Durga Saptashati - Chapter 2

45.1K

Comments

v3782

ॐ अस्य मध्यमचरित्रस्य विष्णु-र्ऋषिः । महालक्ष्मीर्देवता । उष्णिक् छन्दः । शाकम्भरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । यजुर्वेदः स्वरूपम् । महालक्ष्मीप्रीत्यर्थं वाऽर्थे मध्यचरित्रजपे विनियोगः । । ध्यान....

ॐ अस्य मध्यमचरित्रस्य विष्णु-र्ऋषिः ।
महालक्ष्मीर्देवता ।
उष्णिक् छन्दः । शाकम्भरी शक्तिः । दुर्गा बीजम् ।
वायुस्तत्त्वम् ।
यजुर्वेदः स्वरूपम् । महालक्ष्मीप्रीत्यर्थं वाऽर्थे मध्यचरित्रजपे विनियोगः ।
। ध्यानम् ।
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ।
ॐ ह्रीं ऋषिरुवाच ।
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा ।
महिषेऽसुराणामधिपे देवानां च पुरन्दरे ।
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ।
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ।
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ।
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ।
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।
अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ।
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ।
एतद्वः कथितं सर्वममरारिविचेष्टितम् ।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ।
इत्थं निशम्य देवानां वचांसि मधुसूदनः ।
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ।
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ।
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ।
अन्येषां चैव देवानां शक्रादीनां शरीरतः ।
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ।
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् ।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ।
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् ।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ।
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ।
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ।
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा ।
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ।
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा ।
नयनत्रितयं जज्ञे तथा पावकतेजसा ।
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च ।
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ।
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ।
तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ।
ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ।
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ।
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः ।
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ।
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः ।
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ।
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ।
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ।
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः ।
कालश्च दत्तवान् खड्गं तस्यै चर्म च निर्मलम् ।
क्षीरोदश्चामलं हारमजरे च तथाम्बरे ।
चूडामणिं तथा दिव्यं कुण्डले कटकानि च ।
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ।
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च ।
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ।
अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ।
अम्लानपङ्कजां मालां शिरस्युरसि चापराम् ।
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् ।
हिमवान् वाहनं सिंहं रत्नानि विविधानि च ।
ददावशून्यं सुरया पानपात्रं धनाधिपः ।
शेषश्च सर्वनागेशो महामणिविभूषितम् ।
नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ।
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ।
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ।
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ।
अमायतातिमहता प्रतिशब्दो महानभूत् ।
चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे ।
चचाल वसुधा चेलुः सकलाश्च महीधराः ।
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ।
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ।
दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यममरारयः ।
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ।
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ।
अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः ।
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ।
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ।
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ।
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् ।
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ।
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ।
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ।
युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः ।
रथानामयुतैः षड्भिरुदग्राख्यो महासुरः ।
अयुध्यतायुतानां च सहस्रेण महाहनुः ।
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ।
अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे ।
गजवाजिसहस्रौघैरनेकैः परिवारितः ।
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ।
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ।
युयुधे संयुगे तत्र रथानां परिवारितः ।
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ।
युयुधुः संयुगे देव्या सह तत्र महासुराः ।
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ।
हयानां च वृतो युद्धे तत्राभून्महिषासुरः ।
तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा ।
युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः ।
केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ।
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः ।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ।
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ।
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ।
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ।
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ।
चचारासुरसैन्येषु वनेष्विव हुताशनः ।
निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका ।
त एव सद्यः सम्भूता गणाः शतसहस्रशः ।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ।
नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः ।
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे ।
मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ।
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः ।
खड्गादिभिश्च शतशो निजघान महासुरान् ।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ।
असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् ।
केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे ।
विपोथिता निपातेन गदया भुवि शेरते ।
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ।
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि ।
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे ।
श्येनानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः ।
केषाञ्चिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ।
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ।
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः ।
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः ।
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ।
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः ।
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ।
कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः ।
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ।
पातितै रथनागाश्वैरसुरैश्च वसुन्धरा ।
अगम्या साभवत्तत्र यत्राभूत् स महारणः ।
शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः ।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ।
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।
निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ।
स च सिंहो महानादमुत्सृजन् धुतकेसरः ।
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ।
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः ।
यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ।
मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये द्वितीयः ।

om asya madhyamacharitrasya vishnu-rri'shih' .
mahaalakshmeerdevataa .
ushnik chhandah' . shaakambharee shaktih' . durgaa beejam .
vaayustattvam .
yajurvedah' svaroopam . mahaalakshmeepreetyartham vaa'rthe madhyacharitrajape viniyogah' .
. dhyaanam .
om akshasrakparashoo gadeshukulisham padmam dhanuh' kund'ikaam
dand'am shaktimasim cha charma jalajam ghant'aam suraabhaajanam .
shoolam paashasudarshane cha dadhateem hastaih' pravaalaprabhaam
seve sairibhamardineemiha mahaalakshmeem sarojasthitaam .
om hreem ri'shiruvaacha .
devaasuramabhoodyuddham poornamabdashatam puraa .
mahishe'suraanaamadhipe devaanaam cha purandare .
tatraasurairmahaaveeryairdevasainyam paraajitam .
jitvaa cha sakalaan devaanindro'bhoonmahishaasurah' .
tatah' paraajitaa devaah' padmayonim prajaapatim .
puraskri'tya gataastatra yatreshagarud'adhvajau .
yathaavri'ttam tayostadvanmahishaasurachesht'itam .
tridashaah' kathayaamaasurdevaabhibhavavistaram .
sooryendraagnyanilendoonaam yamasya varunasya cha .
anyeshaam chaadhikaaraansa svayamevaadhitisht'hati .
svargaanniraakri'taah' sarve tena devaganaa bhuvi .
vicharanti yathaa martyaa mahishena duraatmanaa .
etadvah' kathitam sarvamamaraarivichesht'itam .
sharanam vah' prapannaah' smo vadhastasya vichintyataam .
ittham nishamya devaanaam vachaamsi madhusoodanah' .
chakaara kopam shambhushcha bhrukut'eekut'ilaananau .
tato'tikopapoornasya chakrino vadanaattatah' .
nishchakraama mahattejo brahmanah' shankarasya cha .
anyeshaam chaiva devaanaam shakraadeenaam shareeratah' .
nirgatam sumahattejastachchaikyam samagachchhata .
ateeva tejasah' koot'am jvalantamiva parvatam .
dadri'shuste suraastatra jvaalaavyaaptadigantaram .
atulam tatra tattejah' sarvadevashareerajam .
ekastham tadabhoonnaaree vyaaptalokatrayam tvishaa .
yadabhoochchhaambhavam tejastenaajaayata tanmukham .
yaamyena chaabhavan keshaa baahavo vishnutejasaa .
saumyena stanayoryugmam madhyam chaindrena chaabhavat .
vaarunena cha janghoroo nitambastejasaa bhuvah' .
brahmanastejasaa paadau tadangulyo'rkatejasaa .
vasoonaam cha karaangulyah' kauberena cha naasikaa .
tasyaastu dantaah' sambhootaah' praajaapatyena tejasaa .
nayanatritayam jajnye tathaa paavakatejasaa .
bhruvau cha sandhyayostejah' shravanaavanilasya cha .
anyeshaam chaiva devaanaam sambhavastejasaam shivaa .
tatah' samastadevaanaam tejoraashisamudbhavaam .
taam vilokya mudam praapuramaraa mahishaarditaah' .
tato devaa dadustasyai svaani svaanyaayudhaani cha .
shoolam shoolaadvinishkri'shya dadau tasyai pinaakadhri'k .
chakram cha dattavaan kri'shnah' samutpaat'ya svachakratah' .
shankham cha varunah' shaktim dadau tasyai hutaashanah' .
maaruto dattavaamshchaapam baanapoorne tatheshudhee .
vajramindrah' samutpaat'ya kulishaadamaraadhipah' .
dadau tasyai sahasraaksho ghant'aamairaavataadgajaat .
kaaladand'aadyamo dand'am paasham chaambupatirdadau .
prajaapatishchaakshamaalaam dadau brahmaa kamand'alum .
samastaromakoopeshu nijarashmeen divaakarah' .
kaalashcha dattavaan khad'gam tasyai charma cha nirmalam .
ksheerodashchaamalam haaramajare cha tathaambare .
chood'aamanim tathaa divyam kund'ale kat'akaani cha .
ardhachandram tathaa shubhram keyooraan sarvabaahushu .
noopurau vimalau tadvad graiveyakamanuttamam .
anguleeyakaratnaani samastaasvanguleeshu cha .
vishvakarmaa dadau tasyai parashum chaatinirmalam .
astraanyanekaroopaani tathaabhedyam cha damshanam .
amlaanapankajaam maalaam shirasyurasi chaaparaam .
adadajjaladhistasyai pankajam chaatishobhanam .
himavaan vaahanam simham ratnaani vividhaani cha .
dadaavashoonyam surayaa paanapaatram dhanaadhipah' .
sheshashcha sarvanaagesho mahaamanivibhooshitam .
naagahaaram dadau tasyai dhatte yah' pri'thiveemimaam .
anyairapi surairdevee bhooshanairaayudhaistathaa .
sammaanitaa nanaadochchaih' saat't'ahaasam muhurmuhuh' .
tasyaa naadena ghorena kri'tsnamaapooritam nabhah' .
amaayataatimahataa pratishabdo mahaanabhoot .
chukshubhuh' sakalaa lokaah' samudraashcha chakampire .
chachaala vasudhaa cheluh' sakalaashcha maheedharaah' .
jayeti devaashcha mudaa taamoochuh' simhavaahineem .
tusht'uvurmunayashchainaam bhaktinamraatmamoortayah' .
dri'sht'vaa samastam sankshubdham trailokyamamaraarayah' .
sannaddhaakhilasainyaaste samuttasthurudaayudhaah' .
aah' kimetaditi krodhaadaabhaashya mahishaasurah' .
abhyadhaavata tam shabdamasheshairasurairvri'tah' .
sa dadarsha tato deveem vyaaptalokatrayaam tvishaa .
paadaakraantyaa natabhuvam kireet'ollikhitaambaraam .
kshobhitaasheshapaataalaam dhanurjyaanih'svanena taam .
disho bhujasahasrena samantaadvyaapya samsthitaam .
tatah' pravavri'te yuddham tayaa devyaa suradvishaam .
shastraastrairbahudhaa muktairaadeepitadigantaram .
mahishaasurasenaaneeshchikshuraakhyo mahaasurah' .
yuyudhe chaamarashchaanyaishchaturangabalaanvitah' .
rathaanaamayutaih' shad'bhirudagraakhyo mahaasurah' .
ayudhyataayutaanaam cha sahasrena mahaahanuh' .
panchaashadbhishcha niyutairasilomaa mahaasurah' .
ayutaanaam shataih' shad'bhirbaashkalo yuyudhe rane .
gajavaajisahasraughairanekaih' parivaaritah' .
vri'to rathaanaam kot'yaa cha yuddhe tasminnayudhyata .
bid'aalaakhyo'yutaanaam cha panchaashadbhirathaayutaih' .
yuyudhe samyuge tatra rathaanaam parivaaritah' .
anye cha tatraayutasho rathanaagahayairvri'taah' .
yuyudhuh' samyuge devyaa saha tatra mahaasuraah' .
kot'ikot'isahasraistu rathaanaam dantinaam tathaa .
hayaanaam cha vri'to yuddhe tatraabhoonmahishaasurah' .
tomarairbhindipaalaishcha shaktibhirmusalaistathaa .
yuyudhuh' samyuge devyaa khad'gaih' parashupat't'ishaih' .
kechichcha chikshipuh' shakteeh' kechit paashaamstathaapare .
deveem khad'gaprahaaraistu te taam hantum prachakramuh' .
saapi devee tatastaani shastraanyastraani chand'ikaa .
leelayaiva prachichchheda nijashastraastravarshinee .
anaayastaananaa devee stooyamaanaa surarshibhih' .
mumochaasuradeheshu shastraanyastraani cheshvaree .
so'pi kruddho dhutasat'o devyaa vaahanakesaree .
chachaaraasurasainyeshu vaneshviva hutaashanah' .
nih'shvaasaan mumuche yaamshcha yudhyamaanaa rane'mbikaa .
ta eva sadyah' sambhootaa ganaah' shatasahasrashah' .
yuyudhuste parashubhirbhindipaalaasipat't'ishaih' .
naashayanto'suraganaan deveeshaktyupabri'mhitaah' .
avaadayanta pat'ahaan ganaah' shankhaamstathaapare .
mri'dangaamshcha tathaivaanye tasmin yuddhamahotsave .
tato devee trishoolena gadayaa shaktivri'sht'ibhih' .
khad'gaadibhishcha shatasho nijaghaana mahaasuraan .
paatayaamaasa chaivaanyaan ghant'aasvanavimohitaan .
asuraan bhuvi paashena baddhvaa chaanyaanakarshayat .
kechid dvidhaakri'taasteekshnaih' khad'gapaataistathaapare .
vipothitaa nipaatena gadayaa bhuvi sherate .
vemushcha kechidrudhiram musalena bhri'sham hataah' .
kechinnipatitaa bhoomau bhinnaah' shoolena vakshasi .
nirantaraah' sharaughena kri'taah' kechidranaajire .
shyenaanukaarinah' praanaan mumuchustridashaardanaah' .
keshaanchid baahavashchhinnaashchhinnagreevaastathaapare .
shiraamsi peturanyeshaamanye madhye vidaaritaah' .
vichchhinnajanghaastvapare petururvyaam mahaasuraah' .
ekabaahvakshicharanaah' kechiddevyaa dvidhaakri'taah' .
chhinne'pi chaanye shirasi patitaah' punarutthitaah' .
kabandhaa yuyudhurdevyaa gri'heetaparamaayudhaah' .
nanri'tushchaapare tatra yuddhe tooryalayaashritaah' .
kabandhaashchhinnashirasah' khad'gashaktyri'sht'ipaanayah' .
tisht'ha tisht'heti bhaashanto deveemanye mahaasuraah' .
paatitai rathanaagaashvairasuraishcha vasundharaa .
agamyaa saabhavattatra yatraabhoot sa mahaaranah' .
shonitaughaa mahaanadyah' sadyastatra prasusruvuh' .
madhye chaasurasainyasya vaaranaasuravaajinaam .
kshanena tanmahaasainyamasuraanaam tathaambikaa .
ninye kshayam yathaa vahnistri'nadaarumahaachayam .
sa cha simho mahaanaadamutsri'jan dhutakesarah' .
shareerebhyo'maraareenaamasooniva vichinvati .
devyaa ganaishcha taistatra kri'tam yuddham tathaasuraih' .
yathaishaam tutushurdevaah' pushpavri'sht'imucho divi .
maarkand'eyapuraane saavarnike manvantare deveemaahaatmye dviteeyah' .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |