दुर्गा सप्तशती - मूर्ति रहस्य

39.2K

Comments

xcveb

अथ मूर्तिरहस्यम् । ऋषिरुवाच । नन्दा भगवती नाम या भविष्यति नन्दजा । सा स्तुता पूजिता ध्याता वशीकुर्याज्जगत्त्रयम् । कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा । देवी कनकवर्णाभा कनकोत्तमभूषणा । कमलाङ्कुशपाशाब्जै....

अथ मूर्तिरहस्यम् ।
ऋषिरुवाच ।
नन्दा भगवती नाम या भविष्यति नन्दजा ।
सा स्तुता पूजिता ध्याता वशीकुर्याज्जगत्त्रयम् ।
कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा ।
देवी कनकवर्णाभा कनकोत्तमभूषणा ।
कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा ।
इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना ।
या रक्तदन्तिका नाम देवी प्रोक्ता मयाऽनघ ।
तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभयाऽपहम् ।
रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा ।
रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा ।
रक्ततीक्ष्णनखा रक्तदशना रक्तष्ट्रिका ।
पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम् ।
वसुधेव विशाला सा सुमेरुयुगलस्तनी ।
दीर्घौ लम्बावतिस्थूलौ तावतीव मनोहरौ ।
कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी ।
भक्तान् सम्पाययेद्देवीसर्वकामदुघौ स्तनौ ।
खड्गपात्रं च मुसलं लाङ्गलं च बिभर्ति सा ।
आख्याता रक्तचामुण्डा देवी योगेश्ववरीति च ।
अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् ।
इमां यः पूजयेद्भक्त्या स व्याप्नोति चराऽचरम् ।
अधीते य इमं नित्यं रक्तदन्त्यावपुःस्तवम् ।
तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ।
शाकम्भरी नीलवर्णा नीलोत्पलविलोचना ।
गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी ।
सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी ।
मुष्टिं शिलीमुखैः पूर्णं कमलं कमलालया ।
पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्चयम् ।
काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युजराऽपहम् ।
कार्मुकं च स्फुरत्कान्तिबिभ्रति परमेश्वरी ।
शाकम्भरी शताक्षी स्यात् सैव दुर्गा प्रकीर्तिता ।
शाकम्भरीं स्तुवन् ध्यायन् जपन् सम्पूजयन् नमन् ।
अक्षय्यमश्नुते शीघ्रमन्नपानादि सर्वशः ।
भीमाऽपि नीलवर्णा सा दंष्ट्रादशनभासुरा ।
विशाललोचना नारी वृत्तपीनघनस्तनी ।
चन्द्रहासं च डमरुं शिरःपात्रं च बिभ्रती ।
एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ।
तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् ।
चित्रभ्रमरसङ्काशा महामारीति गीयते ।
इत्येता मूर्तयो देव्या व्याख्याता वसुधाधिप ।
जगन्मातुश्चण्डिकायाः कीर्तिताः कामधेनवः ।
इदं रहस्यं परमं न वाच्यं यस्य कस्यचित् ।
व्याख्यानं दिव्यमूर्तीनामभीश्वावहितः स्वयम् ।
देव्या ध्यानं तवाऽऽख्यातं गुह्याद्गुह्यतरं महत् ।
तस्मात् सर्वप्रयत्नेन सर्वं कामफलप्रदम् ।
मार्कण्डेयपुराणेऽखिलांशे मूर्तिरहस्यम् ।
ॐ श्रीं ह्रीं क्लीं सप्तशतिचण्डिके उत्कीलनं कुरु कुरु स्वाहा।

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |