दुर्गा सप्तशती - मूर्ति रहस्य

0:00 0:00

दुर्गा सप्तशती - मूर्ति रहस्य

अथ मूर्तिरहस्यम् । ऋषिरुवाच । नन्दा भगवती नाम या भविष्यति नन्दजा । सा स्तुता पूजिता ध्याता वशीकुर्याज्जगत्त्रयम् । कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा । देवी कनकवर्णाभा कनकोत्तमभूषणा । कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा । इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना । या रक्तदन्तिका नाम देवी प्रोक्ता मयाऽनघ । तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभयाऽपहम् । रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा । रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा । रक्ततीक्ष्णनखा रक्तदशना रक्तष्ट्रिका । पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम् । वसुधेव विशाला सा सुमेरुयुगलस्तनी । दीर्घौ लम्बावतिस्थूलौ तावतीव मनोहरौ । कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी । भक्तान् सम्पाययेद्देवीसर्वकामदुघौ स्तनौ । खड्गपात्रं च मुसलं लाङ्गलं च बिभर्ति सा । आख्याता रक्तचामुण्डा देवी योगेश्ववरीति च । अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् । इमां यः पूजयेद्भक्त्या स व्याप्नोति चराऽचरम् । अधीते य इमं नित्यं रक्तदन्त्यावपुःस्तवम् । तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना । शाकम्भरी नीलवर्णा नीलोत्पलविलोचना । गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी । सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी । मुष्टिं शिलीमुखैः पूर्णं कमलं कमलालया । पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्चयम् । काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युजराऽपहम् । कार्मुकं च स्फुरत्कान्तिबिभ्रति परमेश्वरी । शाकम्भरी शताक्षी स्यात् सैव दुर्गा प्रकीर्तिता । शाकम्भरीं स्तुवन् ध्यायन् जपन् सम्पूजयन् नमन् । अक्षय्यमश्नुते शीघ्रमन्नपानादि सर्वशः । भीमाऽपि नीलवर्णा सा दंष्ट्रादशनभासुरा । विशाललोचना नारी वृत्तपीनघनस्तनी । चन्द्रहासं च डमरुं शिरःपात्रं च बिभ्रती । एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता । तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् । चित्रभ्रमरसङ्काशा महामारीति गीयते । इत्येता मूर्तयो देव्या व्याख्याता वसुधाधिप । जगन्मातुश्चण्डिकायाः कीर्तिताः कामधेनवः । इदं रहस्यं परमं न वाच्यं यस्य कस्यचित् । व्याख्यानं दिव्यमूर्तीनामभीश्वावहितः स्वयम् । देव्या ध्यानं तवाऽऽख्यातं गुह्याद्गुह्यतरं महत् । तस्मात् सर्वप्रयत्नेन सर्वं कामफलप्रदम् । मार्कण्डेयपुराणेऽखिलांशे मूर्तिरहस्यम् । ॐ श्रीं ह्रीं क्लीं सप्तशतिचण्डिके उत्कीलनं कुरु कुरु स्वाहा।


क्या इस मंत्र को सुनने के लिए दीक्षा आवश्यक है?

नहीं। दीक्षा केवल तब आवश्यक होती है जब आप मंत्र साधना करना चाहते हैं, सुनने के लिए नहीं।

लाभ प्राप्त करने के लिए बस हमारे द्वारा दिए गए मंत्रों को सुनना पर्याप्त है।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Mantras

Mantras

मंत्र

Click on any topic to open

0

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies