दुर्गा सप्तशती - न्यास और नवार्ण मंत्र

0:00 0:00

दुर्गा सप्तशती - न्यास और नवार्ण मंत्र

ॐ अस्य श्रीनवार्णमन्त्रस्य । ब्रह्मविष्णुरुद्रा-ऋषयः । गायत्र्युष्णिगनुष्टुभश्छन्दांसि । श्रीमहालक्ष्मीमहाकालीमहासरस्वत्यो देवताः । नन्दाशाकम्भरीभीमाः शक्तयः । रक्तदन्तिकादुर्गाभ्रामर्यो बीजानि । अग्निवायुसूर्यास्तत्त्वानि । श्रीमहालक्ष्मीमहाकालीमहासरस्वतीप्रीत्यर्थं जपे विनियोगः । ब्रह्मविष्णुरुद्र-ऋषिभ्यो नमः शिरसि । गायत्र्युष्णिगनुष्टुप्छन्दोभ्यो नमो मुखे । श्रीमहालक्ष्मीमहाकालीमहासरस्वतीदेवताभ्यो नमो हृदि । नन्दाशाकम्भरीभीमाशक्तिभ्यो नमो दक्षिणस्तने । रक्तदन्तिकादुर्गाभ्रामरीबीजेभ्यो नमो वामस्तने । अग्निवायुसूर्यस्तत्त्वेभ्यो नमो नाभौ । अथैकादशन्यासाः । ॐ अं नमो ललाटे । ॐ आं नमो मुखवृत्ते । ॐ इं नमो दक्षिणनेत्रे । ॐ ईं नमो वामनेत्रे । ॐ उं नमो दक्षिणकर्णे । ॐ ऊं नमो वामकर्णे । ॐ ऋं नमो दक्षिणनसि । ॐ ॠं नमो वामनसि । ॐ लृं नमो दक्षिणगण्डे । ॐ लॄ नमो वामगण्डे । ॐ एं नमो उर्ध्वेष्ठे । ॐ ऐं नमोऽधरोष्ठे । ॐ ओं नम उर्ध्वदन्तपङ्क्तौ । ॐ औं नमोऽधोदन्तपङ्क्तौ । ॐ अं नमः शिरसि । ॐ अः नमो मुखे । ॐ कं नमो दक्षबाहुमूले । ॐ खं नमो दक्षकूर्परे । ॐ गं नमो दक्षमणिबन्धे । ॐ घं नमो दक्षाङ्गुलिमूले । ॐ ङं नमो दक्षाङ्गुल्यग्रे । ॐ चं नमो दक्षबाहुमूले । ॐ छं नमो वामकूर्परे । ॐ जं नमो वाममणिबन्धे । ॐ झं नमो वामाङ्गुलिमूले । ॐ ञं नमो वामाङ्गुल्यग्रे । ॐ टं नमो दक्षपादमूले । ॐ ठं नमो दक्षजानुनि । ॐ डं नमो दक्षगुल्फे । ॐ ढं नमो दक्षपादाङ्गुलिमूले । ॐ णं नमो दक्षपादाङ्गुल्यग्रे । ॐ तं नमो वामपादमूले । ॐ थं नमो वामजानुनि । ॐ दं नमो वामगुल्फे । ॐ धं नमो वामपादाङ्गुलिमूले । ॐ नं नमो वामपादाङ्गुल्यग्रे । ॐ पं नमो दक्षपार्श्वे । ॐ फं नमो वामपार्श्वे । ॐ बं नमः पृष्ठे । ॐ भं नमो नाभौ । ॐ मं नमो जठरे । ॐ यं नमो हृदि । ॐ रं नमो दक्षांसे । ॐ लं नमः ककुदि । ॐ वं नमो वामांसे । ॐ शं नमो हृदादिदक्षहस्तान्ते । ॐ षं नमो हृदादिवामहस्तान्ते । ॐ शं नमो हृदादिदक्षपादान्ते । ॐ हं नमो हृदादिवामपादान्ते । ॐ ळं नमो जठरे । ॐ क्षं नमो मुखे । इति मातृकान्यासो देवसारूप्यप्रदः प्रथमः । ॐ ऐं ह्रीं क्लीं नमः – कनिष्ठयोः । ॐ ऐं ह्रीं क्लीं नमः – अनामिकयोः । ॐ ऐं ह्रीं क्लीं नमः – मध्यमयोः । ॐ ऐं ह्रीं क्लीं नमः – तर्जन्योः । ॐ ऐं ह्रीं क्लीं नमः – अङ्गुष्ठयोः । ॐ ऐं ह्रीं क्लीं नमः – करमध्ये । ॐ ऐं ह्रीं क्लीं नमः – करपृष्ठे । ॐ ऐं ह्रीं क्लीं नमः – मणिबन्धयोः । ॐ ऐं ह्रीं क्लीं नमः – कूर्परयोः । ॐ ऐं ह्रीं क्लीं नमः – हृदयाय नमः । ॐ ऐं ह्रीं क्लीं नमः – शिरसे स्वाहा । ॐ ऐं ह्रीं क्लीं नमः – शिखायै वषट् । ॐ ऐं ह्रीं क्लीं नमः – कवचाय हुम् । ॐ ऐं ह्रीं क्लीं नमः – नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं क्लीं नमः – अस्त्राय फट् । इति सारस्वतो जाड्यविनाशको द्वितीयः । ॐ ह्रीं ब्राह्मी पूर्वस्यां मां पातु । ॐ ह्रीं माहेश्वरी आग्नेय्यां मां पातु । ॐ ह्रीं कौमारी दक्षिणस्यां मां पातु । ॐ ह्रीं वैष्णवी नैर्ऋत्यां मां पातु । ॐ ह्रीं वाराही पश्चिमायां मां पातु । ॐ ह्रीम् इन्द्राणी वायव्यां मां पातु । ॐ ह्रीं चामुण्डा उत्तरस्यां मां पातु । ॐ ह्रीं महालक्ष्मी ऐशान्यां मां पातु । ॐ ह्रीं योनेश्वरी ऊर्ध्वां मां पातु । ॐ ह्रीं सप्तद्वीपेश्वरी भूमौ मां पातु । ॐ ह्रीं कामेश्वरी पाताले मां पातु । इति मातृगणन्यासस्त्रैलोक्यविजयप्रदस्तृतीयः । ॐ कमलाङ्कुशमण्डिता नन्दजा पूर्वाङ्गं मे पातु । ॐ खड्गपात्रधरा रक्तदन्तिका दक्षिणाङ्गं मे पातु । ॐ पुष्पपल्लवसंयुता शाकम्भरी पश्चिमाङ्गं मे पातु । ॐ धनुर्बाणकरा दुर्गा वामाङ्गं मे पातु । ॐ शिरःपात्रकरा भीमा मस्तकाच्चरणावधि मां पातु । ॐ चित्रकान्तिभृद् भ्रामरी पादादिमस्तकान्तं मे पातु । इति जरामृत्युहरो नन्दजादिन्यासश्चतुर्थः । ॐ पादादिनाभिपर्यन्तं ब्रह्मा मां पातु । ॐ नाभेर्विशुद्धिपर्यन्तं जनार्दनो मां पातु । ॐ विशुद्धेर्ब्रह्मरन्ध्रान्तं रुद्रो मां पातु । ॐ हंसो मे पदद्वयं मे पातु । ॐ वैनतेयः करद्वयं मे पातु । ॐ ऋषभश्चक्षुषी मे पातु । ॐ गजाननः सर्वाङ्गं मे पातु । ॐ आनन्दमयो हरिः पराऽपरौ देहभागौ मे पातु । इति सर्वकामप्रदो ब्रह्मादिन्यासः पञ्चमः । ॐ अष्टादशभुजा लक्ष्मीर्मध्यभागं मे पातु । ॐ अष्टभुजा महासरस्वती ऊर्ध्वभागं मे पातु । ॐ दशभुजा महाकाली अधोभागं मे पातु । ॐ सिंहो हस्तद्वयं मे पातु । ॐ परहंसोऽक्षियुगं मे पातु । ॐ महिषारूढो यमः पदद्वयं मे पातु । ॐ महेशश्चण्डिकयुक्तः सर्वाङ्गं मे पातु । इति महालक्ष्म्यादिन्यासः सद्गतिप्रदः षष्ठः । ॐ ऐं नमो ब्रह्मरन्ध्रे । ॐ ह्रीं नमो दक्षिणनेत्रे । ॐ क्लीं नमो वामनेत्रे । ॐ जां नमो दक्षिणकर्णे । ॐ मुं नमो वामकर्णे । ॐ डां नमो दक्षिणनासापुटे । ॐ यैं नमो वामनासापुटे । ॐ विं नमो मुखे । ॐ चें नमो गुह्ये । इति मूलाक्षरन्यासो रोगक्षयकरः सप्तमः । ॐ चें नमो गुह्ये । ॐ विं नमो मुखे । ॐ यैं नमो वामनासापुटे । ॐ डां नमो दक्षिणनासापुटे । ॐ मुं नमो वामकर्णे । ॐ जां नमो दक्षकर्णे । ॐ क्लीं नमो वामनेत्रे । ॐ ह्रीं नमो दक्षनेत्रे । ॐ ऐं नमो ब्रह्मरन्ध्रे । इति विलोमाक्षरन्यासः सर्वदुःखनाशकोऽष्टमः । मूलमुच्चार्य । अष्टवारं व्यापकं कुर्यात् । इति देवताप्राप्तिकरो मूलव्यापको नवमः । ॐ ऐं क्लीं चामुण्डायै विच्चे – हृदयाय नमः । ॐ ऐं क्लीं चामुण्डायै विच्चे – शिरसे स्वाहा । ॐ ऐं क्लीं चामुण्डायै विच्चे – शिखायै वषट् । ॐ ऐं क्लीं चामुण्डायै विच्चे – नेत्रत्रयाय वौषट् । ॐ ऐं क्लीं चामुण्डायै विच्चे – कवचाय हुम् । ॐ ऐं क्लीं चामुण्डायै विच्चे – अस्त्राय फट् । इति मूलषडङ्गन्यासस्त्रैलोक्यवशकरो दशमः । ॐ खड्गिणी शूलिनी घोरा गदिनी चक्रिणी तथा । शङ्खिनी चापिणी बाणभुशुण्डीपरिघायुधा । सौम्या सौम्यतराऽशेषसौम्येभ्यस्त्वतिसुन्दरी । पराऽपराणां परमा त्वमेव परमेश्वरी । यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाऽखिलात्मिके । तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयते मया । यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् । सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः । विष्णुः शरीरग्रहणमहमीशान एव च । कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् । आद्यं वाग्बीजं कृष्णपरं ध्यात्वा सर्वाङ्गे विन्यसामि । ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च । प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । धारणेनात्मशूलस्य उत्तरस्यां तथेश्वरि । सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यन्तघोराणि तै रक्षांस्मांस्तथा भुवम् । खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके । करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः । द्वितीयं मायाबीजं सूर्यसदृशं ध्यात्वा सर्वाङ्गे विन्यसामि । ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते । एतत् ते वदनं सौम्यं लोचनत्रयभूषितम् । पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते । ज्वालाकरालमत्युग्रमशेषासुरसूदनम् । त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते । हिनस्ति दैत्यदेयांसि स्वनेनापूर्य या जगत् । सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव । असुरासृक्कलापङ्कचर्चितस्ते करोज्जवलः । सुखाय खड्गो भवतु चण्डिके त्वां नता वयम् । तृतीयं कामबीजं स्फटिकाभं ध्यात्वा सर्वाङ्गे विन्यसामि । इति सूक्तादिबीजत्रयन्यासः पञ्चमः सर्वारिष्टहरः सर्वाभीष्टदः सर्वरक्षाकरश्चैकादशः । अथ मूलषडङ्गन्यासः । ॐ ऐम् अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ क्लीं मध्यमाभ्यां नमः । ॐ चामुण्डायै अनामिकाभ्यां नमः । ॐ विच्चे कनिष्ठिकाभ्यां नमः । ॐ ऐं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः । ॐ ऐँ हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ क्लीं शिखायै वषट् । ॐ चामुण्डायै कवचाय हुम् । ॐ विच्चे नेत्रत्रयाय वौषट् । ॐ ऐं क्लीं चामुण्डायै विच्चे अस्त्राय फट् । ॐ ऐं नमः - शिखायाम् । ॐ ह्रीं नमः - दक्षिणनेत्रे । ॐ क्लीं नमः – वामनेत्रे । ॐ चां नमः - दक्षिणकर्णे । ॐ मुं नमः - वामकर्णे । ॐ डां नमः - दक्षिणनासायाम् । ॐ यैं नमः - वामनासायाम् । ॐ विं नमः - मुखे । ॐ चें नमः – गुह्ये । ॐ ऐं प्राच्यै नमः । ॐ ऐम् आग्नेय्यै नमः । ॐ ह्रीं दक्षिणायै नमः । ॐ ह्रीं नैर्ऋत्यै नमः । ॐ क्लीं प्रतीच्यै नमः । ॐ क्लीं वायव्यै नमः । ॐ चामुण्डायै उदीच्यै नमः । ॐ विच्चे ईशान्यै नमः । ॐ ऐं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः । ॐ ऐं क्लीं चामुण्डायै विच्चे भूम्यै नमः । अथ ध्यानम् । खड्गं चक्रगदेषुगापपरिघाञ्छूलं भुशुण्डीं शिरः- शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् । नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत् स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ।। अक्षस्रक्परशूगदेषुकुलिषं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिव महालक्ष्मीं सरोजस्थिताम् ।। घण्टाशूलहलानिशङ्खमुसले चक्रं धनुःसायकं हस्ताब्जैर्दधतीं घनान्तविकसच्छीतांशुतुल्यप्रभाम् । गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महापूर्वा- मत्रसरस्वतीमनु भजे शुम्भादिदैत्यार्दिनीम् ।। ॐ मां माये महामाये सर्वशक्तिस्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मां सिद्धिदा भव । ॐ सिद्ध्यै नमः । महासरस्वत्यादिरूपे चित्सदानन्दमये चण्डिके त्वां ब्रह्मविद्याप्राप्त्यर्थं वयं सर्वदा ध्यायामः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।


क्या इस मंत्र को सुनने के लिए दीक्षा आवश्यक है?

नहीं। दीक्षा केवल तब आवश्यक होती है जब आप मंत्र साधना करना चाहते हैं, सुनने के लिए नहीं।

लाभ प्राप्त करने के लिए बस हमारे द्वारा दिए गए मंत्रों को सुनना पर्याप्त है।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Mantras

Mantras

मंत्र

Click on any topic to open

0

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies