ज्ञान और बुद्धि के लिए सुब्रह्मण्य मंत्र

57.1K

Comments

4apmk

योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः। स्कन्दः कुमारः सेनानीः स्वामिशङ्करसंभवः। गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः। शब्दब्रह्मसमुद्रश्च सिद्धसारस्वतो ग....

योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः।
स्कन्दः कुमारः सेनानीः स्वामिशङ्करसंभवः।
गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः।
तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः।
शब्दब्रह्मसमुद्रश्च सिद्धसारस्वतो गुहः।
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः।
शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत्।
सर्वागमप्रणेता च वाञ्च्छितार्थप्रदर्शनः।
अष्टाविंशतिनामानि मदीयानीति यः पठेत्।
प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत्।
महामन्त्रमयानीति मम नामानुकीर्तनम्।
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा।

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |