वास्तु दोष निवारण के लिए वेद मंत्र

ॐ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् । हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ।। लम् इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो इन्द्र । स्वां दिशं रक्ष । इमं स्थानं....

ॐ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ।।
लम् इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो इन्द्र । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । पूर्वदिग्भागे इन्द्रः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ अग्निर्दा द्रविणं वीरपेशा अग्निर्ऋषिं यः सहस्रा तनोति ।
अग्निर्दिवि हव्यमाततानाग्नेर्धामानि विभृता पुरुत्रा ।
रम् अग्नये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो अग्ने । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । आग्नेयदिग्भागे अग्निः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ यमो दाधार पृथिवीं यमो विश्वमिदं जगत् ।
यमाय सर्वमित्रस्थे यत् प्राणद्वायुरक्षितम् ।
मं यमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो यम । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । दक्षिणदिग्भागे यमः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ असुन्वन्तमयजमानमिच्छ स्तेनस्तेत्यां तस्करस्यान्वेषि ।
अन्यमस्मदिच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यमस्तु ।
क्षं निर्ऋतये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो निर्ऋते । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । निर्ऋतिदिग्भागे निर्ऋतिः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ सधमादो द्युम्निनीरूर्ज एता अनिभृष्टा अपस्युवो वसानः ।
पस्त्यासु चक्रे वरुणः सधस्तमपां शिशुर्मातृतमाः स्वन्तः ।
वं वरुणाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो वरुण । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । पश्चिमदिग्भागे वरुणः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ आनो नियुद्भिः शतिनीभिरध्वरम् । सहस्रिणीभिरुप याहि यज्ञम् ।
वायो अस्मिन् हविषि मादयस्व । यूयं पात स्वस्तिभिः सदा नः ।
यं वायवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो वायो । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । वायव्यदिग्भागे वायुः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ सोमो धेनुं सोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु ।
सादन्यं विदथ्यं सभेयम् । पितुश्रपणं यो ददाशदस्मै ।
सं सोमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो सोम । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । उत्तरदिग्भागे सोमः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ सहस्राणि सहस्रधा बाहुवोस्तव हेतयः ।
तासामीशानो भगवः पराचीना मुखा कृधि ।
शं ईशानाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो ईशान । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । ऐशान्यदिग्भागे ईशानः सुप्रीतः सुप्रसन्नो वरदो भवतु ।

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |