करुणाकर नरसिंह स्तोत्र

सुलभो भक्तियुक्तानां दुर्दर्शो दुष्टचेतसाम्।
अनन्यगतिकानां च प्रभुर्भक्तैक वत्सलः।
शनैश्चरस्तत्र नृसिंहदेवस्तुतिं चकारामल चित्तवृत्तिः।
प्रणम्य साष्टाङ्गमशेषलोक किरीट नीराजित पादपद्मम्।
श्रीशनिरुवाच -
यत्पादपङ्कजरजः परमादरेण
संसेवितं सकलकल्मष राशिनाशम्।
कल्याणकारकमशेशनिजानुगानां
स त्वं नृसिंह मयि देहि कृपावलोकम्।
सर्वत्र चञ्चलतया स्थितया हि लक्ष्म्या
ब्रह्मादिवन्द्यपदया स्थिरयान्य सेवि।
पादारविन्दयुगलं परमादरेण
स त्वं नृसिंह मयि देहि कृपावलोकम्।
यद्रूपमागमशिरः प्रतिपाद्यमाद्यं
आध्यात्मिकादि परितापहरं विचिन्त्यम्।
योगीश्वरैरपगताखिल दोष सङ्घैः
स त्वं नृसिंह मयि देहि कृपावलोकम्।
प्रह्लाद भक्तवचसा हरिराविरास
स्तम्भे हिरण्यकशिपुं य उदारभावः।
उर्वो निधाय उदरं नखरैर्ददार
स त्वं नृसिंह मयि देहि कृपावलोकम्।
यो नैजभक्तमनलां बुधि भूधरोग्र-
श‍ृङ्गप्रपात विषदन्ति सरीसृपेभ्यः।
सर्वात्मकः परमकारुणिको ररक्ष
स त्वं नृसिंह मयि देहि कृपावलोकम्।
यन्निर्विकार पररूप विचिन्तनेन
योगीश्वरा विषयवीत समस्तरागाः।
विश्रान्तिमापुर विनाशवतीं पराख्यां
स त्वं नृसिंह मयि देहि कृपावलोकम्।
यद्रूपमुग्र परिमर्दन भावशालि
सञ्चिन्तनेन सकलाघ विनाशकारी।
भूतज्वरग्रहसमुद्भवभीतिनाशं
स त्वं नृसिंह मयि देहि कृपावलोकम्।
यस्योत्तमं यश उमापति पद्मजन्म
शक्रादि दैवत सभासु समस्तगीतम्।
शक्त्यैव सर्वशमल प्रशमैक दक्षं
स त्वं नृसिंह मयि देहि कृपावलोकम्।
इत्थं श्रुत्वा स्तुतिं देवः शनिना कल्पितां हरिः।
उवाच ब्रह्मवृन्दस्थं शनिं तं भक्तवत्सलः।
श्रीनृसिंह उवाच -
प्रसन्नोऽहं शने तुभ्यं वरं वरय शोभनम्।
यं वाञ्छसि तमेव त्वं सर्वलोकहितावहम्।
श्रीशनिरुवाच -
नृसिंह त्वं मयि कृपां कुरु देव दयानिधे।
मद्वासरस्तव प्रीतिकरः स्याद्देवतापते।
मत्कृतं त्वत्परं स्तोत्रं श‍ृण्वन्ति च पठन्ति च।
सर्वान्कामान्पूरयेथाः तेषां त्वं लोकभावन।
श्रीनृसिंह उवाच -
तथैवास्तु शनेऽहं वै रक्षोभुवनसंस्थितः।
भक्त कामान्पूरयिष्ये त्वं ममैकं वचः श‍ृणु।
त्वत्कृतं मत्परं स्तोत्रं यः पठेच्छृणुयाच्च यः।
द्वादशाष्टम जन्मस्थात् त्वद्भयं मास्तु तस्य वै।
शनिर्नरहरिं देवं तथेति प्रत्युवाच ह।
ततः परमसन्तुष्टाः जयेति मुनयोवदन्।
श्रीकृष्ण उवाच -
इदं शनैश्चरस्याथ नृसिंहदेव
संवादमेतत् स्तवनं च मानवः।
श‍ृणोति यः श्रावयते च भक्त्या
सर्वाण्यभीष्टानि च विन्दते ध्रुवम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies