ललिता स्तुति

विकसितसन्मुखि चन्द्रकलामयि वैदिककल्पलते ।
भगवति मामव मानवशङ्करि देविवरे ललिते ।
कामविधायिनि पिङ्गललोचनि निर्जितमर्त्यगते ।
सुन्दरि मामव मन्मथरूपिणि देविवरे ललिते ।
सकलसुरासुरवेदसुसाधितपुण्यपुराणनुते ।
मामव विधिहरिहरनतकेतकि देविवरे ललिते ।
जयभगदायिनि सौम्यसुरैशिनि भक्तमतौ दयिते ।
सुनयनि मामव चम्पकमालिनि देविवरे ललिते ।
चन्दनमञ्जुले सिद्धमनोरमे वन्दितमञ्जुमते ।
भट्टिनि मामव रत्नकिरीटिनि देविवरे ललते ।
पाशशराङ्कुशसाभयधारिणि भक्तमनःसुरते ।
चित्ररथाखिलभासिनि मामव देविवरे ललिते ।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |