दुर्गा सप्तशती - सप्तशती न्यास

98.1K

Comments

yen7a

ॐ श्रीसप्तशतीस्तोत्रमालामन्त्रस्य । ब्रह्मविष्णुरुद्रा-ऋषयः । गायत्र्युष्णिगनुष्टुभश्छन्दांसि । श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः । नन्दाशाकम्भरीभीमाः शक्तयः । रक्तदन्तिकादुर्गाभ्रामर्यो बीजानि । अग्निव....

ॐ श्रीसप्तशतीस्तोत्रमालामन्त्रस्य ।
ब्रह्मविष्णुरुद्रा-ऋषयः । गायत्र्युष्णिगनुष्टुभश्छन्दांसि । श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः । नन्दाशाकम्भरीभीमाः शक्तयः । रक्तदन्तिकादुर्गाभ्रामर्यो बीजानि । अग्निवायुसूर्यास्तत्वानि । ऋग्यजुःसामवेदा ध्यानानि । सकलकामनासिद्धये श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थे जपे विनियोगः ।
ॐ खड्गिणी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।
अङ्गुष्ठाभ्यां नमः ।
ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ।
तर्जनीभ्यां नमः ।
ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी ।
मध्यमाभ्यां नमः ।
ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ।
अनामिकाभ्यां नमः ।
ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ।
कनिष्ठिकाभ्यां नमः ।
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ।
करतलकरपृष्ठाभ्यां नमः ।
ॐ खड्गिणी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।
हृदयाय नमः ।
ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ।
शिरसे स्वाहा ।
ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी ।
शिखायै वषट् ।
ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ।
कवचाय हुम् ।
ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ।
नेत्रत्रयाय वौषट् ।
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ।
अस्त्राय फट् ।
ॐ ह्रीं हृदयाय नमः । ॐ चं शिरसे स्वाहा । ॐ डिं शिखायै वषट् । ॐ कां कवचाय हुम् । ॐ यैं नेत्रत्रयाय वौषट् । ॐ ह्रीं चण्डिकायै अस्त्राय फट् ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रां नन्दायै अङ्गुष्ठाभ्यां नमः ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रीं रक्तदन्तिकायै तर्जनीभ्यां नमः ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रुं शाकम्भर्यै मध्यमाभ्यां नमः ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रैं दुर्गायै अनामिकाभ्यां नमः ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रौं भीमायै कनिष्ठिकाभ्यां नमः ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रः भ्रामर्यै करतलकरपृष्ठाभ्यां नमः ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रां नन्दायै हृदयाय नमः ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रीं रक्तदन्तिकायै शिरसे स्वाहा ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रुं शाकम्भर्यै शिखायै वषट् ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रैं दुर्गायै कवचाय हुम् ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रौं भीमायै नेत्रत्रयाय वौषट् ।
ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रः भ्रामर्यै अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
अथ ध्यानम् –
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रधरालिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ।।

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |