भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं
डिं डिं डिं डिं डिडिम्बं दहमपि दहमैर्झम्पझम्पैश्चझम्पैः।
तुल्यास्तुल्यास्तुतुल्या धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कै-
रेतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः।
भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वज्ज्वालमालं
खर्जर्जं खर्जदुर्जं खिखचखचख- चित्स्वर्जदुर्जर्जयन्तम्।
भूभागं भोगभागं गगगगगगनं गर्दमत्युग्रगण्डं
स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः।
येनाभ्रं गर्जमानं लघुलघुमकरो बालचन्द्रार्कदंष्ट्रो
हेमाम्भोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः।
दन्तानां बाधमानां खगटखगटवो भोजजानुः सुरेन्द्रो
निष्प्रत्यूहं स राजा गहगहगहतः पातु मां नारसिंहः।
शङ्खं चक्रं च चापं परशुमशमिषुं शूलपाशाङ्कुशास्त्रं
बिभ्रन्तं वज्रखेटं हलमुसलगदा- कुन्तमत्युग्रदंष्ट्रम्।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
वन्दे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः।
पादद्वन्द्वं धरित्रीकटिविपुलतरो मेरुमध्यूढ्वमूरुं
नाभिं ब्रह्माण्डसिन्धुर्हृदयमपि भवो भूतविद्वत्समेतः।
दुश्चक्राङ्कं स्वबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रं
वक्त्रं वह्निः सुविद्युत्सुरगणविजयः पातु मां नारसिंहः।
नासाग्रं पीनगण्डं परबलमथनं बद्धकेयूरहारं
रौद्रं दंष्ट्राकरालममितगुणगणं कोटिसूर्याग्निनेत्रम्।
गाम्भीर्यं पिङ्गलाक्षं भ्रुकुटितविमुखं षोडशाधार्धबाहुं
वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः।
के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा
देवन्द्यो विप्रदण्डं प्रतिवचनपया- याम्यनप्रत्यनैषीः।
शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन
ओमित्येदैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः।
झं झं झं झं झकारं झषझषझषितं जानुदेशं झकारं
हुं हुं हुं हुं हकारं हरितकहहसा यं दिशे वं वकारम्।
वं वं वं वं वकारं वदनदलिततं वामपक्षं सुपक्षं
लं लं लं लं लकारं लघुवणविजयः पातु मां नारसिंहः।
भीतप्रेतपिशाचयक्षगणशो देशान्तरोच्चाटना
चोरव्याधिमहज्ज्वरं भयहरं शत्रुक्षयं निश्चयम्।
सन्ध्याकाले जपतमष्टकमिदं सद्भक्तिपूर्वादिभिः
प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये।
संकट मोचन हनुमान स्तुति
वीर! त्वमादिथ रविं तमसा त्रिलोकी व्याप्ता भयं तदिह कोऽपि न हर्त्तुमीशः। देवैः स्तुतस्तमवमुच्य निवारिता भी- र्जानाति को न भुवि सङ्कटमोचनं त्वाम्। भ्रातुर्भया- दवसदद्रिवरे कपीशः शापान्मुने रधुवरं प्रतिवीक्षमाणः। आनीय तं त्वमकरोः प्रभुमार्त्तिहीनं र्जानाति क
Click here to know more..षोडश बाहु नरसिंह अष्टक स्तोत्र
भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं डिं डिं डिं डिं डिडिम्बं दहमपि दहमैर्झम्पझम्पैश्चझम्पैः। तुल्यास्तुल्यास्तुतुल्या धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कै- रेतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः। भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वज्ज्वालमालं
Click here to know more..मेरा मन साफ है- इसका अर्थ क्या है?