दुर्गा सप्तशती - कुंजिका स्तोत्र

0:00 0:00

दुर्गा सप्तशती - कुंजिका स्तोत्र

अथ कुञ्जिकास्तोत्रम् । ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य । सदाशिव-ऋषिः । अनुष्टुप् छन्दः । श्रीत्रिगुणात्मिका देवता । ॐ ऐं बीजम् । ॐ ह्रीं शक्तिः । ॐ क्लीं कीलकम् । सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः । शिव उवाच । शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् । येन मन्त्रप्रभावेन चण्डीजापः शुभो भवेत् । कवचं नाऽर्गलास्तोत्रं कीलकं च रहस्यकम् । न सूक्तं नाऽपि वा ध्यानं न न्यासो न च वाऽर्चनम् । कुञ्जिकामात्रपाठेन दुर्गापाठफलं लभेत् । अतिगुह्यतरं देवि देवानामपि दुर्लभम् । गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति । मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् । पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् । ॐ श्रूं श्रूं श्रूं शं फट् । ऐं ह्रीं क्लीं ज्वल उज्ज्वल प्रज्वल । ह्रीं ह्रीं क्लीं स्रावय स्रावय । शापं नाशय नाशय । श्रीं श्रीं जूं सः स्रावय आदय स्वाहा । ॐ श्लीं ॐ क्लीं गां जूं सः । ज्वलोज्ज्वल मन्त्रं प्रवद । हं सं लं क्षं हुं फट् स्वाहा । नमस्ते रुद्ररूपायै नमस्ते मधुमर्दिनि । नमस्ते कैटभनाशिन्यै नमस्ते महिषार्दिनि । नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरसूदिनि । नमस्ते जाग्रते देवि जपे सिद्धं कुरुष्व मे । ऐङ्कारी सृष्टिरूपिण्यै ह्रीङ्कारी प्रतिपालिका । क्लीङ्कारी कालरूपिण्यै बीजरूपे नमोऽस्तु ते । चामुण्डा चण्डरूपा च यैङ्कारी वरदायिनी । विच्चे त्वभयदा नित्यं नमस्ते मन्त्ररूपिणि । धां धीं धूं धूर्जटेः पत्नी वां वीं वागीश्वरी तथा । क्रां क्रीं क्रूं कुञ्जिका देवि शां शीं शूं मे शुभं कुरु । हूं हूं हूङ्काररूपायै जां जीं जूं भालनादिनि । भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः । ॐ अं कं चं टं तं पं यं सां विदुरां विदुरां विमर्दय विमर्दय ह्रीं क्षां क्षीं जीवय जीवय त्रोटय त्रोटय जम्भय जम्भय दीपय दीपय मोचय मोचय हूं फट् जां वौषट् ऐं ह्रीं क्लीं रञ्जय रञ्जय सञ्जय सञ्जय गुञ्जय गुञ्जय बन्धय बन्धय भ्रां भ्रीं भ्रूं भैरवी भद्रे सङ्कुच सञ्चल त्रोटय त्रोटय क्लीं स्वाहा । पां पीं पूं पार्वती पूर्णखां खीं खूं खेचरी तथा । म्लां म्लीं म्लूं मूलविस्तीर्णा कुञ्जिकास्तोत्र एत मे । अभक्ताय न दातव्यं गोपितं रक्ष पार्वति । विहीना कुञ्जिकादेव्या यस्तु सप्तशतीं पठेत् । न तस्य जायते सिद्धिर्ह्यरण्ये रुदितं यथा । इति यामलतन्त्रे ईश्वरपार्वतीसंवादे कुञ्जिकास्तोत्रम् ।


क्या इस मंत्र को सुनने के लिए दीक्षा आवश्यक है?

नहीं। दीक्षा केवल तब आवश्यक होती है जब आप मंत्र साधना करना चाहते हैं, सुनने के लिए नहीं।

लाभ प्राप्त करने के लिए बस हमारे द्वारा दिए गए मंत्रों को सुनना पर्याप्त है।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Mantras

Mantras

मंत्र

Click on any topic to open

0

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies