रक्ताङ्गं रक्तवस्त्रं सितकुसुमगणैः पूजितं रक्तगन्धैः
क्षीराब्धौ रत्नपीठे सुरतरुविमले रत्नसिंहासनस्थम्।
दोर्भिः पाशाङ्कुशेष्टा- भयधरमतुलं चन्द्रमौलिं त्रिणेत्रं
ध्याये्छान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम्।
स्मरामि देवदेवेशं वक्रतुण्डं महाबलम्।
षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये।
एकाक्षरं ह्येकदन्तमेकं ब्रह्म सनातनम्।
एकमेवाद्वितीयं च नमामि ऋणमुक्तये।
महागणपतिं देवं महासत्त्वं महाबलम्।
महाविघ्नहरं शम्भोर्नमामि ऋणमुक्तये।
कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम्।
कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये।
रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम्।
रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये।
पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् ।
पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये।
धूम्राम्बरं धूम्रवर्णं धूम्रगन्धानुलेपनम् ।
होमधूमप्रियं देवं नमामि ऋणमुक्तये।
फालनेत्रं फालचन्द्रं पाशाङ्कुशधरं विभुम्।
चामरालङ्कृतं देवं नमामि ऋणमुक्तये।
इदं त्वृणहरं स्तोत्रं सन्ध्यायां यः पठेन्नरः।
गणेशकृपया शीघ्रमृणमुक्तो भविष्यति।
गरुड गमन तव
गरुडगमन तव चरणकमलमिह मनसि लसतु मम नित्यम्। मम तापमपाकुर....
Click here to know more..प्रज्ञा संवर्द्धन सरस्वती स्तोत्र
या प्रज्ञा मोहरात्रिप्रबलरिपुचयध्वंसिनी मुक्तिदात्री....
Click here to know more..श्री सूक्त - धन के लिए मंत्र
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् चन्द्रां हिरण्म....
Click here to know more..