महालक्ष्मी स्तुति

महालक्ष्मीमहं भजे ।
देवदैत्यनुतविभवां वरदां महालक्ष्मीमहं भजे ।
सर्वरत्नधनवसुदां सुखदां महालक्ष्मीमहं भजे ।
सर्वसिद्धगणविजयां जयदां महालक्ष्मीमहं भजे ।
सर्वदुष्टजनदमनीं नयदां महालक्ष्मीमहं भजे ।
सर्वपापहरवरदां सुभगां महालक्ष्मीमहं भजे ।
आदिमध्यान्तरहितां विरलां महालक्ष्मीमहं भजे ।
महालक्ष्मीमहं भजे ।
काव्यकीर्तिगुणकलितां कमलां महालक्ष्मीमहं भजे ।
दिव्यनागवरवरणां विमलां महालक्ष्मीमहं भजे ।
सौम्यलोकमतिसुचरां सरलां महालक्ष्मीमहं भजे ।
सिद्धिबुद्धिसमफलदां सकलां महालक्ष्मीमहं भजे ।
सूर्यदीप्तिसमसुषमां सुरमां महालक्ष्मीमहं भजे ।
सर्वदेशगतशरणां शिवदां महालक्ष्मीमहं भजे ।
महालक्ष्मीमहं भजे ।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |