ललिता हृदय स्तोत्र

बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारती-
मीषत्फुल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् ।
पाशं साभयमङ्कुशं च वरदं सम्बिभ्रतीं भूतिदां
भ्राजन्तीं चतुरम्बुजाकृतकरैर्भक्त्या भजे षोडशीम् ॥
सुन्दरी सकलकल्मषापहा कोटिकञ्जकमनीयकान्तिका ।
कोटिकल्पकृतपुण्यकर्मणा पूजनीयपदपुण्यपुष्करा ॥
शर्वरीशसमसुन्दरानना श्रीशशक्तिसुकृताश्रयाश्रिता ।
सज्जनानुशरणीयसत्पदा सङ्कटे सुरगणैः सुवन्दिता ॥
या सुरासुररणे जवान्विता ह्याजघान जगदम्बिकाऽजिता ।
तां भजामि जननीं जगज्जनिं युद्धयुक्तदितिजान् सुदुर्जयान् ॥
योगिनां हृदयसङ्गतां शिवां योगयुक्तमनसां यतात्मनाम् ।
जाग्रतीं जगति यत्नतो द्विजा यां जपन्ति हृदि तां भजाम्यहम् ॥
कल्पकास्तु कलयन्ति कालिकां यत्कला कलिजनोपकारिका ।
कौलिकालिकलिताङ्घ्रिपङ्कजां तां भजामि कलिकल्मषापहाम् ॥
बालार्कानन्तशोचिर्न्निजतनुकिरणैर्द्दीपयन्तीं दिगन्तान्
दीप्तैर्द्देदीप्तमानां दनुजदलवनानल्पदावानलाभाम् ।
दान्तोदन्तोग्रचितां दलितदितिसुतां दर्शनीयां दुरन्तां
देवीं दीनार्द्रचित्तां हृदि मुदितमनाः षोडशीं संस्मरामि ॥
धीरान्धन्यान्धरित्रीधवविधृतशिरो धूतधूल्यब्जपादां
घृष्टान्धाराधराधो विनिधृतचपलाचारुचन्द्रप्रभाभाम् ।
धर्म्यान्धूतोपहारान् धरणिसुरधवोद्धारिणीं ध्येयरूपां
धीमद्धन्यातिधन्यान्धनदधनवृतां सुन्दरीं चिन्तयामि ॥
जयतु जयतु जल्पा योगिनी योगयुक्ता
जयतु जयतु सौम्या सुन्दरी सुन्दरास्या ।
जयतु जयतु पद्मा पद्मिनी केशवस्य
जयतु जयतु काली कालिनी कालकान्ता ॥
जयतु जयतु खर्वा षोडशी वेदहस्ता
जयतु जयतु धात्री धर्मिणी धातृशान्तिः ।
जयतु जयतु वाणी ब्रह्मणो ब्रह्मवन्द्या
जयतु जयतु दुर्गा दारिणी देवशत्रोः ॥
देवि त्वं सृष्टिकाले कमलभवभृता राजसी रक्तरूपा
रक्षाकाले त्वमम्बा हरिहृदयधृता सात्विकी श्वेतरूपा ।
भूरिक्रोधा भवान्ते भवभवनगता तामसी कृष्णरूपा
एताश्चान्यास्त्वमेव क्षितमनुजमला सुन्दरी केवलाद्या ॥
सुमलशमनमेतद्देवि गोप्यं गुणज्ञे
ग्रहणमननयोग्यं षोडशीयं खलघ्नम् ।
सुरतरुसमशीलं सम्प्रदं पाठकानां
प्रभवति हृदयाख्यं स्तोत्रमत्यन्तमान्यम् ॥
इदं त्रिपुरसुन्दर्याः षोडश्याः परमाद्भुतम् ।
यः श‍ृणोति नरः स्तोत्रं स सदा सुखमश्नुते ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies