श्रीगणेशायनमः ॥ अथ कवचस्थ देवता काम्यप्रयोगाः शतचंडीविधिः मंत्रविभा-- गकारिकाथ्य संगृह्यते ॥ ॥ तत्रांगषटुके श्लोकानां न्यूनाधिकभावो बहुषु पुस्तके - पलभ्यते तनिराकरणार्थं वचनानि लिख्यते ॥ तत्र कवचांशे श्लोका उक्ता दुर्गा- प्रदीपे कवचटीकायाम् ॥ आधिक्यन्यूनतादोषपरिहारचिकीर्षया ॥ देवीनाम्नां क्रमस्यापि कथनं क्रियते मया ॥ ते च श्लोकाः प्राचीनग्रंथस्थाः सांप्रदायिका एव लिख्यते ॥ दश दिकपालदेव्यश्व चामुंडा च ततः परम् ॥ जया च. विजया चैवाप्यजिता चापराजिता ॥ १ ॥ उद्योतिनी ततश्वामींना मालाघरी यशस्विनी ॥ त्रिनेत्रा यमघंटा च शांखिनी द्वारवासिनी ॥ २ ॥ कालिका शांकरी पश्चात्सुगंधा चर्चिका तथा ॥ अमृतादिकला पश्वाचतः स्यात्तुः सरस्वती ॥ ३ ॥ कौमारी चंडिका चित्रघंटा माया महादिका ॥ कामाक्ष्यनंतरं सर्वमंगला भद्रकालिका ॥ ४ ॥ धनुर्धरी नीलग्रीवा ततः स्यानलकूवरी ॥ खङ्गधाशिणिका पूर्व वज्रधारिण्यनंतरम् ॥ ५ ॥ दंडिनी चांबिका शूलेशानी यातु नलेश्वरी ॥ मनःशोकविनाशा स्याल्लुलिता शूलधारिणी ॥ ६ ॥ कामिनी गुह्यपूर्वा स्यादीश्वरी च ततः परा ॥ भूतनाथा ततः स्वातु महामहिषवाहिनी ॥ ७ ॥ भगवत्यपि विंध्यस्था महापूर्वी बला तथा ॥ विनायकी नारसिंही ततः पश्वामितौजसी ॥ ८ ॥ श्रीधर्यते च पातालवासिन्यंते करालिनी ॥ ऊर्ध्वकेशी च कौबेरी वागीशी पार्वती तथा ॥ ९ ॥ कालरात्रिश्व मुकुटेशानी पद्मवती तथा ॥ चूडामणिस्तथा ज्वालामुख्यभेव्या ततः स्मृता ॥ १० ॥ ब्रह्माणी छत्रपूर्वा स्यादीश्वरी धर्मचारिणी ॥ चक्रिणींद्रवधूवंडी महालक्ष्मी भैरवी ५११ ॥ क्षेमं पूर्वाकरी पश्वाद्विजया च जयंतिका ॥ इत्येताः सम्यगाख्याताः कवचस्थाथ्व शक्तय इति ॥ १२ ॥ कवचश्लोकसंख्या यथा ॥ कवचेस्मिन्साई पंचा- शत्संख्या श्लोकसंग्रहः ॥ इति वाराही तंत्रे ॥ अर्गलाश्लोकसंख्यांका तत्रैव ॥ त्रयोविं- यातिसंख्यानां श्लोकानामत्र संग्रह इति ॥ श्लोकाश्वतुर्दशैवात्र कीलके संप्रतिष्टिता इत्यपि तत्रैव ॥ प्राधानिकरहस्यसंख्या यथा ॥ सार्वत्रिंशत् समाख्याताः श्लोकास्त्वत्र सुसंस्कृता इति ॥ वैकृतिक रहस्यश्लोक संख्या यथा ॥ श्लोकानां चैकोनच- वारिंशत्संख्याः प्रकीर्तिता इति ॥ मूर्तिरहस्य संख्या यथा ॥ पंचविंशतिसंख्यास्तु झोका अत्र प्रकीर्तिता इति ॥ एवमुकप्रकारेण या संख्या उक्तास्ता दुर्गाप्रदीपे द्रष्ट- याः ॥ एतदतिरिक्ताः श्लोकाः प्रक्षिप्त एवेति बोध्यम् ॥ अत्र केचित् ॥ सप्तश- पठारं शापोद्धारादिकं कर्तव्यं तत्प्रकारो यथा तंत्रेषूकः ॥ त्रयोदशप्रथमो द्वादशद्वितीयौ एकादशवृतीयौ दशमचतुर्थी नठमपंचमावष्टमषष्ठावण्यायौ पठित्वा सप्त- ममध्यायं द्विः पठेदिति शापोद्धारप्रकारः ॥ उत्कीलनं यथा ॥ आदो मध्यमचरित्रं पठित्वा तत: प्रथमचरित्रं ततस्तृतीय चरित्रं पठेदिति ॥ तदुक्तम् ॥ अंत्याथार्कद्विरुद्रनि- दिगन्ध्य के विभर्तवः ॥ अश्वाश्व इति सर्गाणां शापोद्धारो मनोः क्रम इति ॥ उत्कीलने चरित्राणां मध्यात्यमिति क्रम इत्याहुः ॥ अंको नवमः ॥ इषुः पंचमः ॥ इभोष्टमः अशापोद्धारक उत्कीलनक्रमाच यद्यप्युपलभ्यते तथापि विप्रतिपर्यंते बहवः ॥ अत्रमूलं चित्यमिति तुं नागोजी भट्टाः ॥ वस्तुतस्तु एकेन वा मध्यमेन नैकेनतरयो रिहेति रहस्याभ्यायवचनेनं यस्यैकपाठावसरो नास्ति तस्य मध्यमचरित्रपाठाम्यतु- ज्ञानाचादृशस्थ पुरुषस्य पूर्वोक्तशापोद्धारोत्कीलनानुष्ठानस्यासंभवाच्चदम्यनुज्ञानं व्यर्थमेव स्याचस्माच्छापोद्धारादिकं नावश्यकमिति प्रतिभातीति गुरुचरणाः ॥ यद्यप्येवं तथापि कीलकस्तोत्रोक कृष्णायामिति श्लोकोचररीत्या प्रतिमासं दानप्रति- ग्रहाख्यकीलनं स्ववश्यं कर्तव्यमेव ॥ तदुक्तम् ॥ कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥ ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदतीति ॥ अस्यार्थः ॥ कृष्णचतु- fort कृष्णाष्टम्यां वा समाहित एकाग्रः सन्नुपासको निजं सर्वं धनं न्यायेनार्जितं देव्यै ददाति समर्पयति हे देवि इत आरम्येदं सर्वं धनं मदीयं तुभ्यं क्या दक्षमस्ति इति ॥ समर्पयति पश्वात्संसारयात्रानिर्वाहार्थं गृहाणेदं द्रव्यं मत्प्रसादभूतमिति देव्या अनुज्ञां मनसा गृहीत्वा तद्द्रव्यं प्रसादबुद्धचा प्रतिगृह्णाति गृहीत्वा च तन्मध्ये पंचमं भागं गुरवे निवेद्य तत्पुत्रादिम्यो वा दत्वावशिष्टं चतुर्थांशं स्वेन क्रियमाणपंच- महायज्ञादिधर्मव्ययायं निष्कामस्यावशिष्टं त्रिभागात्मकं स्वार्थ नियोजयेत् ॥ एवं निरंतरं प्रतिमासं कुर्वन् देव्यधीनो भवति तस्यैषा सप्तशती प्रसन्ना भवति नान्य- येति भावः ॥ अयं च कीलकस्यार्थो रहस्यागमे परमगुरुकीलकपटले प्रदर्शित: स- च गुप्तवत्यां दुर्गाप्रदीपे चोकस्तत एवावगंतव्य इति दिकू ॥ अथ वक्ष्यमाणका- म्यप्रयोगोपयोगिसंपुटव्यवस्था यथा ॥ तत्र पार्वतीप्रश्नः । देव्युवाच ॥ संपुटं कतिधा स्वामिन्वेत्तुमिच्छामि तत्त्वतः॥ कथयस्व सुरेशान ययहं तव वल्लभा ॥ ईश्वर उवाच ॥ संपुटं द्विविधं ज्ञेयमुदयास्तकरं प्रिये ॥ शृणूदयत्वमंत्रादौ पश्वादस्तं वदामि ते ॥ मंत्रमादौ पुनः लोकमंते मंत्रं पुनः पठेत् ॥ पुनर्मचं पुनः श्लोकं कमोयमुदये शुभः ॥ उदयोत्कर्षलाभायं टायमुदाहृतः ॥ अत्र सर्वत्र श्लोकमिति मंत्रोपलक्षणम् ॥ अस्तं चिकित्साशास्त्रेषु शरावाभ्यां कृतं भवेत् ॥ तचेद्दं प्रवदाम्पत्र एकाप्रकृत- मानसः ॥ यंत्रपादौ पुनः लोक मंत्र ॥ पुमंत्रं पुनः श्लोकं पुनर्मत्र- विपर्ययम् ॥ मारणोच्चाटने बंधे संपुटोयमुदाहृतः ॥ प्रकाशेयमनादृत्य कुर्वत्या- स्ममकल्पितम् । रौरवादिषु पच्यंते यावदाभूतसंप्लवमिति । अथ प्रयोगांतराणि कात्यायनीतंत्रोकानि । अस्य पुरश्चरणस्वरूपं मरीचिकल्पे | कृष्णाष्टमीं समार- भ्य घाबत्कृष्णचतुर्दशी । वृद्धचैकोसरया जाप्यं पूर्वसंपुटितं तु तत् । एवं देवि "मया प्रोकः पौरश्वरणिकः क्रमः । तदंते हवनं कुर्यात्प्रतिश्लोकेन पायसा रा- त्रिसूक्तं प्रतिऋचं तथा देव्याश्व सूक्तकम् । हुत्वांते प्रजपेत्स्तोन्त्रमादौ पूजादिकं सुने इति । पूर्वाभ्यां रात्रिसूक्तदेवीसूकाम्यां संपुटितमित्यर्थः । मंत्रविभाग्यद कात्यायनीतंत्रोकः ततो रात्रिसूकं देवीसूक्तं प्रतिचं हुत्वांते एवं पुरश्चरणांते य- 'येच्छ्रं स्तोत्रं जपेदित्यर्थः । एवं सिद्धमंत्रस्य वक्ष्यमाणकाम्यप्रयोगान् कुर्यात् । अथ काम्यप्रयोगाः । प्रतिश्लोकार्थतयोमंत्र जपेन्मत्रसिद्धिः ॥ १ ॥ सप्रणवम- नुलोमव्याहृतित्रयमादौ अंते तु विलोमं तदित्येवं प्रतिश्लोकं कृत्वा शतावृत्तिपाठे- ऽतिशीघ्रं सिद्धिः ॥ २ ॥ प्रतिश्लोकमादौ जातवेदसे सुनवाम सोमेत्युचं पठेत्सर्वका मसिद्धिः ॥ १ ॥ अपमृत्युवारणायादावंते त्र्यंबकमंत्रं पठेत् । प्रतिश्लोकमादा वैते सम्मंत्रजप इत्यन्यत्र ॥ ४ ॥ प्रतिश्लोकमादावंते शूलेन पाहि नो देवीति पाठादप- मृत्युनाशः अस्य केवलस्यापि श्लोकस्य लक्षमयुतं सहस्रं शतं वा जपेऽपमृत्युवार- णम् ॥ ५ ॥ प्रतिश्लोकमादावते शरणागतदीनार्तेति श्लोकं पठेत्सर्वकार्यसिद्धिः ॥ ॥ ६ ॥ प्रतिश्लोकमा दावंते करोतु सा नः शुभेत्यर्थं पठेत्सर्वकार्यसिद्धिः स्वाभीष्टवरप्राप्तये एवं देव्या वरं लब्ध्वेति श्लोकं प्रतिमंत्रमादावंते पठेत् ॥ ८ ॥ स- परिवारणाय प्रतिश्लोकमादावंते दुर्गेस्मृतेति पठेत् || अस्प केवलस्थापि श्लो- कस्प कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा जपः ॥ ९ ॥. सर्वाबाधेत्यस्य लक्ष- जपे प्रतिश्लोक पाठे वा श्लोकोक्तं फलम् ॥ १० ॥ इत्थं यदा यदा बाघेति श्लोक- जपे महामारीशांतिः ॥ ११ ॥ ततो वने नृपो राज्यमिति मंत्रस्य जपे प्रतिश्लो- कमादाय च पाठे वा पुनः स्वराज्यलाभः ॥ १२ ॥ हिनस्ति दैत्यतेजांखि इत्यनेन सदीपबलिदाने घंटाबंधने च बालग्रहशांतिः ॥ १३ ॥ आद्यावृचिमनुलामेन पठित्वा ततो विपरीतकमेण द्वितीयामनुलोमेन तृतीयामित्येवमावृचित्रयेण शीघ्रं कार्यसिद्धिः ॥ १४ ॥ सर्वापत्तिवारणाय दुर्गे स्मृतेत्यर्थं ततो यदंति यच्च दूरके इत्यृचं तदंते दारिषदुःखेत्यर्धमेवं कार्यनुसारेण लक्षमयुतं सहस्रं शतं वा जपः । आदावंते प्रतिश्लोकपाठे त्ववश्यं कार्यसिद्धिः ॥ १५ ॥ कांसो स्मीत्यूचं आदावंते प्रतिश्लोकं पठेल्लक्ष्मीप्राप्तिः ॥ १६ ॥ प्रतिश्लोकमनृणा अ स्मिनित्यृचं आदावते पठेदृणपरिहारः ॥ १७ ॥ मारणार्थमेवमुक्त्वा समुत्पत्त्यति श्लोकं प्रतिश्लोकमादावंते पटेम्मारणोकावृचिभिः फलसिद्धिः ॥ १८ ॥ ज

Ramaswamy Sastry and Vighnesh Ghanapaathi

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |