आदिशक्तिर्महामाया सच्चिदानन्दरूपिणी ।
पालनार्थं स्वभक्तानां शान्तादुर्गाभिधामता ॥
नमो दुर्गे महादुर्गे नवदुर्गास्वरूपिणि ।
कैवल्यवासिनि श्रीमच्छान्तादुर्गे नमोऽस्तु ते ॥
शान्त्यै नमोऽस्तु शरणागतरक्षणायै
कान्त्यै नमोऽस्तु कमनीयगुणाश्रयायै ।
क्षात्यै नमोऽस्तु दुरितक्षयकारणायै
धान्त्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥
शान्तादुर्गे नमस्तुभ्यं सर्वकामार्थसाधिके ।
मम सिद्धिमसिद्धिं वा स्वप्ने सर्वं प्रदर्शय ॥
शान्तिदुर्गे जगन्मातः शरणागतवत्सले ।
कैवल्यवासिनी देवि शान्ते दुर्गे नमोऽस्तु ते ॥