उग्रमत्युग्रमुग्रोग्रं शत्रुसंहारतत्परम् ।
पालिताशेषलोकेशं नारसिंहं नमाम्यहम् ।।
स्वभक्ते यस्य वात्सल्यमम्बोधिरिव विद्यते ।
वीरं विष्ण्ववतारं तं नारसिंहं नमाम्यहम् ।।
महाविष्णुं महीपालं भयहारिणमुत्तमम् ।
अनुत्तमदिष्टान्तं नारसिंहं नमाम्यहम् ।।
ज्वलन्तं जगतामीशं भक्तचित्ताब्जसंस्थितम् ।
दृप्तरिप्राणसंहारिनारसिंहं नमाम्यहम् ।।
सर्वतोमुखमव्यक्तं नखास्त्रं तीक्ष्णलोचनम् ।
सर्वामर्त्येष्वपि श्रेष्ठं नारसिंहं नमाम्यहम् ।।
भीषणं भक्तचित्तस्थं भूमौ सर्वजनैर्नुतम् ।
तापत्रयप्रहन्तारं नारसिंहं नमाम्यहम् ।।
भद्रं भयङ्करं भीतिहारिणं भूसुराश्रयम् ।
स्तम्भोद्भवं महावीरं नारसिंहं नमाम्यहम् ।।
मृत्युमृत्युं महेशानं सर्वदा स्तुत्यमुत्तमम् ।
महाज्वालं महीपालं नारसिंहं नमाम्यहम् ।।