
अस्य श्रीसुब्रह्मण्यपञ्चदशाक्षरमहामन्त्रस्य -
ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीसुब्रह्मण्यो देवता ।
ॐ श्रीं ह्रीं क्लीं इति बीजम् । शरवणभव इति शक्तिः ।
ॐ ऐं ईं नं ळं सौः इति कीलकम् ।
श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ।
न्यासः
ॐ श्रीं ह्रीं क्लीं - अङ्गुष्ठाभ्यां नमः ।
ॐ ऐं ईं नं ळं सौः - तर्जनीभ्यां नमः ।
शरवणभव - मध्यमाभ्यां नमः ।
ॐ श्रीं ह्रीं क्लीं - अनामिकाभ्यां नमः ।
ऐं ईं नं ळं सौः - कनिष्ठिकाभ्यां नमः ।
शरवणभव - करतलकरपृष्ठाभ्यां नमः ।
ॐ श्रीं ह्रीं क्लीं - हृदयाय नमः ।
ॐ ऐं ईं नं ळं सौः - शिरसे स्वाहा ।
शरवणभव - शिखायै वषट् ।
ॐ श्रीं ह्रीं क्लीं - कवचाय हुं ।
ऐं ईं नं ळं सौः - नेत्रत्रयाय वौषट् ।
शरवणभव - अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम्-
सिन्दूरारुणमिन्दु पद्मजयिभिः षड्भिर्मुखैर्भासितं
कारुण्यामृतपूर सुन्दरतरैर्भान्तं द्विषल्लोचनैः ।
बिभ्राणं वरमब्जयुग्ममभयं शक्तिद्वयं कार्मुकं
खड्गं चर्म पृषत्कमङ्कुशगदे वल्लीशमीक्षे हृदि ॥
मानसपूजा -
वं अबात्मने जलं कल्पयामि ।
लं पृथिव्यात्मनेकल्पयामि ।
हं आकाशात्मने पुष्पं कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ।
मूलमन्त्रः -
ॐ श्रीं ह्रीं क्लीं, ऐं ईं नं ळं सौं, शरवणभव ।
ध्यानम्-
सिन्दूरारुणमिन्दु पद्मजयिभिः षड्भिर्मुखैर्भासितं
कारुण्यामृतपूर सुन्दरतरैर्भान्तं द्विषल्लोचनैः ।
बिभ्राणं वरमब्जयुग्ममभयं शक्तिद्वयं कार्मुकं
खड्गं चर्म पृषत्कमङ्कुशगदे वल्लीशमीक्षे हृदि ॥
मानसपूजा -
वं अबात्मने जलं कल्पयामि ।
लं पृथिव्यात्मनेकल्पयामि ।
हं आकाशात्मने पुष्पं कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ।
उत्तरन्यासः
ॐ श्रीं ह्रीं क्लीं - अङ्गुष्ठाभ्यां नमः ।
ॐ ऐं ईं नं ळं सौः - तर्जनीभ्यां नमः ।
शरवणभव - मध्यमाभ्यां नमः ।
ॐ श्रीं ह्रीं क्लीं - अनामिकाभ्यां नमः ।
ऐं ईं नं ळं सौः - कनिष्ठिकाभ्यां नमः ।
शरवणभव - करतलकरपृष्ठाभ्यां नमः ।
ॐ श्रीं ह्रीं क्लीं - हृदयाय नमः ।
ॐ ऐं ईं नं ळं सौः - शिरसे स्वाहा ।
शरवणभव - शिखायै वषट् ।
ॐ श्रीं ह्रीं क्लीं - कवचाय हुं ।
ऐं ईं नं ळं सौः - नेत्रत्रयाय वौषट् ।
शरवणभव - अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ।
ॐ नमो भगवते रुद्रकुमाराय, षडाननाय, शक्तिहस्ताय, अष्टादश लोचनाय, शिखामणिप्रलङ्कृताय, क्रौञ्चगिरिमर्दनाय, तारकासुरमारणाय, ॐ-श्रीं-ऐं-क्लीं-ह्रीं-हुं-फट्- स्वाहा ॥ १॥
ॐ नमो भगवते गौरीसुताय, अघोररूपाय, उग्ररूपाय, आकाशस्वरूपाय, शरवणभवाय, शक्तिशूलगदापरशुहस्ताय, पाशाङ्कुश - तोमर - बाण - मुसलधराय, अनेक शस्त्रालङ्कृताय, ॐ श्री सुब्रह्मण्याय, हार - नूपुर - केयूर - कनक - कुण्डल - मेखलात्यनेक सर्वाभरणालङ्कृताय, सदानन्द शरीराय, सकल रुद्रगणसेविताय, सर्वलोकवशङ्कराय, सकल भूतगण सेविताय, ॐ-रं-नं-ळं स्कन्दरूपाय, सकल मन्त्रगण सेविताय, गङ्गापुत्राय, शाकिनी - डाकिनी - भूत - प्रेत - पिशाचगणसेविताय, असुरकुल नाशनाय, ॐ-श्रीं-ऐं-क्लीं-ह्रीं-हुं-फट् स्वाहा ॥ २॥
ॐ नमो भगवते तेजोरूपाय, भूतग्रह, प्रेतग्रह, पिशाचग्रह, यक्षग्रह, राक्षसग्रह, वेतालग्रह, भैरवग्रह, असुरग्रह, सर्वग्रहान् आकर्षय
आकर्षय, बन्धय बन्धय, सन्त्रासय सन्त्रासय, आर्पाटय आर्पाटय, छेदय छेदय, शोषय शोषय, बलेन प्रहारय प्रहारय, सर्वग्रहान् मारय मारय, ॐ श्रीं-क्लीं-ह्रीं परमन्त्र, परतन्त्र, परयन्त्र, परविद्या बन्धनाय, आत्म मन्त्र, आत्म तन्त्र, आत्म विद्या प्रकटनाय, पर विद्याच्छेदनाय, आत्मविद्या स्थापनाय, ॐ-श्रीं-क्लीं-ह्रीं-हुं-फट् स्वाहा ॥ ३॥
ॐ नमो भगवते महाबलपराक्रमाय मां रक्ष रक्ष, ॐ आवेशय आवेशय, ॐ शरवणभवाय, ॐ-श्रीं-क्लीं-सौः ऐं सर्वग्रहान् मम वशीकरणं कुरु कुरु, सर्वग्रहं छिन्दि छिन्दि, सर्वग्रहं मोहय मोहय, आकर्षय आकर्षय, आवेशय आवेशय, उच्चाटय उच्चाटय,
सर्वग्रहान् मम वशीकरणं कुरु कुरु, ॐ-सौः रं-ळं- एकाह्निक, द्वयाह्निक, त्रयाह्निक, चातुर्थिक, पञ्चमज्वर, षष्ठमज्वर, सप्तमज्वर, अष्टमज्वर, नवमज्वर, महाविषमज्वर, सन्निपादज्वर, ब्रह्मज्वर, विष्णुज्वर, यक्षज्वर, सकलज्वर, हतं कुरु कुरु । समस्तज्वरं उच्चाटय उच्चाटय, भेदेन प्रहारय प्रहारय, ॐ-श्रीं-क्लीं-ह्रीं-हुं-फट्-स्वाहा ॥ ४॥
ॐ नमो भगवते द्वादशभुजाय, तक्षकानन्त - कार्कोटक - शङ्ख - महाशङ्ख - पद्म - महापद्म - वासुकी - गुलिक - महागुलिकादीन् समस्तविषं नाशय नाशय, उच्चाटय उच्चाटय, राजवश्यं - भूतवश्यं - अस्त्रवश्यं - पुरुषवश्यं - मृगसर्प वश्यं - सर्व वशीकरंण कुरु कुरु ।
जपेन मां रक्ष रक्ष, ॐ शरवणभव, ॐ श्रीं-क्लीं वशीकरणं कुरु कुरु, ॐ शरवणभव ॐ - ऐं आकर्षय आकर्षय, ॐ शरवणभव ॐ स्तम्भय स्तम्भय, ॐ शरवणभव ॐ सम्मोहय सम्मोहय, ॐ शरवणभव ॐ - रं मारय मारय, ॐ शरवणभव ॐ-ऐं-ळं उच्चाटय उच्चाटय, ॐ शरवणभव ॐ - श्रीं विद्वेषय विद्वेषय, वात-पित्त श्लेष्माऽऽदि व्याधीन् नाशय नाशय, सर्व शत्रून् हन हन, सर्व दुष्टान्
सन्त्रासय, सन्त्रासय, मम साधून् पालय पालय, मां रक्ष रक्ष, अग्निमुखं - जलमुखं - बाणमुखं - सिंहमुखं - व्याघ्रमुखं - सर्पमुखं - सेनामुखं स्तम्भय स्तम्भय, बन्धय बन्धय, शोषय शोषय, मोहय मोहय, श्रीम्बलं छेदय छेदय, बन्धय बन्धय जपेन प्रहारय प्रहारय, ॐ-श्रीं-क्लीं-ह्रीं-हुं-हुं-फट् स्वाहा ॥ ५॥
ॐ नमो भगवते महाबल पराक्रमाय, कालभैरव - कपालभैरव - क्रोधभैरव - उद्दण्ड भैरव - मार्ताण्ड भैरव - संहारभैरव - समस्त भैरवान् उच्चाटय उच्चाटय, बन्धय बन्धय, जपेन प्रहारय प्रहारय, ॐ - श्रीं त्रोटय त्रोटय, ॐ - नं दीपय दीपय, ॐ - ईं सन्तापय सन्तापय, ॐ श्रीं उन्मत्तय उन्मत्तय, ॐ-श्रीं-ह्रीं-क्लीं-ऐं-ईं-ळं-सौः पाशुपतास्त्र, नारायणास्त्र, सुब्रह्मण्यास्त्र, इन्द्रास्त्र, आग्नेयास्त्र, ब्रह्मास्त्र, याम्यास्त्र, वारुणास्त्र, वायव्यास्त्र, कुबेरास्त्र, ईशानास्त्र, अन्धकारास्त्र, गन्धर्वास्त्र, असुरास्त्र, गरुडास्त्र, सर्पास्त्र, पर्वतास्त्र, अश्वास्त्र, गजास्त्र, सिंहास्त्र, मोहनास्त्र, भैरवास्त्र, मायास्त्र, सर्वास्त्रान् नाशय नाशय, भक्षय भक्षय, उच्चाटय उच्चाटय, ॐ श्रीं-क्लीं-ह्रीं चित्तरोग,श्वेतरोग, कुष्ठरोग, अपस्माररोग, भक्षरोग, बहुमूत्ररोग, प्रमेहरोग, ग्रन्थिरोग, महोदर, रक्तक्षय, सर्वरोग, श्वेतकुष्ठ, पाण्डुरोग, अति सर्वरोग, मूत्रकृच्छ्र, गुल्मरोग, सर्वरोगान् हन हन, उच्चाटय उच्चाटय, सर्वरोगान् नाशय नाशय,
ॐ-ळं-सौः हुं-फट् स्वाहा ॥ ६॥
मक्षिका - मशका - मद्गु - पिपीलिका - मूषिक - मार्जालीय - श्येन - गृध्र -वायस दुष्ट पक्षि दोषान् नाशय नाशय । दुष्ट जन्तून् नाशय नाशय, ॐ श्रीं-ऐं-क्लीं-ह्रीं-ईं-नं-ळं-सौः शरवणभव हुं फट् स्वाहा ॥
तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात्।
अस्य श्रीसुब्रह्मण्य षडक्षरमहामन्त्रस्य -
अगस्त्यः ऋषिः । अनुष्टुप्छन्दः । सुब्रह्मण्यो देवता । वं बीजं, नमः शक्तिः,
वचद्भुवे कीलकम् । श्रीसुब्रह्मण्य प्रीत्यर्थे जपे विनियोगः ॥
करन्यासः -
वां अङ्गुष्ठाभ्यां नमः ।
वीं तर्जनीभ्यां नमः ।
वूं मध्यमाभ्यां नमः ।
वैं अनामिकाभ्यां नमः ।
वौं कनिष्ठिकाभ्यां नमः ।
वः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः -
ॐ हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ऐं शिखायै वषट् ।
क्लीं कवचाय हुम् ।
ॐ नेत्रत्रयाय वौषट् ।
ह्सौं अस्त्राय फट् ॥
ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः ।
ध्यानम् -
सिन्धूरारुणमिन्दु कान्तिवदनं केयूरहारदिभिः
दिव्यैराभरणै - र्विभूषिततनुं स्वर्गस्थसौख्यप्रदम् ।
अम्भोजाभयशक्ति कुक्कुटधरं रक्ताङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥
मानसपूजा -
वं अबात्मने जलं कल्पयामि ।
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पं कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ।
मूलमन्त्रः -
ॐ वचद्भुवे नमः
ध्यानम् -
सिन्धूरारुणमिन्दु कान्तिवदनं केयूरहारदिभिः
दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्थसौख्यप्रदम् ।
अम्भोजाभय शक्तिकुक्कुटधरं रक्ताङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥
मानसपूजा -
वं अबात्मने जलं कल्पयामि ।
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पं कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ।
करन्यासः -
वां अङ्गुष्ठाभ्यां नमः ।
वीं तर्जनीभ्यां नमः ।
वूं मध्यमाभ्यां नमः ।
वैं अनामिकाभ्यां नमः ।
वौं कनिष्ठिकाभ्यां नमः ।
वः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः -
ॐ हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ऐं शिखायै वषट् ।
क्लीं कवचाय हुम् ।
ॐ नेत्रत्रयाय वौषट् ।
ह्सौं अस्त्राय फट् ॥
ह्रीं भूर्भुवस्सुवरों इति दिग्विमोकः ।
No. Initiation is required only if you want to do mantra sadhana, not for listening. You just have to listen to the mantras we provide to get benefited.
Astrology
Bhagavad Gita
Bhagavatam
Bharat Matha
Devi
Devi Mahatmyam
Ganapathy
Garuda Puranam
Glory of Venkatesha
Hanuman
Kathopanishad
Mahabharatam
Mantra Shastra
Mystique
Practical Wisdom
Purana Stories
Radhe Radhe
Ramayana
Rare Topics
Rigveda Explained
Rituals
Sages and Saints
Shiva
Spiritual books
Sri Suktam
Story of Sri Yantra
Temples
Vedas
Vishnu Sahasranama
Yoga Vasishta