नमस्ते शारदे देवि काश्मीरपुरवासिनि।
त्वामहं प्रार्थये नित्यं विद्यादानं च दहि मे।
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा।
भक्तजिह्वाग्रसदना शमादिगुणदायिनी।
नमामि यामिनीं नाथलेखालङ्कृतकुन्तलाम्।
भवानीं भवसन्तापनिर्वापणसुधानदीम्।
भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः।
वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च।
ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी।
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः।
यया विना जगत् सर्वं शश्वज्जीवन्मृतं भवेत्।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः।
यया विना जगत् सर्वं मूकमुन्मत्तवत् सदा।
या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः।
सप्तश्लोकी गीता अर्थ सहित
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्। यः प्रयात....
Click here to know more..कृष्ण नामावलि स्तोत्र
केशवं केशिमथनं वासुकेर्नोगशायिनम् । रासक्रीडाविलासाढ....
Click here to know more..शुकदेव राजा जनक से मिलने जाते हैं उनका अनुभव