दुर्गा सप्तशती - देवी सूक्त

ॐ अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य । वागाम्भृणी -ऋषिः । श्री-आदिशक्तिर्देवता । त्रिष्टुप्-छन्दः। तृतीया जगती । श्रीजगदम्बाप्रीत्यर्थे सप्तशतीजपान्ते जपे विनियोगः । ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्व....

ॐ अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य । वागाम्भृणी -ऋषिः । श्री-आदिशक्तिर्देवता । त्रिष्टुप्-छन्दः। तृतीया जगती । श्रीजगदम्बाप्रीत्यर्थे सप्तशतीजपान्ते जपे विनियोगः ।
ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ १॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ २॥
अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥ ३॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं श‍ृणोत्युक्तम् ।
अमन्तवो मां त उपक्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ ४॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥ ६॥
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वो तामूं द्यां वर्ष्मणोप स्पृशामि ॥ ७॥
अहमेव वात इव प्र वाम्या रभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यै तावती महिना सं बभूव ॥ ८॥

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |