Rudri Paath Of Shukla Yajur Veda

ॐ नमस्ते रुद्र मन्यव उतो त इषवे नमः । बाहुभ्यामुत ते नमः ॥ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥ यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे । शिवां गिरित्रतां कुरु मा हिंसीः पुरुषं जगत् ॥ शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योः धराचीः परासुव ॥ असौ यस्ताम्रोऽरुण उत बभ्रुः सुमङ्गलः । ये चैनं रुद्रा अभितो दिक्षु श्रिताः सहस्रशोवैषां हेड अवेमहे ॥ असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥ नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्त्वानोऽहं तेभ्योऽकरं नमः ॥ प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् । याश्च ते हस्ते इषवः परा ता भगवो वप ॥ विज्यं धनुः कपर्दिनो विशल्यो बाणवानुत । अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः ॥ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिभुज ॥ परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः । अथो य ईषुधिस्तवारे अस्मन्निधेहि तम् ॥ अवतत्त्य धनुष्ट्वं सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखाः शिवो नः सुमना भव ॥ नमस्ते आयुधायानातताय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥ नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥ नमो बभ्लुशाय व्याधिनेऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥ नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥ नमः कृत्स्नायतया धावते सत्त्वनां पतये नमो नमः सहमानाय निव्याधिने आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥ नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघांसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तञ्चरद्भ्यो विकृन्तानां पतये नमः ॥ नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वायिभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्योऽस्यद्भ्यश्च वो नमः ॥ नमो विसृजद्भ्यो विध्यद्भ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमः शयानेभ्य आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमः ॥ नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमोऽश्वेभ्योऽश्वपतिभ्यश्च वो नमो नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृंहतीभ्यश्च वो नमः ॥ नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः ॥ नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो रथिभ्यो अरथेभ्यश्च वो नमो नमः क्षत्तृभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमो महद्भ्यो अर्भकेभ्यश्च वो नमः ॥ नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमो निषादेभ्यः पुञ्जिष्टेभ्यश्च वो नमो नमः श्वनिभ्यो मृगयुभ्यश्च वो नमः ॥ नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥ नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय ॥ नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृद्धे च नमोऽग्र्याय च प्रथमाय च ॥ नम आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥ नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम उर्वर्याय च खल्याय च नमो वन्याय ॥ नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥ नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥ नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥ नमो कूप्याय चावट्याय च नमो वीध्राय चातप्याय च नमो मेध्याय च विद्युत्याय च नमो वार्याय चावर्षाय च ॥ नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च ॥ नमः शङ्गवे च पशुपतये च नम उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवुधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय ॥ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥ नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय च कूल्याय च नमः शव्याय च फेन्याय च ॥ नमः सिकत्याय च प्रवाह्याय च नमः किंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम इरिण्याय च प्रपथ्याय च ॥ नमो व्रज्याय च गोष्ठ्याय च नमस्तल्प्याय च गेह्याय च नमो हृदयाय च निवेष्प्याय च नमः काट्याय च गह्वरेष्ठाय च ॥ नमः शुष्क्याय च हरित्याय च नमः पांसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्व्याय च ॥ नमः पर्णाय च पर्णशदाय च नम उद्गुरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमो नमो वः किरिकेभ्यो देवानां हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम आनिर्हतेभ्यः ॥ द्रापे अन्धसस्पते दरिद्र नीललोहित । आसां प्रजानामेषां पशूनां मा भेर्मा रोङ्मो च नः किञ्चनाममत् ॥ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः । यथा शमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥ या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी । शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥ परि नो रुद्रस्य हेति वृणक्तु त्वेषस्य दुर्मतिरघायोः । अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृड ॥ मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥ विकिरिद्र विलोहित नमस्ते अस्तु भगवः । यास्ते सहस्रं हेतयोऽन्यमस्मन्निवपन्तु ताः ॥ सहस्राणि सहस्रशो बाह्वोस्तव हेतयः । तासामीशानो भगवः पराचीना मुखा कृधि ॥ असङ्ख्याता सहस्राणि ये रुद्रा अधिभूम्याम् । तेषां सहस्रयोजनेव धन्वानि तन्मसि ॥ अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि । तेषां सहस्रयोजनेव धन्वानि तन्मसि ॥ नीलग्रीवाः शितिकण्ठाः दिवां रुद्राः उपश्रिताः । तेषां सहस्रयोजनेव धन्वानि तन्मसि ॥ नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः । तेषां सहस्रयोजनेव धन्वानि तन्मसि ॥ ये वृक्षेषु शष्पिञ्जराः नीलग्रीवाः विलोहिताः । तेषां सहस्रयोजनेव धन्वानि तन्मसि ॥ ये भूतानामधिपतयो विशिखासः कपर्दिन । तेषां सहस्रयोजनेव धन्वानि तन्मसि ॥ ये पथां पथिरक्षय ऐलबृदाः आयुर्युधः । तेषां सहस्रयोजनेव धन्वानि तन्मसि ॥ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषां सहस्रयोजनेव धन्वानि तन्मसि ॥ येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । तेषां सहस्रयोजनेव धन्वानि तन्मसि ॥ य एतावन्तश्च भूयांसश्च दिशो रुद्राः वितस्थिरे । तेषां सहस्रयोजनेव धन्वानि तन्मसि ॥ नमोऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवः । तेभ्यो दश प्राचीर्दर्श दक्षिणाः दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः । तेभ्यो नमोऽस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥ नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वातः इषवः । तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः । तेभ्यो नमोऽस्तु ते नऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥ नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः । तेभ्यो दश प्राचीर्दश दक्षिणाः दश प्रतीचीर्दशोचीर्दशोर्ध्वाः । तेभ्यो नमोऽस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥ om namaste rudra manyava uto ta ishave namah' . baahubhyaamuta te namah' .. yaa te rudra shivaa tanooraghoraa'paapakaashinee . tayaa nastanvaa shantamayaa girishantaabhichaakasheehi .. yaamishum girishanta haste bibharshyastave . shivaam giritrataam kuru maa himseeh' purusham jagat .. shivena vachasaa tvaa girishaachchhaa vadaamasi . yathaa nah' sarvamijjagadayakshmam sumanaa asat .. adhyavochadadhivaktaa prathamo daivyo bhishak . aheemshcha sarvaanjambhayantsarvaashcha yaatudhaanyoh' dharaacheeh' paraasuva .. asau yastaamro'runa uta babhruh' sumangalah' . ye chainam rudraa abhito dikshu shritaah' sahasrashovaishaam hed'a avemahe .. asau yo'vasarpati neelagreevo vilohitah' . utainam gopaa adri'shrannadri'shrannudahaaryah' sa dri'sht'o mri'd'ayaati nah' .. namo'stu neelagreevaaya sahasraakshaaya meed'hushe . atho ye asya sattvaano'ham tebhyo'karam namah' .. pramuncha dhanvanastvamubhayoraartnyorjyaam . yaashcha te haste ishavah' paraa taa bhagavo vapa .. vijyam dhanuh' kapardino vishalyo baanavaanuta . aneshannasya yaa ishava aabhurasya nishangadhih' .. yaa te hetirmeed'husht'ama haste babhoova te dhanuh' . tayaa'smaanvishvatastvamayakshmayaa paribhuja .. pari te dhanvano hetirasmaanvri'naktu vishvatah' . atho ya eeshudhistavaare asmannidhehi tam .. avatattya dhanusht'vam sahasraaksha shateshudhe . nisheerya shalyaanaam mukhaah' shivo nah' sumanaa bhava .. namaste aayudhaayaanaatataaya dhri'shnave . ubhaabhyaamuta te namo baahubhyaam tava dhanvane .. maa no mahaantamuta maa no arbhakam maa na ukshamuta maa na ukshitam . maa no vadheeh' pitaram mota maataram maa nah' priyaastanvo rudra reerishah' .. maa nastoke tanaye maa na aayushi maa no goshu maa no ashveshu reerishah' . maa no veeraan rudra bhaamino vadheerhavishmantah' sadamittvaa havaamahe .. namo hiranyabaahave senaanye dishaam cha pataye namo namo vri'kshebhyo harikeshebhyah' pashoonaam pataye namo namah' shashpinjaraaya tvisheemate patheenaam pataye namo namo harikeshaayopaveetine pusht'aanaam pataye namah' .. namo babhlushaaya vyaadhine'nnaanaam pataye namo namo bhavasya hetyai jagataam pataye namo namo rudraayaatataayine kshetraanaam pataye namo namah' sootaayaahantyai vanaanaam pataye namah' .. namo rohitaaya sthapataye vri'kshaanaam pataye namo namo bhuvantaye vaarivaskri'taayaushadheenaam pataye namo namo mantrine vaanijaaya kakshaanaam pataye namo nama uchchairghoshaayaakrandayate patteenaam pataye namah' .. namah' kri'tsnaayatayaa dhaavate sattvanaam pataye namo namah' sahamaanaaya nivyaadhine aavyaadhineenaam pataye namo namo nishangine kakubhaaya stenaanaam pataye namo namo nicherave paricharaayaaranyaanaam pataye namah' .. namo vanchate parivanchate staayoonaam pataye namo namo nishangina ishudhimate taskaraanaam pataye namo namah' sri'kaayibhyo jighaamsadbhyo mushnataam pataye namo namo'simadbhyo naktancharadbhyo vikri'ntaanaam pataye namah' .. nama ushneeshine giricharaaya kulunchaanaam pataye namo nama ishumadbhyo dhanvaayibhyashcha vo namo nama aatanvaanebhyah' pratidadhaanebhyashcha vo namo nama aayachchhadbhyo'syadbhyashcha vo namah' .. namo visri'jadbhyo vidhyadbhyashcha vo namo namah' svapadbhyo jaagradbhyashcha vo namo namah' shayaanebhya aaseenebhyashcha vo namo namastisht'hadbhyo dhaavadbhyashcha vo namah' .. namah' sabhaabhyah' sabhaapatibhyashcha vo namo namo'shvebhyo'shvapatibhyashcha vo namo nama aavyaadhineebhyo vividhyanteebhyashcha vo namo nama uganaabhyastri'mhateebhyashcha vo namah' .. namo ganebhyo ganapatibhyashcha vo namo namo vraatebhyo vraatapatibhyashcha vo namo namo gri'tsebhyo gri'tsapatibhyashcha vo namo namo viroopebhyo vishvaroopebhyashcha vo namah' .. namah' senaabhyah' senaanibhyashcha vo namo namo rathibhyo arathebhyashcha vo namo namah' kshattri'bhyah' sangraheetri'bhyashcha vo namo namo mahadbhyo arbhakebhyashcha vo namah' .. namastakshabhyo rathakaarebhyashcha vo namo namah' kulaalebhyah' karmaarebhyashcha vo namo namo nishaadebhyah' punjisht'ebhyashcha vo namo namah' shvanibhyo mri'gayubhyashcha vo namah' .. namah' shvabhyah' shvapatibhyashcha vo namo namo bhavaaya cha rudraaya cha namah' sharvaaya cha pashupataye cha namo neelagreevaaya cha shitikant'haaya cha .. namah' kapardine cha vyuptakeshaaya cha namah' sahasraakshaaya cha shatadhanvane cha namo girishayaaya cha shipivisht'aaya cha namo meed'husht'amaaya cheshumate cha namo hrasvaaya .. namo hrasvaaya cha vaamanaaya cha namo bri'hate cha varsheeyase cha namo vri'ddhaaya cha savri'ddhe cha namo'gryaaya cha prathamaaya cha .. nama aashave chaajiraaya cha namah' sheeghryaaya cha sheebhyaaya cha nama oormyaaya chaavasvanyaaya cha namo naadeyaaya cha dveepyaaya cha .. namo jyesht'haaya cha kanisht'haaya cha namah' poorvajaaya chaaparajaaya cha namo madhyamaaya chaapagalbhaaya cha namo jaghanyaaya cha budhnyaaya cha .. namah' sobhyaaya cha pratisaryaaya cha namo yaamyaaya cha kshemyaaya cha namah' shlokyaaya chaavasaanyaaya cha nama urvaryaaya cha khalyaaya cha namo vanyaaya .. namo vanyaaya cha kakshyaaya cha namah' shravaaya cha pratishravaaya cha nama aashushenaaya chaashurathaaya cha namah' shooraaya chaavabhedine cha .. namo bilmine cha kavachine cha namo varmine cha varoothine cha namah' shrutaaya cha shrutasenaaya cha namo dundubhyaaya chaahananyaaya cha .. namo dhri'shnave cha pramri'shaaya cha namo nishangine cheshudhimate cha namasteekshneshave chaayudhine cha namah' svaayudhaaya cha sudhanvane cha .. namah' srutyaaya cha pathyaaya cha namah' kaat'yaaya cha neepyaaya cha namah' kulyaaya cha sarasyaaya cha namo naadeyaaya cha vaishantaaya cha .. namo koopyaaya chaavat'yaaya cha namo veedhraaya chaatapyaaya cha namo medhyaaya cha vidyutyaaya cha namo vaaryaaya chaavarshaaya cha .. namo vaatyaaya cha reshmyaaya cha namo vaastavyaaya cha vaastupaaya cha namah' somaaya cha rudraaya cha namastaamraaya chaarunaaya cha .. namah' shangave cha pashupataye cha nama ugraaya cha bheemaaya cha namo'grevadhaaya cha doorevudhaaya cha namo hantre cha haneeyase cha namo vri'kshebhyo harikeshebhyo namastaaraaya .. namah' shambhavaaya cha mayobhavaaya cha namah' shankaraaya cha mayaskaraaya cha namah' shivaaya cha shivataraaya cha .. namah' paaryaaya chaavaaryaaya cha namah' prataranaaya chottaranaaya cha namasteerthyaaya cha koolyaaya cha namah' shavyaaya cha phenyaaya cha .. namah' sikatyaaya cha pravaahyaaya cha namah' kimshilaaya cha kshayanaaya cha namah' kapardine cha pulastaye cha nama irinyaaya cha prapathyaaya cha .. namo vrajyaaya cha gosht'hyaaya cha namastalpyaaya cha gehyaaya cha namo hri'dayaaya cha niveshpyaaya cha namah' kaat'yaaya cha gahvaresht'haaya cha .. namah' shushkyaaya cha harityaaya cha namah' paamsavyaaya cha rajasyaaya cha namo lopyaaya cholapyaaya cha nama oorvyaaya cha soorvyaaya cha .. namah' parnaaya cha parnashadaaya cha nama udguramaanaaya chaabhighnate cha nama aakhidate cha prakhidate cha nama ishukri'dbhyo dhanushkri'dbhyashcha vo namo namo vah' kirikebhyo devaanaam hri'dayebhyo namo vichinvatkebhyo namo vikshinatkebhyo nama aanirhatebhyah' .. draape andhasaspate daridra neelalohita . aasaam prajaanaameshaam pashoonaam maa bhermaa rongmo cha nah' kinchanaamamat .. imaa rudraaya tavase kapardine kshayadveeraaya prabharaamahe mateeh' . yathaa shamasadvipade chatushpade vishvam pusht'am graame asminnanaaturam .. yaa te rudra shivaa tanooh' shivaa vishvaahaa bheshajee . shivaa rutasya bheshajee tayaa no mri'd'a jeevase .. pari no rudrasya heti vri'naktu tveshasya durmatiraghaayoh' . ava sthiraa maghavadbhyastanushva meed'hvastokaaya tanayaaya mri'd'a .. meed'husht'ama shivatama shivo nah' sumanaa bhava . parame vri'ksha aayudham nidhaaya kri'ttim vasaana aachara pinaakam bibhradaagahi .. vikiridra vilohita namaste astu bhagavah' . yaaste sahasram hetayo'nyamasmannivapantu taah' .. sahasraani sahasrasho baahvostava hetayah' . taasaameeshaano bhagavah' paraacheenaa mukhaa kri'dhi .. asankhyaataa sahasraani ye rudraa adhibhoomyaam . teshaam sahasrayojaneva dhanvaani tanmasi .. asminmahatyarnave'ntarikshe bhavaa adhi . teshaam sahasrayojaneva dhanvaani tanmasi .. neelagreevaah' shitikant'haah' divaam rudraah' upashritaah' . teshaam sahasrayojaneva dhanvaani tanmasi .. neelagreevaah' shitikant'haah' sharvaa adhah' kshamaacharaah' . teshaam sahasrayojaneva dhanvaani tanmasi .. ye vri'ksheshu shashpinjaraah' neelagreevaah' vilohitaah' . teshaam sahasrayojaneva dhanvaani tanmasi .. ye bhootaanaamadhipatayo vishikhaasah' kapardina . teshaam sahasrayojaneva dhanvaani tanmasi .. ye pathaam pathirakshaya ailabri'daah' aayuryudhah' . teshaam sahasrayojaneva dhanvaani tanmasi .. ye teerthaani pracharanti sri'kaahastaa nishanginah' . teshaam sahasrayojaneva dhanvaani tanmasi .. ye'nneshu vividhyanti paatreshu pibato janaan . teshaam sahasrayojaneva dhanvaani tanmasi .. ya etaavantashcha bhooyaamsashcha disho rudraah' vitasthire . teshaam sahasrayojaneva dhanvaani tanmasi .. namo'stu rudrebhyo ye divi yeshaam varshamishavah' . tebhyo dasha praacheerdarsha dakshinaah' dasha prateecheerdashodeecheerdashordhvaah' . tebhyo namo'stu te no'vantu te no mri'd'ayantu te yam dvishmo yashcha no dvesht'i tameshaam jambhe dadhmah' .. namo'stu rudrebhyo ye'ntarikshe yeshaam vaatah' ishavah' . tebhyo dasha praacheerdasha dakshinaa dasha prateecheerdashodeecheerdashordhvaah' . tebhyo namo'stu te na'vantu te no mri'd'ayantu te yam dvishmo yashcha no dvesht'i tameshaam jambhe dadhmah' .. namo'stu rudrebhyo ye pri'thivyaam yeshaamannamishavah' . tebhyo dasha praacheerdasha dakshinaah' dasha prateecheerdashocheerdashordhvaah' . tebhyo namo'stu te no'vantu te no mri'd'ayantu te yam dvishmo yashcha no dvesht'i tameshaam jambhe dadhmah' ..

Is initiation necessary to listen to this mantra?

No. Initiation is required only if you want to do mantra sadhana, not for listening. You just have to listen to the mantras we provide to get benefited.

Ramaswamy Sastry and Vighnesh Ghanapaathi

Mantras

Mantras

Mantras

Click on any topic to open

0

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies