तुङ्गभद्रा स्तोत्र

तुङ्गा तुङ्गतरङ्गवेगसुभगा गङ्गासमा निम्नगा
रोगान्ताऽवतु सह्यसंज्ञितनगाज्जातापि पूर्वाब्धिगा।
रागाद्यान्तरदोषहृद्वरभगा वागादिमार्गातिगा
योगादीष्टसुसिद्धिदा हतभगा स्वङ्गा सुवेगापगा।
स्वसा कृष्णावेणीसरित उत वेणीवसुमणी-
प्रभापूतक्षोणीचकितवरवाणीसुसरणिः।
अशेषाघश्रेणीहृदखिलमनोध्वान्ततरणिर्दृढा
स्वर्निश्रेणिर्जयति धरणीवस्त्ररमणी।
दृढं बध्वा क्षिप्ता भवजलनिधौ भद्रविधुता
भ्रमच्चित्तास्त्रस्ता उपगत सुपोता अपि गताः।
अधोधस्तान्भ्रान्तान्परमकृपया वीक्ष्य तरणिः
स्वयं तुङ्गा गङ्गाभवदशुभभङ्गापहरणी।
वर्धा सधर्मा मिलितात्र पूर्वतो भद्रा कुमुद्वत्यपि वारुणीतः।
तन्मध्यदेशेऽखिलपापहारिणी व्यालोकि तुङ्गाऽखिलतापहारिणी।
भद्रया राजते कीत्र्या या तुङ्गा सह भद्रया।
सन्निधिं सा करोत्वेतं श्रीदत्तं लघुसन्निधिम्।
गङ्गास्नानं तुङ्गापानं भीमातीरे यस्य ध्यानं
लक्ष्मीपुर्या भिक्षादानं कृष्णातीरे चानुष्ठानम्।
सिंहाख्याद्रौ निद्रास्थानं सेवा यस्य प्रीत्या ध्यानं
सद्भक्तायाक्षय्यं दानं श्रीदत्तास्यास्यास्तु ध्यानम्।
तुङ्गापगा महाभङ्गा पातु पापविनाशिनी।
रागातिगा महागङ्गा जन्तुतापविनाशिनी।
हर परमरये समस्तमदामयान्
खलबलदलनेऽघमप्यमले मम।
हरसि रसरसे समस्तमनामलं
कुरु गुरुकरुणां समस्तमते मयि।
वेगातुङ्गापगाघं हरतु रथरया देवदेवर्षिवन्द्या
वारं वारं वरं यज्जलमलमलघुप्राशने शस्तशर्म।
श्रीदत्तो दत्तदक्षः पिबति बत बहु स्याः पयः पद्मपत्रा-
क्षीं तामेतामितार्थां भज भज भजतां तारकां रम्यरम्याम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |