ब्रह्म सूक्त

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् । विसीम॒तस्सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः । स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् । अन्तरि॑क्षं वि॒श्वरूप॒ आवि॑वेश । तम॒र्कैर॒....

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् । विसीम॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः । स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ।
पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् । अन्तरि॑क्षं वि॒श्वरूप॒ आवि॑वेश ।
तम॒र्कैर॒भ्य॑र्चन्ति व॒त्सम् । ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्धय॑न्तः ।
ब्रह्म॑ दे॒वान॑जनयत् । ब्रह्म॒ विश्व॑मि॒दं जग॑त् ।
ब्रह्म॑णः क्ष॒त्रन्निर्मि॑तम् । ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ।
अ॒न्तर॑स्मिन्ने॒मे लो॒काः । अ॒न्तर्विश्व॑मि॒दं जग॑त् ।
ब्रह्मै॒व भू॒तानां॒ ज्येष्ठम्᳚ । तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् ।
ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिꣳशत् । ब्रह्म॑न्निन्द्रप्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ । ना॒वीवा॒न्तः स॒माहि॑ता ।
चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नयः॑ । इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन् ।
घृ॒तं पिन्व॑न्न॒जरꣳ॑ सु॒वीरम्᳚ । ब्रह्म॑स॒मिद्भ॑व॒त्याहु॑तीनाम् ।

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |