नरसिंह द्वादश नाम स्तोत्र

अस्य श्रीनृसिंह द्वादशनाम स्तोत्रमहामन्त्रस्य
वेदव्यासो भगवान् ऋषिः
अनुष्टुप् छन्दः
लक्ष्मीनृसिंहो देवता
श्रीनृसिंहप्रीत्यर्थे विनियोगः
स्वपक्षपक्षपातेन तद्विपक्षविदारणम्।
नृसिंहमद्भुतं वन्दे परमानन्दविग्रहम्॥
प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी।
तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः।
पञ्चमं नारसिंहश्च षष्ठः कश्यपमर्दनः।
सप्तमो यातुहन्ता चाष्टमो देववल्लभः।
नवमं प्रह्लादवरदो दशमोऽनन्तहस्तकः।
एकादशो महारुद्रो द्वादशो दारुणस्तथा॥
द्वादशैतानि नामानि नृसिंहस्य महात्मनः।
मन्त्रराजेति विख्यातं सर्वपापविनाशनम्।
क्षयापस्मारकुष्ठादि- तापज्वरनिवारणम्।
राजद्वारे महाघोरे सङ्ग्रामे च जलान्तरे।
गिरिगह्वार आरण्ये व्याघ्रचोरामयादिषु।
रणे च मरणे चैव शर्मदं परमं शुभम्।
शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात्।
आवर्तयेत् सहस्रं तु लभते वाञ्छितं फलम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies