गर्भ रक्षा कवच

35.8K

Comments

vr6Gx

भगवन् देव देवेश कृपया त्वं जगत्प्रभो । वंशाख्यं कवचं ब्रूहि मह्यं शिष्याय तेऽनघ । यस्य प्रभावाद्देवेश वंशवृद्धिर्हिजायते ॥ १॥ ॥ सूर्य उवाच ॥ श‍ृणु पुत्र प्रवक्ष्यामि वंशाख्यं कवचं शुभम् । सन्तानवृद्धिः प....

भगवन् देव देवेश कृपया त्वं जगत्प्रभो ।
वंशाख्यं कवचं ब्रूहि मह्यं शिष्याय तेऽनघ ।
यस्य प्रभावाद्देवेश वंशवृद्धिर्हिजायते ॥ १॥

॥ सूर्य उवाच ॥

श‍ृणु पुत्र प्रवक्ष्यामि वंशाख्यं कवचं शुभम् ।
सन्तानवृद्धिः पठनाद्गर्भरक्षा सदा नृणाम् ॥ २॥

वन्ध्याऽपि लभते पुत्रं काकवन्ध्या सुतैर्युता ।
मृतवत्सा सुपुत्रा स्यात्स्रवद्गर्भा स्थिरप्रजा ॥ ३॥

अपुष्पा पुष्पिणी यस्य धारणाच्च सुखप्रसूः ।
कन्या प्रजा पुत्रिणी स्यादेतत् स्तोत्रप्रभावतः ॥ ४॥

भूतप्रेतादिजा बाधा या बाधा कुलदोषजा ।
ग्रहबाधा देवबाधा बाधा शत्रुकृता च या ॥ ५॥

भस्मी भवन्ति सर्वास्ताः कवचस्य प्रभावतः ।
सर्वे रोगा विनश्यन्ति सर्वे बालग्रहाश्च ये ॥ ६॥

पुर्वे रक्षतु वाराही चाग्नेय्यां चाम्बिका स्वयम् ।
दक्षिणे चण्डिका रक्षेनैरृते शववाहिनी ॥ १॥

वाराही पश्चिमे रक्षेद्वायव्याम् च महेश्वरी ।
उत्तरे वैष्णवी रक्षेत् ईशाने सिंहवाहिनी ॥ २॥

ऊर्ध्वे तु शारदा रक्षेदधो रक्षतु पार्वती ।
शाकम्भरी शिरो रक्षेन्मुखं रक्षतु भैरवी ॥ ३॥

कण्ठं रक्षतु चामुण्डा हृदयं रक्षतात् शिवा ।
ईशानी च भुजौ रक्षेत् कुक्षिं नाभिं च कालिका ॥ ४ ॥

अपर्णा ह्युदरं रक्षेत्कटिं वस्तिं शिवप्रिया ।
ऊरू रक्षतु कौमारी जया जानुद्वयं तथा ॥ ५॥

गुल्फौ पादौ सदा रक्षेद्ब्रह्माणी परमेश्वरी ।
सर्वाङ्गानि सदा रक्षेद्दुर्गा दुर्गार्तिनाशनी ॥ ६॥

नमो देव्यै महादेव्यै दुर्गायै सततं नमः ।
पुत्रसौख्यं देहि देहि गर्भरक्षां कुरुष्व मे ॥ ७॥

ॐ ह्रीं ह्रीं ह्रीं श्रीं श्रीं श्रीं ऐं ऐं ऐं महाकाली महालक्ष्मी महासरस्वतीरूपायै नवकोटिमूर्त्यै दुर्गायै नमः ॥ ८॥

ॐ ह्रीं ह्रीं ह्रीं दुर्गे दुर्गार्तिनाशिनी सन्तानसौख्यं देहि देहि वन्ध्यत्वं मृतवत्सत्वं च हर हर गर्भरक्षां कुरु कुरु सकलां बाधां कुलजां बाह्यजां कृतामकृतां च नाशय नाशय सर्वगात्राणि रक्ष रक्ष गर्भं पोषय पोषय सर्वोपद्रवं शोषय शोषय स्वाहा ॥ ९॥

अनेन कवचेनाङ्गं सप्तवाराभिमन्त्रितम् ।
ऋतुस्नाता जलं पीत्वा भवेत् गर्भवती ध्रुवम् ॥ १॥

गर्भपातभये पीत्वा दृढगर्भा प्रजायते ।
अनेन कवचेनाथ मार्जिताया निशागमे ॥ २॥

सर्वबाधाविनिर्मुक्ता गर्भिणी स्यान्न संशयः ।
अनेन कवचेनेह ग्रथितं रक्तदोरकम् ॥ ३॥

कटिदेशे धारयन्ती सुपुत्रसुखभागिनी ।
असूतपुत्रमिन्द्राणी जयन्तं यत्प्रभावतः ॥ ४॥

गुरूपदिष्टं वंशाख्यं तदिदं कवचं सखे ।
गुह्याद्गुह्यतरं चेदं न प्रकाश्यं हि सर्वतः ।

धारणात् पठनाद्यस्य वंशच्छेदो न जायते ॥ ५ ॥

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |