नाग दोष निवारण मंत्र

ब्रह्मलोके च ये सर्पा ये च शेषपुरस्सराः नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा विष्णुलोके च ये सर्पा वासुकिप्रमुखाश्च ये नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा इन्द्रलोके च ये सर्पास्तक्षकप्रमुखाश्च ये नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा खाण्डवस्य तथा दाहे स्वर्गं ये च समाश्रिताः नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा सर्पसत्रे च ये नागा आस्तिकेन च रक्षिताः नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा यमलोके च ये सर्पाः कार्कोटकमुखाश्च ये नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा धर्मलोके च ये सर्पा वैतरण्यां सदा स्थिताः नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा समुद्रमथने सर्पा मन्दराद्रिं समाश्रिताः नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा ये सर्पाः पार्वतीयेषु दरीसिन्धुषु संस्थिताः नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा ग्रामे वा यदि वाऽरण्ये ये सर्पाः प्रचरन्ति हि नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा रसातले च ये सर्पा अनन्ताद्या महाबलाः नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा

क्या इस मंत्र को सुनने के लिए दीक्षा आवश्यक है?

नहीं। दीक्षा केवल तब आवश्यक होती है जब आप मंत्र साधना करना चाहते हैं, सुनने के लिए नहीं।

लाभ प्राप्त करने के लिए बस हमारे द्वारा दिए गए मंत्रों को सुनना पर्याप्त है।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Mantras

Mantras

मंत्र

Click on any topic to open

0

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies