क्षीरसिन्धुसुतां देवीं कोट्यादित्यसमप्रभाम्|
हिरण्मयीं नमस्यामि लक्ष्मीं मन्मातरं श्रियम्|
वरदां धनदां नन्द्यां प्रकाशत्कनकस्रजाम्|
हिरण्मयीं नमस्यामि लक्ष्मीं मन्मातरं श्रियम्|
आद्यन्तरहितां नित्यां श्रीहरेरुरसि स्थिताम्|
हिरण्मयीं नमस्यामि लक्ष्मीं मन्मातरं श्रियम्|
पद्मासनसमासीनां पद्मनाभसधर्मिणीम्|
हिरण्मयीं नमस्यामि लक्ष्मीं मन्मातरं श्रियम्|
देविदानवगन्धर्वसेवितां सेवकाश्रयाम्|
हिरण्मयीं नमस्यामि लक्ष्मीं मन्मातरं श्रियम्|
हिरण्मय्या नुतिं नित्यं यः पठत्यथ यत्नतः|
प्राप्नोति प्रभुतां प्रीतिं धनं मानं जनो ध्रुवम्|
गुरु अष्टोत्तर शतनामावलि
ॐ सद्गुरवे नमः । ॐ अज्ञाननाशकाय नमः । ॐ अदम्भिने नमः । ॐ अ....
Click here to know more..हयग्रीव स्तोत्र
नमोऽस्तु नीरायणमन्दिराय नमोऽस्तु हारायणकन्धराय। नमोऽ....
Click here to know more..देव प्रतिष्ठा की सामान्य विधि