दुर्गा सप्तशती - न्यास और नवार्ण मंत्र

85.1K

Comments

kGteq

ॐ अस्य श्रीनवार्णमन्त्रस्य । ब्रह्मविष्णुरुद्रा-ऋषयः । गायत्र्युष्णिगनुष्टुभश्छन्दांसि । श्रीमहालक्ष्मीमहाकालीमहासरस्वत्यो देवताः । नन्दाशाकम्भरीभीमाः शक्तयः । रक्तदन्तिकादुर्गाभ्रामर्यो बीजानि । अग्निवायुसूर्यास....

ॐ अस्य श्रीनवार्णमन्त्रस्य । ब्रह्मविष्णुरुद्रा-ऋषयः । गायत्र्युष्णिगनुष्टुभश्छन्दांसि । श्रीमहालक्ष्मीमहाकालीमहासरस्वत्यो देवताः । नन्दाशाकम्भरीभीमाः शक्तयः । रक्तदन्तिकादुर्गाभ्रामर्यो बीजानि । अग्निवायुसूर्यास्तत्त्वानि । श्रीमहालक्ष्मीमहाकालीमहासरस्वतीप्रीत्यर्थं जपे विनियोगः । ब्रह्मविष्णुरुद्र-ऋषिभ्यो नमः शिरसि । गायत्र्युष्णिगनुष्टुप्छन्दोभ्यो नमो मुखे । श्रीमहालक्ष्मीमहाकालीमहासरस्वतीदेवताभ्यो नमो हृदि । नन्दाशाकम्भरीभीमाशक्तिभ्यो नमो दक्षिणस्तने । रक्तदन्तिकादुर्गाभ्रामरीबीजेभ्यो नमो वामस्तने । अग्निवायुसूर्यस्तत्त्वेभ्यो नमो नाभौ । अथैकादशन्यासाः । ॐ अं नमो ललाटे । ॐ आं नमो मुखवृत्ते । ॐ इं नमो दक्षिणनेत्रे । ॐ ईं नमो वामनेत्रे । ॐ उं नमो दक्षिणकर्णे । ॐ ऊं नमो वामकर्णे । ॐ ऋं नमो दक्षिणनसि । ॐ ॠं नमो वामनसि । ॐ लृं नमो दक्षिणगण्डे । ॐ लॄ नमो वामगण्डे । ॐ एं नमो उर्ध्वेष्ठे । ॐ ऐं नमोऽधरोष्ठे । ॐ ओं नम उर्ध्वदन्तपङ्क्तौ । ॐ औं नमोऽधोदन्तपङ्क्तौ । ॐ अं नमः शिरसि । ॐ अः नमो मुखे । ॐ कं नमो दक्षबाहुमूले । ॐ खं नमो दक्षकूर्परे । ॐ गं नमो दक्षमणिबन्धे । ॐ घं नमो दक्षाङ्गुलिमूले । ॐ ङं नमो दक्षाङ्गुल्यग्रे । ॐ चं नमो दक्षबाहुमूले । ॐ छं नमो वामकूर्परे । ॐ जं नमो वाममणिबन्धे । ॐ झं नमो वामाङ्गुलिमूले । ॐ ञं नमो वामाङ्गुल्यग्रे । ॐ टं नमो दक्षपादमूले । ॐ ठं नमो दक्षजानुनि । ॐ डं नमो दक्षगुल्फे । ॐ ढं नमो दक्षपादाङ्गुलिमूले । ॐ णं नमो दक्षपादाङ्गुल्यग्रे । ॐ तं नमो वामपादमूले । ॐ थं नमो वामजानुनि । ॐ दं नमो वामगुल्फे । ॐ धं नमो वामपादाङ्गुलिमूले । ॐ नं नमो वामपादाङ्गुल्यग्रे । ॐ पं नमो दक्षपार्श्वे । ॐ फं नमो वामपार्श्वे । ॐ बं नमः पृष्ठे । ॐ भं नमो नाभौ । ॐ मं नमो जठरे । ॐ यं नमो हृदि । ॐ रं नमो दक्षांसे । ॐ लं नमः ककुदि । ॐ वं नमो वामांसे । ॐ शं नमो हृदादिदक्षहस्तान्ते । ॐ षं नमो हृदादिवामहस्तान्ते । ॐ शं नमो हृदादिदक्षपादान्ते । ॐ हं नमो हृदादिवामपादान्ते । ॐ ळं नमो जठरे । ॐ क्षं नमो मुखे । इति मातृकान्यासो देवसारूप्यप्रदः प्रथमः ।
ॐ ऐं ह्रीं क्लीं नमः – कनिष्ठयोः । ॐ ऐं ह्रीं क्लीं नमः – अनामिकयोः । ॐ ऐं ह्रीं क्लीं नमः – मध्यमयोः । ॐ ऐं ह्रीं क्लीं नमः – तर्जन्योः । ॐ ऐं ह्रीं क्लीं नमः – अङ्गुष्ठयोः । ॐ ऐं ह्रीं क्लीं नमः – करमध्ये । ॐ ऐं ह्रीं क्लीं नमः – करपृष्ठे । ॐ ऐं ह्रीं क्लीं नमः – मणिबन्धयोः । ॐ ऐं ह्रीं क्लीं नमः – कूर्परयोः । ॐ ऐं ह्रीं क्लीं नमः – हृदयाय नमः । ॐ ऐं ह्रीं क्लीं नमः – शिरसे स्वाहा । ॐ ऐं ह्रीं क्लीं नमः – शिखायै वषट् । ॐ ऐं ह्रीं क्लीं नमः – कवचाय हुम् । ॐ ऐं ह्रीं क्लीं नमः – नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं क्लीं नमः – अस्त्राय फट् । इति सारस्वतो जाड्यविनाशको द्वितीयः ।
ॐ ह्रीं ब्राह्मी पूर्वस्यां मां पातु । ॐ ह्रीं माहेश्वरी आग्नेय्यां मां पातु । ॐ ह्रीं कौमारी दक्षिणस्यां मां पातु । ॐ ह्रीं वैष्णवी नैर्ऋत्यां मां पातु । ॐ ह्रीं वाराही पश्चिमायां मां पातु । ॐ ह्रीम् इन्द्राणी वायव्यां मां पातु । ॐ ह्रीं चामुण्डा उत्तरस्यां मां पातु । ॐ ह्रीं महालक्ष्मी ऐशान्यां मां पातु । ॐ ह्रीं योनेश्वरी ऊर्ध्वां मां पातु । ॐ ह्रीं सप्तद्वीपेश्वरी भूमौ मां पातु । ॐ ह्रीं कामेश्वरी पाताले मां पातु । इति मातृगणन्यासस्त्रैलोक्यविजयप्रदस्तृतीयः । ॐ कमलाङ्कुशमण्डिता नन्दजा पूर्वाङ्गं मे पातु । ॐ खड्गपात्रधरा रक्तदन्तिका दक्षिणाङ्गं मे पातु । ॐ पुष्पपल्लवसंयुता शाकम्भरी पश्चिमाङ्गं मे पातु । ॐ धनुर्बाणकरा दुर्गा वामाङ्गं मे पातु । ॐ शिरःपात्रकरा भीमा मस्तकाच्चरणावधि मां पातु । ॐ चित्रकान्तिभृद् भ्रामरी पादादिमस्तकान्तं मे पातु । इति जरामृत्युहरो नन्दजादिन्यासश्चतुर्थः । ॐ पादादिनाभिपर्यन्तं ब्रह्मा मां पातु । ॐ नाभेर्विशुद्धिपर्यन्तं जनार्दनो मां पातु । ॐ विशुद्धेर्ब्रह्मरन्ध्रान्तं रुद्रो मां पातु । ॐ हंसो मे पदद्वयं मे पातु । ॐ वैनतेयः करद्वयं मे पातु । ॐ ऋषभश्चक्षुषी मे पातु । ॐ गजाननः सर्वाङ्गं मे पातु । ॐ आनन्दमयो हरिः पराऽपरौ देहभागौ मे पातु । इति सर्वकामप्रदो ब्रह्मादिन्यासः पञ्चमः ।
ॐ अष्टादशभुजा लक्ष्मीर्मध्यभागं मे पातु । ॐ अष्टभुजा महासरस्वती ऊर्ध्वभागं मे पातु । ॐ दशभुजा महाकाली अधोभागं मे पातु । ॐ सिंहो हस्तद्वयं मे पातु । ॐ परहंसोऽक्षियुगं मे पातु । ॐ महिषारूढो यमः पदद्वयं मे पातु । ॐ महेशश्चण्डिकयुक्तः सर्वाङ्गं मे पातु । इति महालक्ष्म्यादिन्यासः सद्गतिप्रदः षष्ठः । ॐ ऐं नमो ब्रह्मरन्ध्रे । ॐ ह्रीं नमो दक्षिणनेत्रे । ॐ क्लीं नमो वामनेत्रे । ॐ जां नमो दक्षिणकर्णे । ॐ मुं नमो वामकर्णे । ॐ डां नमो दक्षिणनासापुटे । ॐ यैं नमो वामनासापुटे । ॐ विं नमो मुखे । ॐ चें नमो गुह्ये । इति मूलाक्षरन्यासो रोगक्षयकरः सप्तमः । ॐ चें नमो गुह्ये । ॐ विं नमो मुखे । ॐ यैं नमो वामनासापुटे । ॐ डां नमो दक्षिणनासापुटे । ॐ मुं नमो वामकर्णे । ॐ जां नमो दक्षकर्णे । ॐ क्लीं नमो वामनेत्रे । ॐ ह्रीं नमो दक्षनेत्रे । ॐ ऐं नमो ब्रह्मरन्ध्रे । इति विलोमाक्षरन्यासः सर्वदुःखनाशकोऽष्टमः ।
मूलमुच्चार्य । अष्टवारं व्यापकं कुर्यात् । इति देवताप्राप्तिकरो मूलव्यापको नवमः । ॐ ऐं क्लीं चामुण्डायै विच्चे – हृदयाय नमः । ॐ ऐं क्लीं चामुण्डायै विच्चे – शिरसे स्वाहा । ॐ ऐं क्लीं चामुण्डायै विच्चे – शिखायै वषट् । ॐ ऐं क्लीं चामुण्डायै विच्चे – नेत्रत्रयाय वौषट् । ॐ ऐं क्लीं चामुण्डायै विच्चे – कवचाय हुम् । ॐ ऐं क्लीं चामुण्डायै विच्चे – अस्त्राय फट् । इति मूलषडङ्गन्यासस्त्रैलोक्यवशकरो दशमः ।
ॐ खड्गिणी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिणी बाणभुशुण्डीपरिघायुधा ।
सौम्या सौम्यतराऽशेषसौम्येभ्यस्त्वतिसुन्दरी ।
पराऽपराणां परमा त्वमेव परमेश्वरी ।
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाऽखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयते मया ।
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ।
विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।
आद्यं वाग्बीजं कृष्णपरं ध्यात्वा सर्वाङ्गे विन्यसामि ।
ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ।
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
धारणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ।
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षांस्मांस्तथा भुवम् ।
खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ।
द्वितीयं मायाबीजं सूर्यसदृशं ध्यात्वा सर्वाङ्गे विन्यसामि ।
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ।
एतत् ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ।
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ।
हिनस्ति दैत्यदेयांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ।
असुरासृक्कलापङ्कचर्चितस्ते करोज्जवलः ।
सुखाय खड्गो भवतु चण्डिके त्वां नता वयम् ।
तृतीयं कामबीजं स्फटिकाभं ध्यात्वा सर्वाङ्गे विन्यसामि ।
इति सूक्तादिबीजत्रयन्यासः पञ्चमः सर्वारिष्टहरः सर्वाभीष्टदः सर्वरक्षाकरश्चैकादशः ।
अथ मूलषडङ्गन्यासः ।
ॐ ऐम् अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ क्लीं मध्यमाभ्यां नमः । ॐ चामुण्डायै अनामिकाभ्यां नमः । ॐ विच्चे कनिष्ठिकाभ्यां नमः । ॐ ऐं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः । ॐ ऐँ हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ क्लीं शिखायै वषट् । ॐ चामुण्डायै कवचाय हुम् । ॐ विच्चे नेत्रत्रयाय वौषट् । ॐ ऐं क्लीं चामुण्डायै विच्चे अस्त्राय फट् । ॐ ऐं नमः - शिखायाम् । ॐ ह्रीं नमः - दक्षिणनेत्रे । ॐ क्लीं नमः – वामनेत्रे । ॐ चां नमः - दक्षिणकर्णे । ॐ मुं नमः - वामकर्णे । ॐ डां नमः - दक्षिणनासायाम् । ॐ यैं नमः - वामनासायाम् । ॐ विं नमः - मुखे । ॐ चें नमः – गुह्ये । ॐ ऐं प्राच्यै नमः । ॐ ऐम् आग्नेय्यै नमः । ॐ ह्रीं दक्षिणायै नमः । ॐ ह्रीं नैर्ऋत्यै नमः । ॐ क्लीं प्रतीच्यै नमः । ॐ क्लीं वायव्यै नमः । ॐ चामुण्डायै उदीच्यै नमः । ॐ विच्चे ईशान्यै नमः । ॐ ऐं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः । ॐ ऐं क्लीं चामुण्डायै विच्चे भूम्यै नमः ।
अथ ध्यानम् ।
खड्गं चक्रगदेषुगापपरिघाञ्छूलं भुशुण्डीं शिरः-
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत् स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ।।
अक्षस्रक्परशूगदेषुकुलिषं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिव महालक्ष्मीं सरोजस्थिताम् ।।
घण्टाशूलहलानिशङ्खमुसले चक्रं धनुःसायकं
हस्ताब्जैर्दधतीं घनान्तविकसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महापूर्वा-
मत्रसरस्वतीमनु भजे शुम्भादिदैत्यार्दिनीम् ।।
ॐ मां माये महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मां सिद्धिदा भव ।
ॐ सिद्ध्यै नमः ।
महासरस्वत्यादिरूपे चित्सदानन्दमये चण्डिके त्वां ब्रह्मविद्याप्राप्त्यर्थं वयं सर्वदा ध्यायामः ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |