शृङ्गाद्रिवासाय विधिप्रियाय कारुण्यवाराम्बुधये नताय।
विज्ञानदायाखिलभोगदाय श्रीशारदाख्याय नमो महिम्ने।
तुङ्गातटावासकृतादराय भृङ्गालिविद्वेषिकचोज्ज्वलाय।
अङ्गाधरीभूतमनोज्ञहेम्ने शृङ्गारसीम्नेऽस्तु नमो महिम्ने।
वीणालसत्पाणिसरोरुहाय शोणाधरायाखिलभाग्यदाय।
काणादशास्त्रप्रमुखेषु चण्डप्रज्ञाप्रदायास्तु नमो महिम्ने।
चन्द्रप्रभायेशसहोदराय चन्द्रार्भकालङ्कृतमस्तकाय।
इन्द्रादिदेवोत्तमपूजिताय कारुण्यसान्द्राय नमो महिम्ने।
कामाक्षी स्तोत्र
कामाक्षि मातर्नमस्ते। कामदानैकदक्षे स्थिते भक्तपक्षे....
Click here to know more..गणेश महिम्न स्तोत्र
गणेशदेवस्यं महात्म्यमेतद् यः श्रावयेद्वाऽपि पठेच्च तस....
Click here to know more..दुर्गा सप्तशती - वैकृतिक रहस्य
अथ वैकृन्तिकं रहस्यम् । ऋषिरुवाच । त्रिगुणा तामसी देवी ....
Click here to know more..