शुचिव्रतं दिनकरकोटिविग्रहं
बलन्धरं जितदनुजं रतप्रियम्।
उमासुतं प्रियवरदं सुशङ्करं
नमाम्यहं विबुधवरं गणेश्वरम्।
वनेचरं वरनगजासुतं सुरं
कवीश्वरं नुतिविनुतं यशस्करम्।
मनोहरं मणिमकुटैकभूषणं
नमाम्यहं विबुधवरं गणेश्वरम्।
तमोहरं पितृसदृशं गणाधिपं
स्मृतौ गतं श्रुतिरसमेककामदम्।
स्मरोपमं शुभफलदं दयाकरं
नमाम्यहं विबुधवरं गणेश्वरम्।
जगत्पतिं प्रणवभवं प्रभाकरं
जटाधरं जयधनदं क्रतुप्रियं
नमाम्यहं विबुधवरं गणेश्वरम्।
धुरन्धरं दिविजतनुं जनाधिपं
गजाननं मुदितहृदं मुदाकरम्।
शुचिस्मितं वरदकरं विनायकं
नमाम्यहं विबुधवरं गणेश्वरम्।
वरदराज स्तोत्र
श्रीदेवराजमनिशं निगमान्तवेद्यं यज्ञेश्वरं विधिमहेन्....
Click here to know more..गणेश मंगल स्तुति
परं धाम परं ब्रह्म परेशं परमीश्वरम्। विघ्ननिघ्नकरं शान....
Click here to know more..दुश्मन को हराने का टोटका
ॐ पूर्व- कपि-मुखाय पंचमुख हनुमते टं टं टं टं टं सकल- शत्रुस....
Click here to know more..