मङ्गलं करुणापूर्णे मङ्गलं भाग्यदायिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
अष्टकष्टहरे देवि अष्टभाग्यविवर्धिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
क्षीरोदधिसमुद्भूते विष्णुवक्षस्थलालये।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
धनलक्ष्मि धान्यलक्ष्मि विद्यालक्ष्मि यशस्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
सिद्धिलक्ष्मि मोक्षलक्ष्मि जयलक्ष्मि शुभङ्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
सन्तानलक्ष्मि श्रीलक्ष्मि गजलक्ष्मि हरिप्रिये।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
दारिद्र्यनाशिनि देवि कोल्हापुरनिवासिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
वरलक्ष्मि धैर्यलक्ष्मि श्रीषोडशभाग्यङ्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
महालक्ष्मी कवच
अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य। ब्रह्मा-ऋषिः। गायत्....
Click here to know more..तोटकाष्टक
विदिताखिलशास्त्रसुधाजलधे महितोपनिषत्कथितार्थनिधे। ह....
Click here to know more..दुर्गा सप्तशती - अध्याय ९
ॐ राजोवाच । विचित्रमिदमाख्यातं भगवन् भवता मम । देव्याश....
Click here to know more..