महालक्ष्मी सुप्रभात स्तोत्र

ओं श्रीलक्ष्मि श्रीमहालक्ष्मि क्षीरसागरकन्यके
उत्तिष्ठ हरिसम्प्रीते भक्तानां भाग्यदायिनि।
उत्तिष्ठोत्तिष्ठ श्रीलक्ष्मि विष्णुवक्षस्थलालये
उत्तिष्ठ करुणापूर्णे लोकानां शुभदायिनि।
श्रीपद्ममध्यवसिते वरपद्मनेत्रे
श्रीपद्महस्तचिरपूजितपद्मपादे।
श्रीपद्मजातजननि शुभपद्मवक्त्रे
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
जाम्बूनदाभसमकान्तिविराजमाने
तेजोस्वरूपिणि सुवर्णविभूषिताङ्गि।
सौवर्णवस्त्रपरिवेष्टितदिव्यदेहे
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
सर्वार्थसिद्धिदे विष्णुमनोऽनुकूले
सम्प्रार्थिताखिलजनावनदिव्यशीले।
दारिद्र्यदुःखभयनाशिनि भक्तपाले
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
चन्द्रानुजे कमलकोमलगर्भजाते
चन्द्रार्कवह्निनयने शुभचन्द्रवक्त्रे।
हे चन्द्रिकासमसुशीतलमन्दहासे
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
श्रीआदिलक्ष्मि सकलेप्सितदानदक्षे
श्रीभाग्यलक्ष्मि शरणागत दीनपक्षे।
ऐश्वर्यलक्ष्मि चरणार्चितभक्तरक्षिन्
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
श्रीधैर्यलक्ष्मि निजभक्तहृदन्तरस्थे
सन्तानलक्ष्मि निजभक्तकुलप्रवृद्धे।
श्रीज्ञानलक्ष्मि सकलागमज्ञानदात्रि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
सौभाग्यदात्रि शरणं गजलक्ष्मि पाहि
दारिद्र्यध्वंसिनि नमो वरलक्ष्मि पाहि।
सत्सौख्यदायिनि नमो धनलक्ष्मि पाहि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
श्रीराज्यलक्ष्मि नृपवेश्मगते सुहासिन्
श्रीयोगलक्ष्मि मुनिमानसपद्मवासिन्।
श्रीधान्यलक्ष्मि सकलावनिक्षेमदात्रि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
श्रीपार्वती त्वमसि श्रीकरि शैवशैले
क्षीरोदधेस्त्वमसि पावनि सिन्धुकन्या।
स्वर्गस्थले त्वमसि कोमले स्वर्गलक्ष्मी
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
गङ्गा त्वमेव जननी तुलसी त्वमेव
कृष्णप्रिया त्वमसि भाण्डिरदिव्यक्षेत्रे।
राजगृहे त्वमसि सुन्दरि राज्यलक्ष्मी
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
पद्मावती त्वमसि पद्मवने वरेण्ये
श्रीसुन्दरी त्वमसि श्रीशतश‍ृङ्गक्षेत्रे।
त्वं भूतलेऽसि शुभदायिनि मर्त्यलक्ष्मी
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
चन्द्रा त्वमेव वरचन्दनकाननेषु
देवि कदम्बविपिनेऽसि कदम्बमाला।
त्वं देवि कुन्दवनवासिनि कुन्ददन्ती
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
श्रीविष्णुपत्नि वरदायिनि सिद्धलक्ष्मि
सन्मार्गदर्शिनि शुभङ्करि मोक्षलक्ष्मि।
श्रीदेवदेवि करुणागुणसारमूर्ते
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
अष्टोत्तरार्चनप्रिये सकलेष्टदात्रि
हे विश्वधात्रि सुरसेवितपादपद्मे।
सङ्कष्टनाशिनि सुखङ्करि सुप्रसन्ने
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
आद्यन्तरहिते वरवर्णिनि सर्वसेव्ये
सूक्ष्मातिसूक्ष्मतररूपिणि स्थूलरूपे।
सौन्दर्यलक्ष्मि मधुसूदनमोहनाङ्गि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
सौख्यप्रदे प्रणतमानसशोकहन्त्रि
अम्बे प्रसीद करुणासुधयाऽऽर्द्रदृष्ट्या।
सौवर्णहारमणिनूपुरशोभिताङ्गि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
नित्यं पठामि जननि तव नाम स्तोत्रं
नित्यं करोमि तव नामजपं विशुद्धे।
नित्यं श‍ृणोमि भजनं तव लोकमातः
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
माता त्वमेव जननी जनकस्त्वमेव
देवि त्वमेव मम भाग्यनिधिस्त्वमेव।
सद्भाग्यदायिनि त्वमेव शुभप्रदात्री
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
वैकुण्ठधामनिलये कलिकल्मषघ्ने
नाकाधिनाथविनुते अभयप्रदात्रि।
सद्भक्तरक्षणपरे हरिचित्तवासिन्
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
निर्व्याजपूर्णकरुणारससुप्रवाहे
राकेन्दुबिम्बवदने त्रिदशाभिवन्द्ये।
आब्रह्मकीटपरिपोषिणि दानहस्ते
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
लक्ष्मीति पद्मनिलयेति दयापरेति
भाग्यप्रदेति शरणागतवत्सलेति।
ध्यायामि देवि परिपालय मां प्रसन्ने
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
श्रीपद्मनेत्ररमणीवरे नीरजाक्षि
श्रीपद्मनाभदयिते सुरसेव्यमाने।
श्रीपद्मयुग्मधृतनीरजहस्तयुग्मे
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।
इत्थं त्वदीयकरुणात्कृतसुप्रभातं
ये मानवाः प्रतिदिनं प्रपठन्ति भक्त्या।
तेषां प्रसन्नहृदये कुरु मङ्गलानि
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |