दुर्गा सप्तशती - प्राधानिक रहस्य

36.2K

Comments

n6ezw

अथ प्राधानिकं रहस्यम् । अस्य श्रीसप्तशतीरहस्यत्रयस्य । ब्रह्मविष्णुरुद्रा-ऋषयः । महाकालीमहालक्षीमहासरस्वत्यो देवताः । अनुष्टुप् छन्दः । नवदुर्गामहालक्ष्मीर्बीजम् । श्रीं शक्तिः । सकल-अभीष्टफलसिद्धये सप्तशतीपाठान्त....

अथ प्राधानिकं रहस्यम् ।
अस्य श्रीसप्तशतीरहस्यत्रयस्य । ब्रह्मविष्णुरुद्रा-ऋषयः । महाकालीमहालक्षीमहासरस्वत्यो देवताः । अनुष्टुप् छन्दः । नवदुर्गामहालक्ष्मीर्बीजम् । श्रीं शक्तिः । सकल-अभीष्टफलसिद्धये सप्तशतीपाठान्ते जपे विनियोगः ।
राजोवाच ।
भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः ।
एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि ।
आराध्यं यन्मया देव्याः स्वरूपं येन वै द्विज ।
विधिना ब्रूहि सकलं यथावत् प्रणतस्य मे ।
ऋषिरुवाच ।
इदं रहस्यं परममनाख्येयं प्रचक्षते ।
भक्तोऽसीति न मे किञ्चित् तवावाच्यं नराऽधिप ।
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी ।
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ।
मातुलिङ्गं गदां खेटं पानपात्रं च बिभ्रती ।
नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि ।
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा ।
शून्यं तदखिलं स्वेन पूरयामास तेजसा ।
शून्यं तदखिलं लोकं विलोक्य परमेश्वरी ।
बभार रूपमपरं तमसा केवलेन हि ।
सा भिन्नाञ्जनसङ्काशा दंष्ट्राञ्चितवरानना ।
विशाललोचना नारी बभूव तनुमध्यमा ।
खड्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा ।
कबन्धहारं शिरसा बिभ्राणा हि शिरःस्रजम् ।
तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् ।
ददामि तव नामानि यानि कर्माणि तानि ते ।
महामाया महाकाली महामारी क्षुधा रुषा ।
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ।
इमानि तव नामानि प्रतिपाद्यानि कर्मभिः ।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ।
तामित्युक्त्वा महालक्ष्मीः स्वरूपममरं नृप ।
सत्त्वाख्येनाऽतिशुद्धेन गुणेनेन्दुप्रभं दधौ ।
अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी ।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ।
महाविद्या महावाणी भारती वाक् सरस्वती ।
आर्या ब्राह्मी कामधेनुर्वेदगर्भा सुरेश्वरी ।
अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ।
युवां जनयतां देव्यौ मिथुने स्वानुरूपतः ।
इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् ।
हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ ।
ब्रह्मन् विधे विरिञ्चेति धातरित्याह तं नरम् ।
श्रीः पद्मे कमले लक्ष्मीमीत्याह माता स्त्रियं च ताम् ।
महाकाली भारती च मिथुने सृजतः सह ।
एतयोरपि रूपाणि नामानि च वदामि ते ।
नीलकण्ठं रक्तबाहुं श्वेताङ्गं चन्द्रशेखरम् ।
जनयामास पुरुषं महाकालीं सितां स्त्रियम् ।
स रुद्रः शङ्करः स्थाणुः कपर्दी च त्रिलोचनः ।
त्रयी विद्या कामधेनुः सा स्त्री भाषा स्वराऽक्षरा ।
सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप ।
जनयामास नामानि तयोरपि वदामि ते ।
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ।
उमा गौरी सती चण्डी सुन्दरी सुभगा शुभा ।
एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे ।
चाक्षुष्मन्तो नु पश्यन्ति नेतरेऽतद्विदो जनाः ।
ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नृप त्रयीम् ।
रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ।
स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत् ।
बिभेद भगवान् रुद्रस्तद् गौर्या सह वीर्यवान् ।
अण्डमध्ये प्रधानादि कार्यजातमभून्नृप ।
महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
पुपोष पालयामास तल्लक्ष्म्या सह केशवः ।
महालक्ष्मीरेवमजा साऽपि सर्वेश्वरेश्वरी ।
निराकारा च साकारा सैव नानाभिधानभृत् ।
नामान्तरैर्निरूप्यैषा नाम्ना नाऽन्येन केनचित् ।
मार्कण्डेयपुराणे प्राधानिकं रहस्यम् ।

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |