Subramanya Kavacham

नारद उवाच-नारद उवाच-देवेश श्रोतुमिच्छामि ब्रह्मन् वागीश तत्त्वतः।सुब्रह्मण्यस्य कवचं कृपया वक्तुमर्हसि।ब्रह्मोवाच -महर्षे श‍ृणु मद्वाक्यं बहुना किं तवानघ।मन्त्राश्च कोटिशः सन्ति शम्भुविष्ण्वादिदेवताः।सहस्रनाम्नां कोट्यश्च ह्यङ्गन्यासाश्च कोटिशः।उपमन्त्रास्त्वनेके च कोटिशः सन्ति नारद।मालामन्त्राः कोटिशश्च ह्यश्वमेधफलप्रदाः।कुमारकवचं दिव्यं भुक्तिमुक्तिफलप्रदम्।सर्वसम्पत्करं श्रीमद्वज्रसारसमन्वितम्।सर्वात्मके शम्भुपुत्रे मतिरस्त्यत्र किं तव।धन्योऽसि कृतकृत्योऽसि भक्तोऽसि त्वं महामते।यस्येदं शरजं जन्म यदि वा स्कन्द एव च।तेनैव लभ्यते चैतत्कवचं शङ्करोदितम्।ऋषिश्छन्दो देवताश्च कार्याः पूर्ववदेव च।ध्यानं तु ते प्रवक्ष्यामि येन स्वामिमयो भवेत्।ओङ्काररूपिणं देवं सर्वदेवात्मकं प्रभुम्।देवसेनापतिं शान्तं ब्रह्मविष्णुशिवात्मकम्।भक्तप्रियं भक्तिगम्यं भक्तानामार्तिभञ्जनम्।भवानीप्रियपुत्रं च महाभयनिवारकम्।शङ्करं सर्वलोकानां शङ्करात्मानमव्ययम्।सर्वसम्पत्प्रदं वीरं सर्वलोकैकपूजितम्।एवं ध्यात्वा महासेनं कवचं वज्रपञ्जरम्।पठेन्नित्यं प्रयत्नेन त्रिकालं शुद्धिसंयुतः।सत्यज्ञानप्रदं दिव्यं सर्वमङ्गलदायकम्।अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य परब्रह्म-ऋषिः।देवी गायत्री छन्दः। प्रसन्नज्ञानसुब्रह्मण्यो देवता। ॐ बीजम्।श्रीं शक्तिः। सौं कीलकम्। प्रसन्नज्ञानसुब्रह्मण्यप्रसादसिद्ध्यर्थेजपे विनियोगः।श्रीसुब्रह्मण्याय अङ्गुष्ठाभ्यां नमः।शक्तिधराय तर्जनीभ्यां नमः। षण्मुखाय मध्यमाभ्यां नमः।षट्त्रिंशत्कोणसंस्थिताय अनामिकाभ्यां नमः।सर्वतोमुखाय कनिष्ठिकाभ्यां नमः।तारकान्तकाय करतलकरपृष्ठाभ्यां नमः।एवं हृदयादिन्यासः। भूर्भुवस्सुवरोम् इति दिग्बन्धः।ध्यानम् -षड्वक्त्रं शिखिवाहनं त्रियनं चित्राम्बरालङ्कृतंशक्तिं वज्रमयीं त्रिशूलमभयं खेटं धनुश्चक्रकम्।पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदाध्यायामीप्सितसिद्धये शिवसुतं स्कन्दं सुराराधितम्।द्विषड्भुजं षण्मुखमम्बिकासुतंकुमारमादित्यसमानतेजसम्।वन्दे मयूरासनमग्निसम्भवंसेनान्यमद्याहमभीष्टसिद्धये।गाङ्गेयं वह्निगर्भं शरवणजनितं ज्ञानशक्तिं कुमारंब्रह्मेशानामरेड्यं गुहमचलसुतं रुद्रतेजः स्वरूपम्।सोनान्यं तारकघ्नं सकलभयहरं कार्तिकेयं षडास्यंसुब्रह्मण्यं मयूरध्वजरथसहितं देवदेवं नमामि।कनककुण्डलमण्डितषण्मुखं वनजराजिविराजितलोचनम्।निशितशस्त्रशरासनधारिणं शरवणोद्भवमीशसुतं भजे।अथ कवचम्।सुब्रह्मण्यः शिरः पातु शिखां पातु शिवात्मजः।शिवः पातु ललाटं मे भ्रूमध्यं क्रौञ्चदारणः।भुवौ पातु कुमारो मे नेत्रे पातु त्रिनेत्रकः।पायाद्गौरीसुतः श्रोत्रे गण्डयुग्मं हरात्मजः।दक्षनासापुटद्वारं प्राणरूपी महेश्वरः।सर्वदेवात्मकः पातु जिह्वां सारस्वतप्रदः।दन्तान् रक्षतु देवेशः तालुयुग्मं शिवात्मजः।देवसेनापतिः पातु चुबुकं चाद्रिजासुतः।पार्वतीनन्दनः पातु द्वावोष्ठौ मम सर्वदा।षण्मुखो मे मुखं पातु सर्वदेवशिखामणिः।सिंहगर्वापहन्ता मे ग्रीवां पातु सनातनः।तारकासुरसंहन्ता कण्ठं दुष्टान्तकोऽवतु।सुभुजो मे भुजौ पातु स्कन्धमग्निसुतो मम।सन्धियुग्मं गुहः पातु करौ मे पातु पावनः।कराङ्गुलीः श्रीकरोऽव्यात् सुररक्षणदीक्षितः।वक्षःस्थलं महासेनः तारकासुरसूदनः।कुक्षिं पातु सदा देवः सुब्रह्मण्यः सुरेश्वरः।उदरं पातु रक्षोहा नाभिं मे विश्वपालकः।लोकेशः पातु पृष्ठं मे कटिं पातु धराधरः।गुह्यं जितेन्द्रियः पातु शिश्नं पातु प्रजापतिः।अण्डद्वयं महादेव ऊरुयुग्मं सदा मम।सर्वभूतेश्वरः पातु जानुयुग्ममघापहः।जङ्घे मे विश्वभुक्पातु गुल्फौ पातु सनातनः।वल्लीश्वरः पातु मम मणिबन्धौ महाबलः।पातु वल्लीपतिः पादौ पादपृष्ठं महाप्रभुः।पादाङ्गुलीः श्रीकरो मे इन्द्रियाणि सुरेश्वरः।त्वचं महीपतिः पातु रोमकूपांस्तु शाङ्करिः।षाण्मातुरः सदा पातु सर्वदा च हरप्रियः।कार्तिकेयस्तु शुक्लं मे रक्तं शरवणोद्भवः।वाचं वागीश्वरः पातु नादं मेऽव्यात्कुमारकः।पूर्वस्यां दिशि सेनानीर्मां पातु जगदीश्वरः।आग्नेय्यामग्निदेवश्च क्रतुरूपी परात्परः।दक्षिणस्यामुग्ररूपः सर्वपापविनाशनः।खड्गधारी च नैरृत्यां सर्वरक्षोनियामकः।पश्चिमास्यां दिशि सदा जलाधारो जितेन्द्रियः।वायव्यां प्राणरूपोऽव्यान्महासेनो महाबलः।उत्तरस्यां दिशि सदा निधिकर्ता स पातु माम्।शम्भुपुत्रः सदा पातु दिश्यैशान्यां महाद्युतिः।ऊर्ध्वं ब्रह्मपतिः पातु चतुर्मुखनिषेवितः।अधस्तात्पातु विश्वात्मा सदा ब्रह्माण्डभृत्परः।मध्यं पातु महासेनः शूरसंहारकृत्सदा।अहङ्कारं मनो बुद्धिं स्कन्दः पातु सदा मम।गङ्गातीरनिवासी मामादियामे सदाऽवतु।मध्ययामे सुरश्रेष्ठस्तृतीये पातु शाम्भवः।दिनान्ते लोकनाथो मां पुर्वरात्र्यां पुरारिजः।अर्धरात्रे महायोगी निशान्ते कालरूपधृत्।मृत्युञ्जयः सर्वकालमन्तस्तु शिखिवाहनः।बहिः स्थितं शक्तिधरः पातु मां योगिपूजितः।सर्वत्र मां सदा पातु योगविद्यो निरञ्जनः।पातु मां पञ्चभूतेभ्यः पञ्चभूतात्मकस्तदा।तिष्ठन्तमग्निभूः पातु गच्छन्तं शूरसूदनः।विशाखोऽव्याच्छयानं मां निषण्णं तु सुरेश्वरः।मार्गे मे नीलकण्ठश्च शैलदुर्गेषु नायकः।अरण्यदेशे दुर्गे चाभयं दद्याद्भयापहः।भार्यां पुत्रप्रदः पातु पुत्रान् रक्षेत् हरात्मजः।पशून् रक्षेन्महातेजा धनं धनपतिर्मम।राजराजार्चितः पातु ह्रस्वदेहं महाबलः।जीवनं पातु सर्वेशो महामणिविभूषणः।सूर्योदये तु मां सर्वो ह्यश्विन्याद्याश्च तारकाः।मेषाद्या राशयश्चैव प्रभवाद्याश्च वत्सराः।अयने द्वे षडृतवो मासाश्चैत्रमुखास्तथा।शुक्लकृष्णौ तथा पक्षौ तिथयः प्रतिपन्मुखाः।अहोरात्रे च यामादि मुहूर्ता घटिकास्तथा।कलाः काष्ठादयश्चैव ये चान्ये कालभेदकाः।ते सर्वे गुणसम्पन्नाः सन्तु सौम्यास्तदाज्ञया।ये पक्षिणो महाक्रूराः उरगाः क्रूरदृष्टयः।उलूकाः काकसङ्घाश्च श्येनाः कङ्कादिसंज्ञकाः।शुकाश्च सारिकाश्चैव गृध्राः कङ्का भयानकाः।ते सर्वे स्कन्ददेवस्य खड्गजालेन खण्डिताः।शतशो विलयं यान्तु भिन्नपक्षा भयातुराः।ये द्रव्यहारिणश्चैव ये च हिंसापरा द्विषः।ये प्रत्यूहकरा मर्त्या दुष्टमर्त्या दुराशयाः।दुष्टा भूपालसन्दोहाः ये भूभारकराः सदा।कायविघ्नकरा ये च ये खला दुष्टबुद्धयः।ये च मायाविनः क्रूराः सर्वद्रव्यापहारिणः।ये चापि दुष्टकर्माणो म्लेच्छाश्च यवनादयः।नित्यं क्षुद्रकरा ये च ह्यस्मद्बाधाकराः परे।दानवा ये महादैत्याः पिशाचा ये महाबलाः।शाकिनीडाकिनीभेदाः वेताला ब्रह्मराक्षसाः।कूष्माण्डभैरवाद्या ये कामिनी मोहिनी तथा।अपस्मारग्रहा ये च रक्तमांसभुजो हि ये।गन्धर्वाप्सरसः सिद्धा ये च देवस्य योनयः।ये च प्रेताः क्षेत्रपालाः ये विनायकसंज्ञकाः।महामेषा महाव्याघ्रा महातुरगसंज्ञकाः।महागोवृषसिंहाद्याः सैन्धवा ये महागजाः।वानराः शुनका ये च वराहा वनचारिणः।वृकोष्ट्रखरमार्जाराः ये चातिक्षुद्रजन्तवः।अगाधभूता भूताङ्गग्रहग्राह्यप्रदायकाः।ज्वालामालाश्च तडितो दुरात्मानोऽतिदुःखदाः।नानारोगकरा ये च क्षुद्रविद्या महाबलाः।मन्त्रयन्त्रसमुद्भूताः तन्त्रकल्पितविग्रहाः।ये स्फोटका महारोगाः वातिकाः पैत्तिकाश्च ये।सन्निपातश्लेष्मकाश्च महादुःखकरास्तथा।माहेश्वरा वैष्णवाश्च वैरिञ्चाश्च महाज्वराः।चातुर्थिकाः पाक्षिकाश्च मासषाण्मासिकाश्च ये।सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः।सृष्टका ये महोत्पाता ये जाग्रत्स्वप्नदूषकाः।ये ग्रहाः क्रूरकर्तारो ये वा बालग्रहादयः।महाशिनो मांसभुजो मनोबुद्धीन्द्रियापहाः।स्फोटकाश्च महाघोराः चर्ममांसादिसम्भवाः।दिवाचोरा रात्रिचोरा ये सन्ध्यासु च दारुणाः।जलजाः स्थलजाश्चैव स्थावरा जङ्गमाश्च ये।विषप्रदाः कृत्रिमाश्च मन्त्रतन्त्रक्रियाकराः।मारणोच्चाटनोन्मूलद्वेषमोहनकारिणः।गरुडाद्याः पक्षिजाता उद्भिदश्चाण्डजाश्च ये।कूटयुद्धकरा ये च स्वामिद्रोहकराश्च ये।क्षेत्रग्रामहरा ये च बन्धनोपद्रवप्रदाः।मन्त्रा ये विविधाकाराः ये च पीडाकरास्तथा।यो चोक्ता ये ह्यनुक्ताश्च भूपातालान्तरिक्षगाः।ते सर्वे शिवपुत्रस्य कवचोत्तारणादिह।सहस्रधा लयं यान्तु दूरादेव तिरोहिताः।फलश्रुतिः।इत्येतत्कवचं दिव्यं षण्मुखस्य महात्मनः।सर्वसम्पत्प्रदं नृणां सर्वकायार्थसाधनम्।सर्ववश्यकरं पुण्यं पुत्रपौत्रप्रदायकम्।रहस्यातिरहस्यं च गुह्याद्गुह्यतरं महत्।सर्वेदेवप्रियकरं सर्वानन्दप्रदायकम्।अष्टैश्वर्यप्रदं नित्यं सर्वरोगनिवारणम्।अनेन सदृशं वर्म नास्ति ब्रह्माण्डगोलके।सत्यं सत्यं पुनः सत्यं श‍ृणु पुत्र महामुने।एकवारं जपन्नित्यं मुनितुल्यो भविष्यति।त्रिवारं यः पठेन्नित्यं गुरुध्यानपरायणः।स एव षण्मुखः सत्यं सर्वदेवात्मको भवेत्।पठतां यो भेदकृत्स्यात् पापकृत्स भवेद्ध्रुवम्।कोटिसङ्ख्यानि वर्माणि नानेन सदृशानि हि।कल्पवृक्षसमं चेदं चिन्तामणिसमं मुने।सकृत्पठनमात्रेण महापापैः प्रमुच्यते।सप्तवारं पठेद्यस्तु रात्रौ पश्चिमदिङ्मुखः।मण्डलान्निगडग्रस्तो मुच्यते न विचारणा।विद्वेषी च भवेद्वश्यः पठनादस्य वै मुने।कृत्रिमाणि च सर्वाणि नश्यन्ति पठनाद्ध्रुवम्।यं यं च याचते कामं तं तमाप्नोति पूरुषः।नित्यं त्रिवारं पठनात्खण्डयेच्छत्रुमण्डलम्।दशवारं जपन्नित्यं त्रिकालज्ञो भवेन्नरः।इन्द्रस्येन्द्रत्वमेतेन ब्रह्मणो ब्रह्मताऽभवत्।चक्रवर्तित्वमेतेन सर्वेषां चैव भूभृताम्।वज्रसारतमं चैतत्कवचं शिवभाषितम्।पठतां श‍ृण्वतां चैव सर्वपापहरं परम्।गुरुपूजापरो नित्यं कवचं यः पठेदिदम्।मातुः स्तन्यं पुनः सोऽपि न पिबेन्मुनिसत्तम।कुमारकवचं चेदं यः पठेत्स्वामिसन्निधौ।सकृत्पठनमात्रेण स्कन्दसायुज्यमाप्नुयात्।सेनानीरग्निभूः स्कन्दस्तारकारिर्गुणप्रियः।षाण्मातुरो बाहुलेयः कृत्तिकाप्रियपुत्रकः।मयूरवाहनः श्रीमान् कुमारः क्रौञ्चदारणः।विशाखः पार्वतीपुत्रः सुब्रह्मण्यो गुहस्तथा।षोडशैतानि नामानि श‍ृणुयात् श्रावयेत्सदा।तस्य भक्तिश्च मुक्तिश्च करस्थैव न संशयः।गोमूत्रेण तु पक्त्वान्नं भुक्त्वा षण्मासतो मुने।सहस्रं मूलमन्त्रं च जप्त्वा नियमतन्त्रितः।सप्तविंशतिवारं तु नित्यं यः प्रपठेदिदम्।वायुवेगमनोवेगौ लभते नात्र संशयः।य एवं वर्षपर्यन्तं पूजयेद्भक्तिसंयुतः।ब्रह्मलोकं च वैकुण्ठं कैलासं समवाप्स्यति।तस्मादनेन सदृशं कवचं भुवि दुर्लभम्।यस्य कस्य न वक्तव्यं सर्वथा मुनिसत्तम।पठन्नित्यं च पूतात्मा सर्वसिद्धिमवाप्स्यति।सुब्रह्मण्यस्य सायुज्यं सत्यं च लभते ध्रुवम्।

 naarada uvaacha-
devesha shrotumichchhaami brahman vaageesha tattvatah'.
subrahmanyasya kavacham kri'payaa vaktumarhasi.
brahmovaacha -
maharshe shri'nu madvaakyam bahunaa kim tavaanagha.
mantraashcha kot'ishah' santi shambhuvishnvaadidevataah'.
sahasranaamnaam kot'yashcha hyanganyaasaashcha kot'ishah'.
upamantraastvaneke cha kot'ishah' santi naarada.
maalaamantraah' kot'ishashcha hyashvamedhaphalapradaah'.
kumaarakavacham divyam bhuktimuktiphalapradam.
sarvasampatkaram shreemadvajrasaarasamanvitam.
sarvaatmake shambhuputre matirastyatra kim tava.
dhanyo'si kri'takri'tyo'si bhakto'si tvam mahaamate.
yasyedam sharajam janma yadi vaa skanda eva cha.
tenaiva labhyate chaitatkavacham shankaroditam.
ri'shishchhando devataashcha kaaryaah' poorvavadeva cha.
dhyaanam tu te pravakshyaami yena svaamimayo bhavet.
onkaararoopinam devam sarvadevaatmakam prabhum.
devasenaapatim shaantam brahmavishnushivaatmakam.
bhaktapriyam bhaktigamyam bhaktaanaamaartibhanjanam.
bhavaaneepriyaputram cha mahaabhayanivaarakam.
shankaram sarvalokaanaam shankaraatmaanamavyayam.
sarvasampatpradam veeram sarvalokaikapoojitam.
evam dhyaatvaa mahaasenam kavacham vajrapanjaram.
pat'hennityam prayatnena trikaalam shuddhisamyutah'.
satyajnyaanapradam divyam sarvamangaladaayakam.
asya shreesubrahmanyakavachastotramahaamantrasya parabrahma-ri'shih'.
devee gaayatree chhandah'. prasannajnyaanasubrahmanyo devataa. om beejam.
shreem shaktih'. saum keelakam. prasannajnyaanasubrahmanyaprasaadasiddhyarthe
jape viniyogah'.
shreesubrahmanyaaya angusht'haabhyaam namah'.
shaktidharaaya tarjaneebhyaam namah'.
shanmukhaaya madhyamaabhyaam namah'.
shat'trimshatkonasamsthitaaya anaamikaabhyaam namah'.
sarvatomukhaaya kanisht'hikaabhyaam namah'.
taarakaantakaaya karatalakarapri'sht'haabhyaam namah'.
evam hri'dayaadinyaasah'. bhoorbhuvassuvarom iti digbandhah'.
dhyaanam -
shad'vaktram shikhivaahanam triyanam chitraambaraalankri'tam
shaktim vajramayeem trishoolamabhayam khet'am dhanushchakrakam.
paasham kukkut'amankusham cha varadam dorbhirdadhaanam sadaa
dhyaayaameepsitasiddhaye shivasutam skandam suraaraadhitam.
dvishad'bhujam shanmukhamambikaasutam
kumaaramaadityasamaanatejasam.
vande mayooraasanamagnisambhavam
senaanyamadyaahamabheesht'asiddhaye.
gaangeyam vahnigarbham sharavanajanitam jnyaanashaktim kumaaram
brahmeshaanaamared'yam guhamachalasutam rudratejah' svaroopam.
sonaanyam taarakaghnam sakalabhayaharam kaartikeyam shad'aasyam
subrahmanyam mayooradhvajarathasahitam devadevam namaami.
kanakakund'alamand'itashanmukham vanajaraajiviraajitalochanam.
nishitashastrasharaasanadhaarinam sharavanodbhavameeshasutam bhaje.
atha kavacham.
subrahmanyah' shirah' paatu shikhaam paatu shivaatmajah'.
shivah' paatu lalaat'am me bhroomadhyam kraunchadaaranah'.
bhuvau paatu kumaaro me netre paatu trinetrakah'.
paayaadgaureesutah' shrotre gand'ayugmam haraatmajah'.
dakshanaasaaput'advaaram praanaroopee maheshvarah'.
sarvadevaatmakah' paatu jihvaam saarasvatapradah'.
dantaan rakshatu deveshah' taaluyugmam shivaatmajah'.
devasenaapatih' paatu chubukam chaadrijaasutah'.
paarvateenandanah' paatu dvaavosht'hau mama sarvadaa.
shanmukho me mukham paatu sarvadevashikhaamanih'.
simhagarvaapahantaa me greevaam paatu sanaatanah'.
taarakaasurasamhantaa kant'ham dusht'aantako'vatu.
subhujo me bhujau paatu skandhamagnisuto mama.
sandhiyugmam guhah' paatu karau me paatu paavanah'.
karaanguleeh' shreekaro'vyaat surarakshanadeekshitah'.
vakshah'sthalam mahaasenah' taarakaasurasoodanah'.
kukshim paatu sadaa devah' subrahmanyah' sureshvarah'.
udaram paatu rakshohaa naabhim me vishvapaalakah'.
lokeshah' paatu pri'sht'ham me kat'im paatu dharaadharah'.
guhyam jitendriyah' paatu shishnam paatu prajaapatih'.
and'advayam mahaadeva ooruyugmam sadaa mama.
sarvabhooteshvarah' paatu jaanuyugmamaghaapahah'.
janghe me vishvabhukpaatu gulphau paatu sanaatanah'.
valleeshvarah' paatu mama manibandhau mahaabalah'.
paatu valleepatih' paadau paadapri'sht'ham mahaaprabhuh'.
paadaanguleeh' shreekaro me indriyaani sureshvarah'.
tvacham maheepatih' paatu romakoopaamstu shaankarih'.
shaanmaaturah' sadaa paatu sarvadaa cha harapriyah'.
kaartikeyastu shuklam me raktam sharavanodbhavah'.
vaacham vaageeshvarah' paatu naadam me'vyaatkumaarakah'.
poorvasyaam dishi senaaneermaam paatu jagadeeshvarah'.
aagneyyaamagnidevashcha kraturoopee paraatparah'.
dakshinasyaamugraroopah' sarvapaapavinaashanah'.
khad'gadhaaree cha nairri'tyaam sarvarakshoniyaamakah'.
pashchimaasyaam dishi sadaa jalaadhaaro jitendriyah'.
vaayavyaam praanaroopo'vyaanmahaaseno mahaabalah'.
uttarasyaam dishi sadaa nidhikartaa sa paatu maam.
shambhuputrah' sadaa paatu dishyaishaanyaam mahaadyutih'.
oordhvam brahmapatih' paatu chaturmukhanishevitah'.
adhastaatpaatu vishvaatmaa sadaa brahmaand'abhri'tparah'.
madhyam paatu mahaasenah' shoorasamhaarakri'tsadaa.
ahankaaram mano buddhim skandah' paatu sadaa mama.
gangaateeranivaasee maamaadiyaame sadaa'vatu.
madhyayaame surashresht'hastri'teeye paatu shaambhavah'.
dinaante lokanaatho maam purvaraatryaam puraarijah'.
ardharaatre mahaayogee nishaante kaalaroopadhri't.
mri'tyunjayah' sarvakaalamantastu shikhivaahanah'.
bahih' sthitam shaktidharah' paatu maam yogipoojitah'.
sarvatra maam sadaa paatu yogavidyo niranjanah'.
paatu maam panchabhootebhyah' panchabhootaatmakastadaa.
tisht'hantamagnibhooh' paatu gachchhantam shoorasoodanah'.
vishaakho'vyaachchhayaanam maam nishannam tu sureshvarah'.
maarge me neelakant'hashcha shailadurgeshu naayakah'.
aranyadeshe durge chaabhayam dadyaadbhayaapahah'.
bhaaryaam putrapradah' paatu putraan rakshet haraatmajah'.
pashoon rakshenmahaatejaa dhanam dhanapatirmama.
raajaraajaarchitah' paatu hrasvadeham mahaabalah'.
jeevanam paatu sarvesho mahaamanivibhooshanah'.
sooryodaye tu maam sarvo hyashvinyaadyaashcha taarakaah'.
meshaadyaa raashayashchaiva prabhavaadyaashcha vatsaraah'.
ayane dve shad'ri'tavo maasaashchaitramukhaastathaa.
shuklakri'shnau tathaa pakshau tithayah' pratipanmukhaah'.
ahoraatre cha yaamaadi muhoortaa ghat'ikaastathaa.
kalaah' kaasht'haadayashchaiva ye chaanye kaalabhedakaah'.
te sarve gunasampannaah' santu saumyaastadaajnyayaa.
ye pakshino mahaakrooraah' uragaah' krooradri'sht'ayah'.
ulookaah' kaakasanghaashcha shyenaah' kankaadisanjnyakaah'.
shukaashcha saarikaashchaiva gri'dhraah' kankaa bhayaanakaah'.
te sarve skandadevasya khad'gajaalena khand'itaah'.
shatasho vilayam yaantu bhinnapakshaa bhayaaturaah'.
ye dravyahaarinashchaiva ye cha himsaaparaa dvishah'.
ye pratyoohakaraa martyaa dusht'amartyaa duraashayaah'.
dusht'aa bhoopaalasandohaah' ye bhoobhaarakaraah' sadaa.
kaayavighnakaraa ye cha ye khalaa dusht'abuddhayah'.
ye cha maayaavinah' krooraah' sarvadravyaapahaarinah'.
ye chaapi dusht'akarmaano mlechchhaashcha yavanaadayah'.
nityam kshudrakaraa ye cha hyasmadbaadhaakaraah' pare.
daanavaa ye mahaadaityaah' pishaachaa ye mahaabalaah'.
shaakineed'aakineebhedaah' vetaalaa brahmaraakshasaah'.
kooshmaand'abhairavaadyaa ye kaaminee mohinee tathaa.
apasmaaragrahaa ye cha raktamaamsabhujo hi ye.
gandharvaapsarasah' siddhaa ye cha devasya yonayah'.
ye cha pretaah' kshetrapaalaah' ye vinaayakasanjnyakaah'.
mahaameshaa mahaavyaaghraa mahaaturagasanjnyakaah'.
mahaagovri'shasimhaadyaah' saindhavaa ye mahaagajaah'.
vaanaraah' shunakaa ye cha varaahaa vanachaarinah'.
vri'kosht'rakharamaarjaaraah' ye chaatikshudrajantavah'.
agaadhabhootaa bhootaangagrahagraahyapradaayakaah'.
jvaalaamaalaashcha tad'ito duraatmaano'tiduh'khadaah'.
naanaarogakaraa ye cha kshudravidyaa mahaabalaah'.
mantrayantrasamudbhootaah' tantrakalpitavigrahaah'.
ye sphot'akaa mahaarogaah' vaatikaah' paittikaashcha ye.
sannipaatashleshmakaashcha mahaaduh'khakaraastathaa.
maaheshvaraa vaishnavaashcha vairinchaashcha mahaajvaraah'.
chaaturthikaah' paakshikaashcha maasashaanmaasikaashcha ye.
saamvatsaraa durnivaaryaa jvaraah' paramadaarunaah'.
sri'sht'akaa ye mahotpaataa ye jaagratsvapnadooshakaah'.
ye grahaah' kroorakartaaro ye vaa baalagrahaadayah'.
mahaashino maamsabhujo manobuddheendriyaapahaah'.
sphot'akaashcha mahaaghoraah' charmamaamsaadisambhavaah'.
divaachoraa raatrichoraa ye sandhyaasu cha daarunaah'.
jalajaah' sthalajaashchaiva sthaavaraa jangamaashcha ye.
vishapradaah' kri'trimaashcha mantratantrakriyaakaraah'.
maaranochchaat'anonmooladveshamohanakaarinah'.
garud'aadyaah' pakshijaataa udbhidashchaand'ajaashcha ye.
koot'ayuddhakaraa ye cha svaamidrohakaraashcha ye.
kshetragraamaharaa ye cha bandhanopadravapradaah'.
mantraa ye vividhaakaaraah' ye cha peed'aakaraastathaa.
yo choktaa ye hyanuktaashcha bhoopaataalaantarikshagaah'.
te sarve shivaputrasya kavachottaaranaadiha.
sahasradhaa layam yaantu dooraadeva tirohitaah'.
phalashrutih'.
ityetatkavacham divyam shanmukhasya mahaatmanah'.
sarvasampatpradam nri'naam sarvakaayaarthasaadhanam.
sarvavashyakaram punyam putrapautrapradaayakam.
rahasyaatirahasyam cha guhyaadguhyataram mahat.
sarvedevapriyakaram sarvaanandapradaayakam.
asht'aishvaryapradam nityam sarvaroganivaaranam.
anena sadri'sham varma naasti brahmaand'agolake.
satyam satyam punah' satyam shri'nu putra mahaamune.
ekavaaram japannityam munitulyo bhavishyati.
trivaaram yah' pat'hennityam gurudhyaanaparaayanah'.
sa eva shanmukhah' satyam sarvadevaatmako bhavet.
pat'hataam yo bhedakri'tsyaat paapakri'tsa bhaveddhruvam.
kot'isankhyaani varmaani naanena sadri'shaani hi.
kalpavri'kshasamam chedam chintaamanisamam mune.
sakri'tpat'hanamaatrena mahaapaapaih' pramuchyate.
saptavaaram pat'hedyastu raatrau pashchimadingmukhah'.
mand'alaannigad'agrasto muchyate na vichaaranaa.
vidveshee cha bhavedvashyah' pat'hanaadasya vai mune.
kri'trimaani cha sarvaani nashyanti pat'hanaaddhruvam.
yam yam cha yaachate kaamam tam tamaapnoti poorushah'.
nityam trivaaram pat'hanaatkhand'ayechchhatrumand'alam.
dashavaaram japannityam trikaalajnyo bhavennarah'.
indrasyendratvametena brahmano brahmataa'bhavat.
chakravartitvametena sarveshaam chaiva bhoobhri'taam.
vajrasaaratamam chaitatkavacham shivabhaashitam.
pat'hataam shri'nvataam chaiva sarvapaapaharam param.
gurupoojaaparo nityam kavacham yah' pat'hedidam.
maatuh' stanyam punah' so'pi na pibenmunisattama.
kumaarakavacham chedam yah' pat'hetsvaamisannidhau.
sakri'tpat'hanamaatrena skandasaayujyamaapnuyaat.
senaaneeragnibhooh' skandastaarakaarirgunapriyah'.
shaanmaaturo baahuleyah' kri'ttikaapriyaputrakah'.
mayooravaahanah' shreemaan kumaarah' kraunchadaaranah'.
vishaakhah' paarvateeputrah' subrahmanyo guhastathaa.
shod'ashaitaani naamaani shri'nuyaat shraavayetsadaa.
tasya bhaktishcha muktishcha karasthaiva na samshayah'.
gomootrena tu paktvaannam bhuktvaa shanmaasato mune.
sahasram moolamantram cha japtvaa niyamatantritah'.
saptavimshativaaram tu nityam yah' prapat'hedidam.
vaayuvegamanovegau labhate naatra samshayah'.
ya evam varshaparyantam poojayedbhaktisamyutah'.
brahmalokam cha vaikunt'ham kailaasam samavaapsyati.
tasmaadanena sadri'sham kavacham bhuvi durlabham.
yasya kasya na vaktavyam sarvathaa munisattama.
pat'hannityam cha pootaatmaa sarvasiddhimavaapsyati.
subrahmanyasya saayujyam satyam cha labhate dhruvam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |