आनन्दं दिशतु श्रीहस्तिगिरौ स्वस्तिदा सदा मह्यम् ।
या कौतुकं विधत्ते साकृतेनावलोकनेन हरेः ॥
यन्नाम कीर्तनीयं श्रीरित्यादौ प्रियं हरेर्नाम्नाम् ।
सा मे समस्तजननी सन्ततमुदयाय भूयसे भूयात् ॥
श्रीवरदेश्वरदयिते वाञ्छामि त्वां यथामति स्तोतुम् ।
स्वल्पोऽपि डिम्भजल्पो मातुः प्रीतिं कथं न सञ्जनयेत् ॥
मुररिपुमोहनधाम्ने मूर्तिविनिर्धूतविष्फुरद्धेम्ने ।
दिविषदमेयविभूम्ने लक्ष्मीनाम्ने परं नमो भुम्ने ॥
करिगिरिनायककान्ते दान्तजनस्वान्तपङ्कजनिशान्ते ।
मयि भवमरणाश्रान्ते करुणां शरणागते कुरु प्रगुणाम् ॥
वाचामकृत्रिमाणामपि मुनिमनसामगोचरे देवि ।
त्वद्वर्णने मदीयां काङ्क्षां सफलां करोतु ते करुणा ॥
माखद्विधु विम्बास्ये मङ्गलसौम्याकृते गुरुश्रोणि ।
भृगुनन्दिनि मन्दगते रोमलताहे जयाब्धिकुलकेतो ॥
धन्यं प्रसूनगर्भं धम्मिल्लं देवि तावकं मन्ये ।
प्रसवशरेण न्यस्तं तूणं बाणौघपूर्णमर्णवजे ॥
त्वत्केशपाशशोभापरिमोषाणां फलं पयोदानाम् ।
देवि तटिद्गुणवन्धो नोदनमनिलैः पलायनं दिक्षु ॥
निन्दति नीरधिकन्ये कचनिचयस्ते कलापिनं कान्त्या ।
अस्यति बर्हं न कथं भुजङ्गवृत्तिश्च पक्षपाती च ॥
जयतु विपक्षं पद्मे बर्हिणवर्हं त्वदीयकेशभरम् ।
त्वत्कान्तस्य सपक्षं घनमपि कान्त्या कथं पराकुरुते ॥
वर्हं विगर्हिताभं शस्तेनानेन केशहस्तेन ।
मत्वाभवन्मयूरा मन्दाशा जीविते वृतविषाशाः ॥
दिव्यामम्बुधिकन्ये दृष्ट्वा केशश्रियं तवाम्भोदाः ।
आरुह्याद्रिश्रेष्ठं कुरुते त्रपयेव जीवनत्यागम् ॥
सिन्दूरसुन्दरी ते पद्मे सीमन्तपद्धतिर्भाति ।
वर्षावलाहकस्था विद्युल्लेखेव वीतचाञ्चल्या ॥
वेणीमम्बुधिकन्ये भृङ्गश्रेणीमिव स्फुरन्ती ते ।
शम्बरवैरिकृपाणीं शङ्के मानापहारिणीं शौरेः ॥
फालेनाभिमुखेन प्रतिमाकाङ्क्षी तवेन्दुरम्बुधिजे ।
अर्धाकृतिः कलाभिः पूर्णो भवति क्रियासमभिहारात् ॥
कर्णावतंसलक्ष्मी कलयति कमले विशालदृष्टिस्ते ।
नीलोत्पलस्य कृत्यं किमिति श्रुतिमूलशालिनी चिन्त्यम् ॥
वन्दीकृतं कटाक्षैरिन्दीवरमेतदिन्दिरे श्रवसि ।
न्यस्तं पुनः पुनस्तन्नित्यं शङ्कीव वीक्षते चक्षुः ॥
नयनमुदञ्चत्करुणं नानाशृङ्गारमङ्गळाकारम् ।
देवि त्वदाश्रितानां कर्णमतिक्रव्य काइक्षितं दत्ते ॥
कल्लोलिनीशकन्ये त्वल्लोचनकान्तिलिप्सया किं वा ।
द्विजराजपादसेवां जीवञ्जीवः करोति सर्वोऽपि ॥
स्फुरति तव श्रुत्यन्ते पतिरिति यत् प्राहुरम्ब वेदविदः ।
श्रुत्यन्तमेति तत्ते दृष्टिः कान्तावलोकनासक्ता ॥
उल्लङ्घितश्रुतीनामुदधिसुते शोभनं नहीति मृषा ।
येन तवेदं व्यक्तं श्रुतिपथमुल्लङ्घ्य शोभनं नयनम् ॥
श्रुत्यन्ते कृतवसतिः पाद्मरुचिं ते प्रकाशयन्त्यब्जे ।
परमार्गदृष्टिसृष्टां दृष्टिरियं वैष्णवीं च दूषयति ॥
देवि निमित्तगुणस्य क्वापि न दृष्टं हि कार्यसङ्क्रमणम् ।
अनृतमितीदं वचनं यत्वदपाङ्गादनङ्गसद्भावः ॥
आद्यावतारशोभामङ्गीकुर्वाणसात्मनाथस्य ।
निरुपमसुषमं को वा चक्षुस्तव देवि दक्षिणः स्तोतुम् ॥
असृजत् कमलं धाता तुलनां देवीक्षणस्य ते वाञ्छन् ।
असदृशभावादमुना नाम प्राप्तं जलजमित्युचितम् ॥
लोकजनन्यतिभास्वल्लोचनशफरीविराजमानं ते ।
कान्तं नासावंशं केतुं मदनस्य के न शंसन्ति ॥
त्वनासिकात्तगन्धस्त्रपयेवाघोमुखस्तिलप्रसवः ।
मुहुरश्रूणि प्रायो मुञ्चति मातर्मरन्दविन्दुमिषात् ॥
नासामौक्तिकमेतन्मन्ये वाराशिकन्यके धन्यम् ।
तव मुखताराधिपतेः कामादेकं कलज्ञमङ्गगतम् ॥
मुक्तोत्पत्तिस्थानं सरसिजमिति यत् समस्तकविसिद्धम् ।
तद्वयक्तीकरणं ते नासामुक्ताफलस्य देवि फलम् ॥
परिभूतकुन्दकुसुमं भासा नासाग्रभास्वरं पद्मे ।
मुक्ताफलं मुरारेर्मोहनगुडिकेव मान्मथी भाति ॥
भासा विराजमानं नासामुक्ताफलं मम स्फुरति ।
अम्ब तवाननपद्मे स्मितरुचिहंसीप्रसूतमण्डमिव ॥
दुर्वृत्तः खलु लोके कमले कुर्यात् सतां तिरस्कारम् ।
नित्यसुवृत्तेन कथं नासामणिना सतां तिरस्कारः ॥
कर्णेन तेऽब्धिकन्ये ताटङ्कादेः प्रतीयते शोभा ।
कर्णस्य हि स्वभावः श्रीमन्तं यत् स्वमाश्रयं कुरुते ॥
तर्को ममाब्धिकन्ये हाटकताटङ्कचक्रमर्क इति ।
यद्येतदेष न स्यात् कर्णासक्तिः कथं भवेदस्य ॥
भाति कपोलः कमले पत्युः शृङ्गारमणिमयादर्शः ।
प्रतिफलिततन्मुखोऽयं हृद इव सोऽधोविकस्वराम्बुरुहः ॥
मधुरवचोगणनायां मातस्त्वद्गीरभूदियं प्रथमा ।
नैव द्वितीयवार्ता कोकिलवादे कुतो नु पञ्चमता ॥
साम्याभिलाषदोषं सम्मार्ष्टुं त्वद्विरा चिरादिक्षोः ।
चक्रे पञ्चशरस्तं चापानमनापदेशतः प्रणतम् ॥
अर्णवकन्ये धन्यामाकर्णयतस्त्वदीरितां वाचम् ।
शुकपिकवचनश्रवणं श्रुतिपुटकटु देवि कस्य वा न भवेत् ॥
कस्य गिरस्ते श्रोतुः कमले वदनारविन्दकन्दलिताः ।
न भवेन्महती प्रीतिर्नारदमेकं विना मुनीशानम् ॥
मकरन्दाः सुनरसाः शुकपिकवाचोऽपि विस्वरा येन ।
वीणाः परिवादिन्यस्तेन किलाब्जे तवोपमा न गिराम् ॥
अम्बाभिजातवाणीधनरसमाधुर्यचौर्यकारी ते ।
अतिमर्दनासहिष्णुर्मुषितरसानेष मुञ्चतीवेक्षुः ॥
नीरतयेव मरन्दो भाव्यश्श्रवणे तवाब्धिजे वाचाम् ।
स्वादित एव सुधायाः स्वाद्येति ख्यातिरपि न माधुर्यात् ॥
अधरेण बन्धुजीवं मुखतः प्राभातिकं च राजीवम् ।
दूरीकरोषि किं वा देवि त्वं सर्वजीवकरुणार्द्रा ॥
अन्ते वसन् द्विजानामवदातानामतिस्फुरद्रूपः ।
अम्ब तवाधिकमधरो बिम्बप्रतिबिम्बयोग्योऽभूत् ॥
सन्ततपल्लवयोगे मुक्तिर्न शुचेरपीति वाङ् मिथ्या ।
देवि तवाधर पल्लवसंयोगेऽध्यमला द्विजा मुक्ताः ॥
तव तटिनीपतिकन्थे द्विजपटली वदनशुक्तिमुक्ताश्रीः ।
अतनुयशोबीजानामङ्कुरपङ्क्तिः परिस्फुरन्तीव ॥
वदनं सुधाकरस्ते वारिधिकन्ये न तत्र सन्देहः ।
वचनापदेशमेतन्नो चेदमृतं कथं ततः प्रभवेत् ॥
भ्रूयुगळं भृगुतनये कुसुमशरस्येव सव्यसाचितया ।
आरोपिताक्षिबाणं कोदण्डद्वन्द्वमिति मतिं दत्ते ॥
अब्जद्वयमपि विजितं तव कमले वक्त्रशोभया तत्र ।
अम्बरमेकं शरणं शम्बरमपरं च सत्वरं प्रापत् ॥
चन्द्रोऽभवद् विषादी चारु मुखं देवि तावकं वीक्ष्य ।
कुक्षिगतं गरमस्य प्राहुः पङ्कं कलङ्कमित्येके ॥
विजितस्त्वन्मुखकान्त्या देवि निराशो निशाकरो जीवे ।
भृगुपतनं कुरुतेऽसावस्तमथ व्याजतोऽन्वहं तूर्णम् ॥
अम्ब यतस्ते नितरामाननकान्त्या तृणीकृतश्चन्द्रः ।
आतः किल तृणबुद्धया मुञ्चति नैनं मृगः कदाचिदपि ॥
देवि तवाननतुलनामभिलषतां सागसां सरोजानाम् ।
मज्जनमप्सु च बन्धः शैवलपाशेन षट्पदैः प्रसृतिः ॥
द्विजराजस्याप्यब्जे त्वद्वक्त्रेणोपमानरहितेन ।
समताभिलाषदोषाद्दोषाकरता विधोर्दुरन्ताभृत् ॥
पद्मे परस्वहरणं दोषायेति प्रभाषणं मिथ्या ।
अपहृत्य राजलक्ष्मीमपदोषं यद्विभाति ते वक्त्रेम् ॥
निर्जित्य नीरजातं निखिलं मुरवैरिसुन्दरि मुखेन ।
आसनमाकलितं ते नूनं पद्मासनासि तेनैव ॥
त्वद्वदनाभिभवोद्यत्तापातिशयं दिवानिशं पद्मम् ।
अम्भसि वासं कुरुते नूनं तस्यापनोदनायाब्जे ॥
सन्ततमित्रविरोधी दोषासक्तः कलङ्कवानिन्दुः ।
तव वदनेन कथं वा कमले कल्याणगुणभुवा तुल्यः ॥
देवि तवाननचन्द्रप्रसादभिक्षाटनेन राजापि ।
पूर्णश्चन्द्रिकयाहो जीवञ्जीवस्य तृप्तिमातनुते ॥
त्वत्कण्ठकान्तिभाग्यं दृष्ट्वा शङ्खास्सहस्रशो देवि ।
तल्लाभाय पयोधेरन्तं गत्वा चिरं तपस्यन्ति ॥
कण्ठेन ते हृतश्रीः कमले विमलोऽपि सन्ततं कम्बुः ।
घुमुघुमुनिनदव्याजात् क्रोशति राज्ञां पुरः समयदर्शी ॥
त्वत्कण्ठकान्तिजनितं भञ्जनमाख्यातुमुद्यता जलजाः ।
विस्तृतजनशब्दतया पद्मिन्याम्रेडयन्ति भं भमिति ॥
कम्बुभ्रमेण कण्ठं चक्रभ्रान्त्या नितम्बबिम्बमपि ।
परिमृशति ते कराभ्यां पतिरतिदुर्भेदशङ्खचक्राभ्याम् ॥
बाहू शिरीषमालामार्दवकीतन्दुमर्दने राहू ।
सेतू समग्रशोभासिन्धोर्मन्ये समुद्रकन्ये ते ॥
अतिसुरभिः करपद्मो वाञ्छितदानैर्न केवलं गन्धैः ।
वारिधिपुत्रि वदान्यं कविमुक्तं देवि कल्पमातनुते ॥
देवि करेण भवत्या दत्तसमस्तेप्सितेन भक्तानाम् ।
स्पर्शनदूरीकरणं सोदरगीर्वाणशाखिनामुचितम् ॥
देवि तवाननभासा परिभूतः पर्वचन्द्रमा नूनम् ।
तेन हि शश्वत् परिधिव्याजप्राकारमध्यमध्यास्ते ॥
पद्मकुलं परिभूतं पद्मे त्वत्पाणिपद्मरागेण ।
तत्प्रेषितं सदैकं त्वत्पाणिं सेवते सरोजातम् ॥
अनुदिनमर्काभिमुखं वनभुवि शैवालवल्कलं कमलम् ।
तप्त्वा तपोऽतितीव्रं प्रापत् त्वत्पाणिपद्मसाधर्म्यम् ॥
हारा विभान्ति गौरा हरिदयिते ते मुखोडुराजस्य ।
सेवार्थमागतानां ताराणामिव गणाः पुरोगाणाम् ॥
हारलता तब पद्मे सुकुमारस्याङ्गभूकुमारस्य ।
क्रीडामृणालडोलशङ्कां नाङ्क्रूरयत्यसौ कस्य ॥
तव कुचगिरितटवासी कृतरोमाळीनकन्यकास्नानः ।
कश्चन मुक्ताहारो योगीवाभाति नित्यशुद्धात्मा ॥
उन्नतिमुरोजयुग्मे पद्मे दृष्टैव पर्वतास्त्रपया ।
उदधौ चिरं निलीना भीत्या शक्रादिति प्रथामात्रम् ॥
तव कुचकुम्भद्वन्द्वे बद्धस्पर्धानि डाडिमफलानि ।
तुलनाहीनाः कीरास्तुण्डैरेतानि खण्डयन्त्यब्जे ॥
कोदण्डस्य पुरारेरुद्दण्डस्यापि हन्त बाणस्य ।
कवलीकुरुते मानं पुगली कुचयोस्तवेन्दिरे युगपत् ॥
सन्ततमुक्ताहारावपि तव पीनौ पयोधरौ भातः ।
तेन कथं पीनत्वं देवि भवेद्रात्रिभोजने मानम् ॥
कनकमहीघरगौरवकबलीकरणादिवातिपीनमपि ।
मुक्ताहारवदास्ते स्तनयुगलं देवि तावकं चित्रम् ॥
इति किल दर्शनरीतिः कार्यमुपादानकारणाभित्रम् ।
देवि तव स्तनकुम्भौ चक्राभिन्नौ कथं न दृश्येते ॥
कलयति दण्डः कलशं सर्वैर्बहुशः श्रुतं च दृष्टं च ।
जननि तव स्तनकलशो जनयति मधुवैरिमानदण्डमहो ॥
सर्वारीणां जेता दुर्वारेणैव देवि चक्रेण ।
हन्त कथं ते विजितः कान्तो वक्षोरुहात्मचक्रेण ॥
कल्लोलिनीशकन्ये कलये रोमावलिप्रभेदेन ।
तव कान्तिवार्धिमध्ये नवजलदश्यामको हरिः शेते ॥
नामीसरोवनान्तः क्रीडन्मदनद्विपाधिपोत्क्षिताम् ।
शैवालवल्लरीं ते रोमलतां देवि कथयन्ति ॥
मध्यः प्रथमं मानं महितगुणौघस्तवानुमानमपि ।
वपुरप्युपमितिशब्दं दूरीकुरुतेऽम्ब केन वर्ण्यासि ॥
तव कुचकुम्भस्य गुरोरन्तेवासी विवेकहीनस्य ।
दर्शनयोग्यो नाभून्मध्यस्ते देवि नास्तिवादरतः ॥
प्रत्यक्षाविषयत्वादतिरिक्तत्वादनङ्गजनकत्वात् ।
देवि वलिश्रीभजनान्मध्यस्ते कान्तविभ्रमं तनुते ॥
चिन्तामणिवादस्ते करयोर्द्दशि कामशास्त्रवादोऽब्जे ।
मध्ये मायावादो गौरववादः पयोधरद्वन्द्वे ॥
महदणुपरिमाणगतं विश्रान्तं देवि तारतम्यं ते ।
वक्षोरुहे च मध्ये न व्योमादौ न चापि परमाणौ ॥
कठिनात्माघः कुरुते सर्वं कमले कृथं सनामिगतम् ।
दृष्टमितीदमुरोजे मध्यं कृशमेव कुर्वति स्पष्टम् ॥
तुङ्गपयोधरशैलद्वन्द्वोद्वहनेन सन्ततं देवि ।
पश्यामि कार्यमुचितं मध्यस्य श्रीमतोऽपि ते मातः ॥
तव रोमराजियमुनानित्यस्फीतेऽपि मध्यदेशेऽस्मिन् ।
क्षामकथा कथमब्जे नाभीसरसीपरिष्कृतेऽपि सदा ॥
रोमालियूपदण्डे चितपशुं बद्धुमम्ब ते पत्युः ।
सम्पादितेव रशना त्रिवलिमिषेणाङ्गजन्मनाध्वरिणा ॥
आभाति नाभिरब्जे तव तनुजनुषा निषादवीरेण ।
पातयितुं हरिचित्तं मत्तभं सम्भृतो यथा गर्तः ॥
शङ्के तवाम्ब नाभिं शम्बररिपुणा विजित्य दैत्यारिम् ।
रोमाळिनीलरत्नस्तम्भनिखाताय सम्भृतं वभ्रम् ॥
निवसन्ति येऽधिकाञ्चि प्रायः शुद्धा भवन्ति ते मुक्ताः ।
इति मणिरशनां विकसन्मुक्तावल्याम्ब दर्शयस्यद्धा ॥
अवनतमौलिरियं त्वामञ्जलिमभिनीय कुसुमकोशमिषात् ।
रम्भा तवोरुविजिता सम्भावयतीति मे तर्कः ॥
कुम्भीन्द्रकुम्भवृत्तं जानुद्वन्द्वं तवाप्रतिद्वन्द्वम् ।
हन्त हरेरपि धैर्यं हरते दुर्धर्षमब्धिराजसुते ॥
जङ्घा निषङ्गशङ्कामङ्कूरयत्यङ्गजेन्मनो देवि ।
तत् खलु तदग्रभागे पश्चशरस्फूर्तिमङ्गुलिव्याजात् ॥
तव पदभावः प्राप्तस्तामरसेनेति नात्र सन्देहः ।
कथमन्यथा स योगो भावी कान्तेन हंसकेनाब्जे ॥
पादतले परिदृश्यं पद्मे रेखात्मना स्वयं गूढम् ।
तव चरणश्रीमिक्षाचरणं विदधाति सज्यमम्बुरुहम् ॥
अर्कोऽपि यस्य भजनादजनि श्रीमाननेन जनितश्रीः ।
पद्मं कथं नु तुलनामर्हति पादेन तावकेनाब्जे ॥
जलजं कृतसङ्कोचं द्विजराजस्थापि दर्शने देवि ।
मानितमधुपं शिरसा कथमधिरोहेत् पदेन ते तुलनाम् ॥
साम्राज्येऽम्बुरुहाणां तव पदमीडेऽभिषिच्यमानमिव ।
जातिस्मृतां जनानां हेतुः सञ्चिन्तितार्थसिद्धीनाम् ॥
मदनदरीजनकबरीनलिनैरुद्यन्मरन्दसंसारे ।
पातु पराकृतपद्मं मातुर्जगतां पदाम्बुजातं माम् ॥
सम्भावितापचारं ज्ञानाज्ञानात्तव स्तुतिव्याजात् ।
देवि सहस्व दयालो देहि मम श्रीपतौ परां भक्तिम् ॥
जगति ख्यातिरशेषात्त्वकुलेयेति सर्वसिद्धान्तम् ।
जननि कथं ते ख्यातेरुत्पत्तिः श्रूयते पुराणादौ ॥
यज्ञवराहः श्रीमान् वाधूलम्बालजो धीमान् ।
लक्ष्मी शतकमतानीदक्षीणानन्दकन्दलीकन्दम् ॥
aanandam' dishatu shreehastigirau svastidaa sadaa mahyam .
yaa kautukam' vidhatte saakri'tenaavalokanena hareh' ..
yannaama keertaneeyam' shreerityaadau priyam' harernaamnaam .
saa me samastajananee santatamudayaaya bhooyase bhooyaat ..
shreevaradeshvaradayite vaanchhaami tvaam' yathaamati stotum .
svalpo'pi d'imbhajalpo maatuh' preetim' katham' na sanjanayet ..
muraripumohanadhaamne moortivinirdhootavishphuraddhemne .
divishadameyavibhoomne lakshmeenaamne param' namo bhumne ..
karigirinaayakakaante daantajanasvaantapankajanishaante .
mayi bhavamaranaashraante karunaam' sharanaagate kuru pragunaam ..
vaachaamakri'trimaanaamapi munimanasaamagochare devi .
tvadvarnane madeeyaam' kaankshaam' saphalaam' karotu te karunaa ..
maakhadvidhu vimbaasye mangalasaumyaakri'te gurushroni .
bhri'gunandini mandagate romalataahe jayaabdhikulaketo ..
dhanyam' prasoonagarbham' dhammillam' devi taavakam' manye .
prasavasharena nyastam' toonam' baanaughapoornamarnavaje ..
tvatkeshapaashashobhaaparimoshaanaam' phalam' payodaanaam .
devi tat'idgunavandho nodanamanilaih' palaayanam' dikshu ..
nindati neeradhikanye kachanichayaste kalaapinam' kaantyaa .
asyati barham' na katham' bhujangavri'ttishcha pakshapaatee cha ..
jayatu vipaksham' padme barhinavarham' tvadeeyakeshabharam .
tvatkaantasya sapaksham' ghanamapi kaantyaa katham' paraakurute ..
varham' vigarhitaabham' shastenaanena keshahastena .
matvaabhavanmayooraa mandaashaa jeevite vri'tavishaashaah' ..
divyaamambudhikanye dri'sht'vaa keshashriyam' tavaambhodaah' .
aaruhyaadrishresht'ham' kurute trapayeva jeevanatyaagam ..
sindoorasundaree te padme seemantapaddhatirbhaati .
varshaavalaahakasthaa vidyullekheva veetachaanchalyaa ..
veneemambudhikanye bhri'ngashreneemiva sphurantee te .
shambaravairikri'paaneem' shanke maanaapahaarineem' shaureh' ..
phaalenaabhimukhena pratimaakaankshee tavendurambudhije .
ardhaakri'tih' kalaabhih' poorno bhavati kriyaasamabhihaaraat ..
karnaavatam'salakshmee kalayati kamale vishaaladri'sht'iste .
neelotpalasya kri'tyam' kimiti shrutimoolashaalinee chintyam ..
vandeekri'tam' kat'aakshairindeevarametadindire shravasi .
nyastam' punah' punastannityam' shankeeva veekshate chakshuh' ..
nayanamudanchatkarunam' naanaashri'ngaaramangal'aakaaram .
devi tvadaashritaanaam' karnamatikravya kaaikshitam' datte ..
kallolineeshakanye tvallochanakaantilipsayaa kim' vaa .
dvijaraajapaadasevaam' jeevanjeevah' karoti sarvo'pi ..
sphurati tava shrutyante patiriti yat praahuramba vedavidah' .
shrutyantameti tatte dri'sht'ih' kaantaavalokanaasaktaa ..
ullanghitashruteenaamudadhisute shobhanam' naheeti mri'shaa .
yena tavedam' vyaktam' shrutipathamullanghya shobhanam' nayanam ..
shrutyante kri'tavasatih' paadmaruchim' te prakaashayantyabje .
paramaargadri'sht'isri'sht'aam' dri'sht'iriyam' vaishnaveem' cha dooshayati ..
devi nimittagunasya kvaapi na dri'sht'am' hi kaaryasankramanam .
anri'tamiteedam' vachanam' yatvadapaangaadanangasadbhaavah' ..
aadyaavataarashobhaamangeekurvaanasaatmanaathasya .
nirupamasushamam' ko vaa chakshustava devi dakshinah' stotum ..
asri'jat kamalam' dhaataa tulanaam' deveekshanasya te vaanchhan .
asadri'shabhaavaadamunaa naama praaptam' jalajamityuchitam ..
lokajananyatibhaasvallochanashaphareeviraajamaanam' te .
kaantam' naasaavam'sham' ketum' madanasya ke na sham'santi ..
tvanaasikaattagandhastrapayevaaghomukhastilaprasavah' .
muhurashrooni praayo munchati maatarmarandavindumishaat ..
naasaamauktikametanmanye vaaraashikanyake dhanyam .
tava mukhataaraadhipateh' kaamaadekam' kalajnyamangagatam ..
muktotpattisthaanam' sarasijamiti yat samastakavisiddham .
tadvayakteekaranam' te naasaamuktaaphalasya devi phalam ..
paribhootakundakusumam' bhaasaa naasaagrabhaasvaram' padme .
muktaaphalam' muraarermohanagud'ikeva maanmathee bhaati ..
bhaasaa viraajamaanam' naasaamuktaaphalam' mama sphurati .
amba tavaananapadme smitaruchiham'seeprasootamand'amiva ..
durvri'ttah' khalu loke kamale kuryaat sataam' tiraskaaram .
nityasuvri'ttena katham' naasaamaninaa sataam' tiraskaarah' ..
karnena te'bdhikanye taat'ankaadeh' prateeyate shobhaa .
karnasya hi svabhaavah' shreemantam' yat svamaashrayam' kurute ..
tarko mamaabdhikanye haat'akataat'ankachakramarka iti .
yadyetadesha na syaat karnaasaktih' katham' bhavedasya ..
bhaati kapolah' kamale patyuh' shri'ngaaramanimayaadarshah' .
pratiphalitatanmukho'yam' hri'da iva so'dhovikasvaraamburuhah' ..
madhuravachogananaayaam' maatastvadgeerabhoodiyam' prathamaa .
naiva dviteeyavaartaa kokilavaade kuto nu panchamataa ..
saamyaabhilaashadosham' sammaarsht'um' tvadviraa chiraadikshoh' .
chakre panchasharastam' chaapaanamanaapadeshatah' pranatam ..
arnavakanye dhanyaamaakarnayatastvadeeritaam' vaacham .
shukapikavachanashravanam' shrutiput'akat'u devi kasya vaa na bhavet ..
kasya giraste shrotuh' kamale vadanaaravindakandalitaah' .
na bhavenmahatee preetirnaaradamekam' vinaa muneeshaanam ..
makarandaah' sunarasaah' shukapikavaacho'pi visvaraa yena .
veenaah' parivaadinyastena kilaabje tavopamaa na giraam ..
ambaabhijaatavaaneedhanarasamaadhuryachauryakaaree te .
atimardanaasahishnurmushitarasaanesha munchateevekshuh' ..
neeratayeva marando bhaavyashshravane tavaabdhije vaachaam .
svaadita eva sudhaayaah' svaadyeti khyaatirapi na maadhuryaat ..
adharena bandhujeevam' mukhatah' praabhaatikam' cha raajeevam .
dooreekaroshi kim' vaa devi tvam' sarvajeevakarunaardraa ..
ante vasan dvijaanaamavadaataanaamatisphuradroopah' .
amba tavaadhikamadharo bimbapratibimbayogyo'bhoot ..
santatapallavayoge muktirna shucherapeeti vaang mithyaa .
devi tavaadhara pallavasam'yoge'dhyamalaa dvijaa muktaah' ..
tava tat'ineepatikanthe dvijapat'alee vadanashuktimuktaashreeh' .
atanuyashobeejaanaamankurapanktih' parisphuranteeva ..
vadanam' sudhaakaraste vaaridhikanye na tatra sandehah' .
vachanaapadeshametanno chedamri'tam' katham' tatah' prabhavet ..
bhrooyugal'am' bhri'gutanaye kusumasharasyeva savyasaachitayaa .
aaropitaakshibaanam' kodand'advandvamiti matim' datte ..
abjadvayamapi vijitam' tava kamale vaktrashobhayaa tatra .
ambaramekam' sharanam' shambaramaparam' cha satvaram' praapat ..
chandro'bhavad vishaadee chaaru mukham' devi taavakam' veekshya .
kukshigatam' garamasya praahuh' pankam' kalankamityeke ..
vijitastvanmukhakaantyaa devi niraasho nishaakaro jeeve .
bhri'gupatanam' kurute'saavastamatha vyaajato'nvaham' toornam ..
amba yataste nitaraamaananakaantyaa tri'neekri'tashchandrah' .
aatah' kila tri'nabuddhayaa munchati nainam' mri'gah' kadaachidapi ..
devi tavaananatulanaamabhilashataam' saagasaam' sarojaanaam .
majjanamapsu cha bandhah' shaivalapaashena shat'padaih' prasri'tih' ..
dvijaraajasyaapyabje tvadvaktrenopamaanarahitena .
samataabhilaashadoshaaddoshaakarataa vidhordurantaabhri't ..
padme parasvaharanam' doshaayeti prabhaashanam' mithyaa .
apahri'tya raajalakshmeemapadosham' yadvibhaati te vaktrem ..
nirjitya neerajaatam' nikhilam' muravairisundari mukhena .
aasanamaakalitam' te noonam' padmaasanaasi tenaiva ..
tvadvadanaabhibhavodyattaapaatishayam' divaanisham' padmam .
ambhasi vaasam' kurute noonam' tasyaapanodanaayaabje ..
santatamitravirodhee doshaasaktah' kalankavaaninduh' .
tava vadanena katham' vaa kamale kalyaanagunabhuvaa tulyah' ..
devi tavaananachandraprasaadabhikshaat'anena raajaapi .
poornashchandrikayaaho jeevanjeevasya tri'ptimaatanute ..
tvatkant'hakaantibhaagyam' dri'sht'vaa shankhaassahasrasho devi .
tallaabhaaya payodherantam' gatvaa chiram' tapasyanti ..
kant'hena te hri'tashreeh' kamale vimalo'pi santatam' kambuh' .
ghumughumuninadavyaajaat kroshati raajnyaam' purah' samayadarshee ..
tvatkant'hakaantijanitam' bhanjanamaakhyaatumudyataa jalajaah' .
vistri'tajanashabdatayaa padminyaamred'ayanti bham' bhamiti ..
kambubhramena kant'ham' chakrabhraantyaa nitambabimbamapi .
parimri'shati te karaabhyaam' patiratidurbhedashankhachakraabhyaam ..
baahoo shireeshamaalaamaardavakeetandumardane raahoo .
setoo samagrashobhaasindhormanye samudrakanye te ..
atisurabhih' karapadmo vaanchhitadaanairna kevalam' gandhaih' .
vaaridhiputri vadaanyam' kavimuktam' devi kalpamaatanute ..
devi karena bhavatyaa dattasamastepsitena bhaktaanaam .
sparshanadooreekaranam' sodarageervaanashaakhinaamuchitam ..
devi tavaananabhaasaa paribhootah' parvachandramaa noonam .
tena hi shashvat paridhivyaajapraakaaramadhyamadhyaaste ..
padmakulam' paribhootam' padme tvatpaanipadmaraagena .
tatpreshitam' sadaikam' tvatpaanim' sevate sarojaatam ..
anudinamarkaabhimukham' vanabhuvi shaivaalavalkalam' kamalam .
taptvaa tapo'titeevram' praapat tvatpaanipadmasaadharmyam ..
haaraa vibhaanti gauraa haridayite te mukhod'uraajasya .
sevaarthamaagataanaam' taaraanaamiva ganaah' purogaanaam ..
haaralataa taba padme sukumaarasyaangabhookumaarasya .
kreed'aamri'naalad'olashankaam' naankroorayatyasau kasya ..
tava kuchagiritat'avaasee kri'taromaal'eenakanyakaasnaanah' .
kashchana muktaahaaro yogeevaabhaati nityashuddhaatmaa ..
unnatimurojayugme padme dri'sht'aiva parvataastrapayaa .
udadhau chiram' nileenaa bheetyaa shakraaditi prathaamaatram ..
tava kuchakumbhadvandve baddhaspardhaani d'aad'imaphalaani .
tulanaaheenaah' keeraastund'airetaani khand'ayantyabje ..
kodand'asya puraareruddand'asyaapi hanta baanasya .
kavaleekurute maanam' pugalee kuchayostavendire yugapat ..
santatamuktaahaaraavapi tava peenau payodharau bhaatah' .
tena katham' peenatvam' devi bhavedraatribhojane maanam ..
kanakamaheegharagauravakabaleekaranaadivaatipeenamapi .
muktaahaaravadaaste stanayugalam' devi taavakam' chitram ..
iti kila darshanareetih' kaaryamupaadaanakaaranaabhitram .
devi tava stanakumbhau chakraabhinnau katham' na dri'shyete ..
kalayati dand'ah' kalasham' sarvairbahushah' shrutam' cha dri'sht'am' cha .
janani tava stanakalasho janayati madhuvairimaanadand'amaho ..
sarvaareenaam' jetaa durvaarenaiva devi chakrena .
hanta katham' te vijitah' kaanto vakshoruhaatmachakrena ..
kallolineeshakanye kalaye romaavaliprabhedena .
tava kaantivaardhimadhye navajaladashyaamako harih' shete ..
naameesarovanaantah' kreed'anmadanadvipaadhipotkshitaam .
shaivaalavallareem' te romalataam' devi kathayanti ..
madhyah' prathamam' maanam' mahitagunaughastavaanumaanamapi .
vapurapyupamitishabdam' dooreekurute'mba kena varnyaasi ..
tava kuchakumbhasya gurorantevaasee vivekaheenasya .
darshanayogyo naabhoonmadhyaste devi naastivaadaratah' ..
pratyakshaavishayatvaadatiriktatvaadanangajanakatvaat .
devi valishreebhajanaanmadhyaste kaantavibhramam' tanute ..
chintaamanivaadaste karayorddashi kaamashaastravaado'bje .
madhye maayaavaado gauravavaadah' payodharadvandve ..
mahadanuparimaanagatam' vishraantam' devi taaratamyam' te .
vakshoruhe cha madhye na vyomaadau na chaapi paramaanau ..
kat'hinaatmaaghah' kurute sarvam' kamale kri'tham' sanaamigatam .
dri'sht'amiteedamuroje madhyam' kri'shameva kurvati spasht'am ..
tungapayodharashailadvandvodvahanena santatam' devi .
pashyaami kaaryamuchitam' madhyasya shreemato'pi te maatah' ..
tava romaraajiyamunaanityaspheete'pi madhyadeshe'smin .
kshaamakathaa kathamabje naabheesaraseeparishkri'te'pi sadaa ..
romaaliyoopadand'e chitapashum' baddhumamba te patyuh' .
sampaaditeva rashanaa trivalimishenaangajanmanaadhvarinaa ..
aabhaati naabhirabje tava tanujanushaa nishaadaveerena .
paatayitum' harichittam' mattabham' sambhri'to yathaa gartah' ..
shanke tavaamba naabhim' shambararipunaa vijitya daityaarim .
romaal'ineelaratnastambhanikhaataaya sambhri'tam' vabhram ..
nivasanti ye'dhikaanchi praayah' shuddhaa bhavanti te muktaah' .
iti manirashanaam' vikasanmuktaavalyaamba darshayasyaddhaa ..
avanatamauliriyam' tvaamanjalimabhineeya kusumakoshamishaat .
rambhaa tavoruvijitaa sambhaavayateeti me tarkah' ..
kumbheendrakumbhavri'ttam' jaanudvandvam' tavaapratidvandvam .
hanta harerapi dhairyam' harate durdharshamabdhiraajasute ..
janghaa nishangashankaamankoorayatyangajenmano devi .
tat khalu tadagrabhaage pashchasharasphoortimangulivyaajaat ..
tava padabhaavah' praaptastaamaraseneti naatra sandehah' .
kathamanyathaa sa yogo bhaavee kaantena ham'sakenaabje ..
paadatale paridri'shyam' padme rekhaatmanaa svayam' good'ham .
tava charanashreemikshaacharanam' vidadhaati sajyamamburuham ..
arko'pi yasya bhajanaadajani shreemaananena janitashreeh' .
padmam' katham' nu tulanaamarhati paadena taavakenaabje ..
jalajam' kri'tasankocham' dvijaraajasthaapi darshane devi .
maanitamadhupam' shirasaa kathamadhirohet padena te tulanaam ..
saamraajye'mburuhaanaam' tava padameed'e'bhishichyamaanamiva .
jaatismri'taam' janaanaam' hetuh' sanchintitaarthasiddheenaam ..
madanadareejanakabareenalinairudyanmarandasam'saare .
paatu paraakri'tapadmam' maaturjagataam' padaambujaatam' maam ..
sambhaavitaapachaaram' jnyaanaajnyaanaattava stutivyaajaat .
devi sahasva dayaalo dehi mama shreepatau paraam' bhaktim ..
jagati khyaatirasheshaattvakuleyeti sarvasiddhaantam .
janani katham' te khyaaterutpattih' shrooyate puraanaadau ..
yajnyavaraahah' shreemaan vaadhoolambaalajo dheemaan .
lakshmee shatakamataaneedaksheenaanandakandaleekandam ..