भूमि एवं संपत्ति प्राप्ति के लिए भू सूक्त

ॐ भूमिर्भूम्ना द्यौर्वरिणाऽन्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नाद-मन्नाद्यायादधे ॥ आऽयङ्गौः पृश्निरक्रमी दसनन्मातरंपुनः । पितरं च प्रयन्त्सुवः ॥ त्रिगंशद्धाम विराजति वाक्पतङ्गाय शिश्रिये । प्रत्यस....

ॐ भूमिर्भूम्ना द्यौर्वरिणाऽन्तरिक्षं महित्वा । उपस्थे ते
देव्यदितेऽग्निमन्नाद-मन्नाद्यायादधे ॥ आऽयङ्गौः पृश्निरक्रमी
दसनन्मातरंपुनः । पितरं च प्रयन्त्सुवः ॥ त्रिगंशद्धाम
विराजति वाक्पतङ्गाय शिश्रिये । प्रत्यस्य वह द्युभिः ॥ अस्य
प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन् महिषः सुवः ॥
यत्त्वा क्रुद्धः परोवपमन्युना यदवर्त्या । सुकल्पमग्ने तत्तव
पुनस्त्वोद्दीपयामसि ॥ यत्ते मन्युपरोप्तस्य पृथिवीमनुदध्वसे । आदित्या
विश्वे तद्देवा वसवश्च समाभरन् ॥
मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञꣳ सम् इमं दधातु ।
बृहस्पतिस् तनुताम् इमं नो विश्वे देवा इह मादयन्ताम् ॥
सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त 3 ऋषयः सप्त धाम प्रियाणि ।
सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्वा घृतेन ॥
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न इषायुषा ।
पुनर् नः पाहि विश्वतः ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्निया विश्वतस् परि ॥
लेकः सलेकः सुलेकस् ते न आदित्या आज्यं जुषाणा वियन्तु केतः सकेतः सुकेतस् ते न आदित्या आज्यं जुषाणा वियन्तु विवस्वाꣳ अदितिर् देवजूतिस् ते न आदित्या आज्यं जुषाणा वियन्तु ॥

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |