
रचितैर्हरितैर्दिव्यखचरीभिः सुपर्पटैः ।
सर्वसंस्तारसम्पूर्णैराज्यपक्वैरतिप्रियैः ॥
रम्भापनसकूश्माण्डापूपा निष्पकन्तकैः ।
विदारिका कारवेल्लपटोलीतगरोन्मुखैः ॥
शाकैर्बहुविधैरन्यैः वटकैर्वटुसंस्कृतैः ।
ससूपसारनिर्गम्य सरचीसुरसेन च ॥
कूश्माण्डखण्डकलित तप्तक्ररसेन च ।
सुपक्वचित्रान्नशतैः लड्डुकेड्डुमकादिभिः ॥
सुधाफलामृतस्यन्दिमण्डकक्षीरमण्डकैः ।
माषापूपगुडापूपगोधूमापूपशार्करैः ॥
शशाङ्ककिरणोत्भासिपोलिकैः शष्कुलीमुखैः ।
भक्ष्यैरन्यैः सुरुचिरैः पायसैश्च रसायनैः ॥
लेह्यरुच्चावचैः खण्डशर्कराफाणितादिभिः ।
गुडोदकैनारिकेररसैरिक्षुरसैरपि ॥
कूर्चिकाभिरनेकाभिः मण्डिकाभिरुपस्कृतम् ।
कदलीचूतपनसगोस्तनीफलराशिभिः ॥
नारङ्गशृङ्गगिबेरैलमरीचैर्लिकुचादिभिः ।
उपदंशैः शरःचन्द्रगौरगोदधिसङ्गतैः ॥
जम्बीररसकैसर्या हिङ्गुसैन्धवनागरैः ।
लसताजलतक्रेण पानीयेन समाश्रितम् ॥
हेमपात्रेषु सरसं साङ्गर्येण च कल्पितम् ।
नित्यतृप्त जगन्नाथ तारकारे सुरेश्वर ॥
नैवेद्यं गृह्यतां देव कृपया भक्तवत्सल ।
सर्वलोकैकवरद मृत्यो दुर्दैत्यरक्षसाम् ॥
गन्धोदकेन ते हस्तौ क्षालयामि षडानन ।
एलालवङ्गकर्पूरजातीफलसुगन्धित ॥
वीटीं सेवय सर्वेश चेटीकृतजगत्रय ।
दत्तेर्नीराजयामित्वां कर्पूरप्रभयाऽनया ॥
पुष्पाञ्जलिं प्रदास्यामि स्वर्णपुष्पाक्षतैर्युतम् ।
छत्रेण चामरेणापि नृत्तगीतादिभिर्गुह ॥
राजोपचारैखिलैः सन्तुष्टो भव मत्प्रभो ।
प्रदक्षिणं करोमि त्वां विश्वात्मक नमोऽस्तुते ॥
सहस्रकृत्वो रचये शिरसा तेभिवादनम् ।
अपराधसहस्राणि सहस्व करुणाकर ॥
नमः सर्वान्तरस्थाय नमः कैवल्यहेतवे ।
श्रुतिशीर्षकगम्याय नमः शक्तिधराय ते ॥
मयूरवाहनस्येदं मानसं च प्रपूजनम् ।
यः करोति सकृद्वापि गुहस्तस्य प्रसीदति ॥
कुंज बिहारी स्तोत्र
इन्द्रनीलमणिमञ्जुलवर्णः फुल्लनीपकुसुमाञ्चितकर्णः । क....
Click here to know more..ललिता स्तव
कलयतु कवितां सरसां कविहृद्यां कालकालकान्ता मे। कमलोद्भ....
Click here to know more..संक्षिप्त गरुड पुराण
जो जन्म और जरा से रहित कल्याणस्वरूप अजन्मा तथा अजर हैं, अन....
Click here to know more..