पुराणपुरुषं देवं नानाक्रीडाकरं मुदा।
मायाविनं दुर्विभाग्यं मयूरेशं नमाम्यहम्।
परात्परं चिदानन्दं निर्विकारं हृदिस्थितम्।
गुणातीतं गुणमयं मयूरेशं नमाम्यहम्।
सृजन्तं पालयन्तं च संहरन्तं निजेच्छया।
सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम्।
नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम्।
नानायुधधरं भक्त्या मयूरेशं नमाम्यहम्।
इन्द्रादिदेवतावृन्दैर- भिष्टतमहर्निशम्।
सदसद्वक्तमव्यक्तं मयूरेशं नमाम्यहम्।
सर्वशक्तिमयं देवं सर्वरूपधरं विभुम्।
सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम्।
पार्वतीनन्दनं शम्भोरानन्द- परिवर्धनम्।
भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम्।
मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम्।
समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम्।
सर्वज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम्।
सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम्।
अनेककोटि- ब्रह्माण्डनायकं जगदीश्वरम्।
अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम्।
इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम्।
कारागृहगतानां च मोचनं दिनसप्तकात्।
आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम्।
विंध्येश्वरी स्तोत्र
निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डनीम्। वने रणे प....
Click here to know more..काली अष्टोत्तर शतनामावली
ॐ कोकनदप्रियायै नमः। ॐ कान्तारवासिन्यै नमः। ॐ कान्त्यै ....
Click here to know more..बड़ों के पैर क्यों छूते हैं