घटिकाचलशृङ्गाग्रविमानोदरवासिने।
निखिलामरसेव्याय नरसिंहाय मङ्गलम्।
उदीचीरङ्गनिवसत्सुमनस्तोमसूक्तिभिः।
नित्याभिवृद्धयशसे नरसिंहाय मङ्गलम्।
सुधावल्लीपरिष्वङ्गसुरभीकृतवक्षसे।
घटिकाद्रिनिवासाय श्रीनृसिंहाय मङ्गलम्।
सर्वारिष्टविनाशाय सर्वेष्टफलदायिने।
घटिकाद्रिनिवासाय श्रीनृसिंहाय मङ्गलम्।
महागुरुमनःपद्ममध्यनित्यनिवासिने।
भक्तोचिताय भवतात् मङ्गलं शाश्वती समाः।