कथं सह्यजन्ये सुरामे सजन्ये
प्रसन्ने वदान्या भवेयुर्वदान्ये।
सपापस्य मन्ये गतिञ्चाम्ब मान्ये
कवेरस्य धन्ये कवेरस्य कन्ये।
कृपाम्बोधिसङ्गे कृपार्द्रान्तरङ्गे
जलाक्रान्तरङ्गे जवोद्योतरङ्गे।
नभश्चुम्बिवन्येभ- सम्पद्विमान्ये
नमस्ते वदान्ये कवेरस्य कन्ये।
समा ते न लोके नदी ह्यत्र लोके
हताशेषशोके लसत्तट्यशोके।
पिबन्तोऽम्बु ते के रमन्ते न नाके
नमस्ते वदान्ये कवेरस्य कन्ये।
महापापिलोकानपि स्नानमात्रान्
महापुण्यकृद्भिर्महत्कृत्यसद्भिः।
करोष्यम्ब सर्वान् सुराणां समानान्
नमस्ते वदान्ये कवेरस्य कन्ये।
अविद्यान्तकर्त्री विशुद्धप्रदात्री
सस्यस्यवृद्धिं तथाऽऽचारशीलम्।
ददास्यम्ब मुक्तिं विधूय प्रसक्तिं
नमस्ते वदान्ये कवेरस्य कन्ये।
वरद विष्णु स्तोत्र
जगत्सृष्टिहेतो द्विषद्धूमकेतो रमाकान्त सद्भक्तवन्द्य....
Click here to know more..गुरु अष्टोत्तर शतनामावलि
ॐ सद्गुरवे नमः । ॐ अज्ञाननाशकाय नमः । ॐ अदम्भिने नमः । ॐ अ....
Click here to know more..आस्तिक की मांग - सर्प यज्ञ को रोक दो
बस इस यज्ञ को यहीं और अभी बंद कर दो ताकि मेरी माता का वंश बच....
Click here to know more..