शृङ्गाद्रिवासाय विधिप्रियाय कारुण्यवाराम्बुधये नताय।
विज्ञानदायाखिलभोगदाय श्रीशारदाख्याय नमो महिम्ने।
तुङ्गातटावासकृतादराय भृङ्गालिविद्वेषिकचोज्ज्वलाय।
अङ्गाधरीभूतमनोज्ञहेम्ने शृङ्गारसीम्नेऽस्तु नमो महिम्ने।
वीणालसत्पाणिसरोरुहाय शोणाधरायाखिलभाग्यदाय।
काणादशास्त्रप्रमुखेषु चण्डप्रज्ञाप्रदायास्तु नमो महिम्ने।
चन्द्रप्रभायेशसहोदराय चन्द्रार्भकालङ्कृतमस्तकाय।
इन्द्रादिदेवोत्तमपूजिताय कारुण्यसान्द्राय नमो महिम्ने।