या स्नानमात्राय नराय गोदा गोदानपुण्याधिदृशिः कुगोदा।
गोदासरैदा भुवि सौभगोदा गोदावरी साऽवतु नः सुगोदा।
या गौपवस्तेर्मुनिना हृताऽत्र या गौतमेन प्रथिता ततोऽत्र।
या गौतमीत्यर्थनराश्वगोदा गोदावरी साऽवतु नः सुगोदा।
विनिर्गता त्र्यम्बकमस्तकाद्या स्नातुं समायान्ति यतोऽपि काद्या।
काऽऽद्याधुनी दृक्सततप्रमोदा गोदावरी साऽवतु नः सुगोदा।
गङ्गोद्गतिं राति मृताय रेवा तपःफलं दानफलं तथैव।
वरं कुरुक्षेत्रमपि त्रयं या गोदावरी साऽवतु नः सुगोदा।
सिंहे स्थिते वागधिपे पुरोधः सिंहे समायान्त्यखिलानि यत्र।
तीर्थानि नष्टाखिललोकखेदा गोदावरी साऽवतु नः सुगोदा।
यदूर्ध्वरेतोमुनिवर्गलभ्यं तद्यत्तटस्थैरपि धाम लभ्यम्।
अभ्यन्तरक्षालनपाटवोदा गोदावरी साऽवतु नः सुगोदा।
यस्याः सुधास्पर्धि पयः पिबन्ति न ते पुनर्मातृपयः पिबन्ति।
यस्याः पिबन्तोऽम्ब्वमृतं हसन्ति गोदावरी साऽवतु नः सुगोदा।
सौभाग्यदा भारतवर्षधात्री सौभाग्यभूता जगतो विधात्री।
धात्री प्रबोधस्य महामहोदा गोदावरी साऽवतु नः सुगोदा।