संगीत ज्ञानद सरस्वती स्तोत्र

शारदां चन्द्रवदनां वीणापुस्तकधारिणीम् । 
सङ्गीतविद्याधिष्ठात्रीं नमस्यामि सरस्वतीम् ॥

श्वेताम्बरधरे देवि श्वेतपद्मासने शुभे। 
श्वेतगन्धार्चिताङ्घ्रिं त्वां नमस्यामि सरस्वतीम् ॥

या देवी सर्ववाद्येषु दक्षा सङ्गीतवर्तिनी । 
या सदा ज्ञानदा देवी नमस्यामि सरस्वति ॥

शारदे सर्ववाद्येषु दक्षं मां कुरु पाहि माम् । 
सिद्धिं देहि सदा देवि जिह्वायां तिष्ठ मे स्वयम् ॥

ज्ञानं देहि स्वरस्यापि लयतालगुणं मम । 
भक्तिं च यच्छ मे नित्यं सरस्वति नमोऽस्तु ते ॥

विद्यां बुद्धिं च मे देवि प्रयच्छाऽद्य सरस्वति । 
यशो मे शाश्वतं देहि वरदा भव मे सदा ॥

प्रणमामि जगद्धात्रीं वागीशानीं सरस्वतीम् । 
सङ्गीते देहि सिद्धिं मे गीते वाद्ये महामति ॥

सरस्वत्या इदं स्तोत्रं यः पठेद्भक्तिमान् नरः ।
सङ्गीतस्वरतालेषु समवाप्नोत्यभिज्ञताम् ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies