दुर्गा सप्तशती - सप्तशती न्यास

0:00 0:00

दुर्गा सप्तशती - सप्तशती न्यास

ॐ श्रीसप्तशतीस्तोत्रमालामन्त्रस्य । ब्रह्मविष्णुरुद्रा-ऋषयः । गायत्र्युष्णिगनुष्टुभश्छन्दांसि । श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः । नन्दाशाकम्भरीभीमाः शक्तयः । रक्तदन्तिकादुर्गाभ्रामर्यो बीजानि । अग्निवायुसूर्यास्तत्वानि । ऋग्यजुःसामवेदा ध्यानानि । सकलकामनासिद्धये श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थे जपे विनियोगः । ॐ खड्गिणी शूलिनी घोरा गदिनी चक्रिणी तथा । शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा । अङ्गुष्ठाभ्यां नमः । ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च । तर्जनीभ्यां नमः । ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी । मध्यमाभ्यां नमः । ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् । अनामिकाभ्यां नमः । ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके । करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः । कनिष्ठिकाभ्यां नमः । ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते । करतलकरपृष्ठाभ्यां नमः । ॐ खड्गिणी शूलिनी घोरा गदिनी चक्रिणी तथा । शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा । हृदयाय नमः । ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च । शिरसे स्वाहा । ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी । शिखायै वषट् । ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् । कवचाय हुम् । ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके । करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः । नेत्रत्रयाय वौषट् । ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते । अस्त्राय फट् । ॐ ह्रीं हृदयाय नमः । ॐ चं शिरसे स्वाहा । ॐ डिं शिखायै वषट् । ॐ कां कवचाय हुम् । ॐ यैं नेत्रत्रयाय वौषट् । ॐ ह्रीं चण्डिकायै अस्त्राय फट् । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रां नन्दायै अङ्गुष्ठाभ्यां नमः । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रीं रक्तदन्तिकायै तर्जनीभ्यां नमः । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रुं शाकम्भर्यै मध्यमाभ्यां नमः । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रैं दुर्गायै अनामिकाभ्यां नमः । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रौं भीमायै कनिष्ठिकाभ्यां नमः । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रः भ्रामर्यै करतलकरपृष्ठाभ्यां नमः । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रां नन्दायै हृदयाय नमः । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रीं रक्तदन्तिकायै शिरसे स्वाहा । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रुं शाकम्भर्यै शिखायै वषट् । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रैं दुर्गायै कवचाय हुम् । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रौं भीमायै नेत्रत्रयाय वौषट् । ॐ शम्भुतोजोज्ज्वलज्ज्वालामालिनि पावके ह्रः भ्रामर्यै अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । अथ ध्यानम् – विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रधरालिखेटविशिखांश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ।।


क्या इस मंत्र को सुनने के लिए दीक्षा आवश्यक है?

नहीं। दीक्षा केवल तब आवश्यक होती है जब आप मंत्र साधना करना चाहते हैं, सुनने के लिए नहीं।

लाभ प्राप्त करने के लिए बस हमारे द्वारा दिए गए मंत्रों को सुनना पर्याप्त है।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Mantras

Mantras

मंत्र

Click on any topic to open

0

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies