Rudram Of Krishna Yajur Veda

ॐ नमो भगवते रुद्राय नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः यात इषुः शिवतमा शिवं बभूव ते धनुः शिवा शरव्या या तव तया नो रुद्र मृडय या ते रुद्र शिवा तनूरघोराऽपापकाशिनी तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि यामिषुङ्गिरिशन्त हस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्र ताङ्कुरु मा हिंसीः पुरुषञ्जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगदयक्ष्मंसुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् अहींश्च सर्वाञ्जम्भयन् सर्वाश्च यातुधान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमां रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषां हेड ईमहे असौ योऽवसर्पति नीलग्रीवो विलोहितः उतैनङ्गोपा अदृशन्नदृशन्नुदहार्यः उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्वानोऽहन्तेभ्योऽकरन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् याश्च ते हस्त इषवः परा ता भगवो वप अवतत्य धनुस्त्वं सहस्राक्ष शतेषुधे निशीर्य शल्यानाम्मुखा शिवो नः सुमना भव विज्यन्धनुः कपर्दिनो विशल्यो बाणवाम् उत अनेशन्नस्येषव आभुरस्य निषङ्गथिः या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिब्भुज नमस्ते अस्त्वायुधायानातताय धृष्णवे उभाभ्यामुत ते नमो बाहुभ्यान्तव धन्वने परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहि तम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय म्रुत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्चराय त्विषीमते पथीनां पतये नमो नमो बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायातताविने क्षेत्राणां पतये नमो नमः सूतायाहन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नवीताय धावते सत्वनां पतये नमः। नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिघासद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्यधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृंहतीभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यः रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेननिभ्यश्च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यः श्वनिभ्यश्च वो नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्ध्वने च नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमः स्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम ईध्रियाय चातप्याय च नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कूल्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नम आतार्याय चालाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपथ्याय च नमः किंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेष्प्याय च नमः पांसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोऽपगुरमाणाय चाभिघ्नते च नम आख्खिदते च प्रख्खिदते च नमो वः किरिकेभ्यो देवानां हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहित एषां पुरुषाणामेषां पशूनां मा भेर्मारो मो एषाङ्किञ्चनाममत् या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी शिवा रुद्रस्य भेषजी तया नो मृड जीवसे इमां रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टङ्ग्रामे आस्मिन्ननातुरम् मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते यच्छञ्च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र रीरिष मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः वीरान्मा नो रुद्र भामितोऽवधीर्हविष्मन्तो नमसा विधेम ते आरात्ते गोघ्न उत्त पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु रक्षा च नो अधि च देव ब्रूह्यथा च नः शर्म यच्छ द्विबर्हाः स्तुहि श्रुतङ्गर्तसदं युवानं मृगन्न भीममुपहत्नुमुग्रम् मृडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय मीढुष्टम शिवतम शिवो नः सुमना भव परमे वृक्ष आयुधन्निधाय कृत्तिंवसान आचर पिनाकं बिभ्रदागहि विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रं हेतयोऽन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीना मुखा कृधि सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् तेषां सहस्रयोजनेऽवधन्वानि तन्मसि अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः नीलग्रीवाः शितिकण्ठा दिवं रुद्रा उपश्रिताः ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासः कपर्दिनः ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथां पथिरक्षय ऐलबृदा यव्युधः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयांसश्च दिशो रुद्रा वितस्थिरे तेषां सहस्रयोजनेऽवधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यन्द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु तमुष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य यक्ष्वामहे सौमनसाय रुद्रन्नमोभिर्देवमसुरन्दुवस्य अयं मे हस्तो भगवानयं मे भगवत्तरः अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानव यजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि प्राणानाङ्ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि ॐ शान्तिः शान्तिः शान्तिः om namo bhagavate rudraaya namaste rudramanyava utota ishave namah' namaste astu dhanvane baahubhyaamuta te namah' yaata ishuh' shivatamaa shivam babhoova te dhanuh' shivaa sharavyaa yaa tava tayaa no rudra mri'd'aya yaa te rudra shivaa tanooraghoraa'paapakaashinee tayaa nastanuvaa shantamayaa girishantaabhichaakasheehi yaamishungirishanta haste bibharshyastave shivaangiritra taankuru maa himseeh' purushanjagat shivena vachasaa tvaa girishaachchhaa vadaamasi yathaa nah' sarvamijjagadayakshmamsumanaa asat adhyavochadadhivaktaa prathamo daivyo bhishak aheemshcha sarvaanjambhayan sarvaashcha yaatudhaanyah' asau yastaamro aruna uta babhruh' sumangalah' ye chemaam rudraa abhito dikshu shritaah' sahasrasho'vaishaam hed'a eemahe asau yo'vasarpati neelagreevo vilohitah' utainangopaa adri'shannadri'shannudahaaryah' utainam vishvaa bhootaani sa dri'sht'o mri'd'ayaati nah' namo astu neelagreevaaya sahasraakshaaya meed'hushe atho ye asya satvaano'hantebhyo'karannamah' pramuncha dhanvanastvamubhayoraartniyorjyaam yaashcha te hasta ishavah' paraa taa bhagavo vapa avatatya dhanustvam sahasraaksha shateshudhe nisheerya shalyaanaammukhaa shivo nah' sumanaa bhava vijyandhanuh' kapardino vishalyo baanavaam uta aneshannasyeshava aabhurasya nishangathih' yaa te hetirmeed'husht'ama haste babhoova te dhanuh' tayaa'smaanvishvatastvamayakshmayaa paribbhuja namaste astvaayudhaayaanaatataaya dhri'shnave ubhaabhyaamuta te namo baahubhyaantava dhanvane pari te dhanvano hetirasmaanvri'naktu vishvatah' atho ya ishudhistavaare asmannidhehi tam namaste astu bhagavan vishveshvaraaya mahaadevaaya tryambakaaya tripuraantakaaya trikaagnikaalaaya kaalaagnirudraaya neelakant'haaya mrutyunjayaaya sarveshvaraaya sadaashivaaya shreemanmahaadevaaya namah' namo hiranyabaahave senaanye dishaancha pataye namo namo vri'kshebhyo harikeshebhyah' pashoonaam pataye namo namah' saspincharaaya tvisheemate patheenaam pataye namo namo babhlushaaya vivyaadhine'nnaanaam pataye namo namo harikeshaayopaveetine pusht'aanaam pataye namo namo bhavasya hetyai jagataam pataye namo namo rudraayaatataavine kshetraanaam pataye namo namah' sootaayaahantyaaya vanaanaam pataye namo namo rohitaaya sthapataye vri'kshaanaam pataye namo namo mantrine vaanijaaya kakshaanaam pataye namo namo bhuvantaye vaarivaskri'taayaushadheenaam pataye namo nama uchchairghoshaayaakrandayate patteenaam pataye namo namah' kri'tsnaveetaaya dhaavate satvanaam pataye namah'. namah' sahamaanaaya nivyaadhina aavyaadhineenaam pataye namo namah' kakubhaaya nishangine stenaanaam pataye namo namo nishangina ishudhimate taskaraanaam pataye namo namo vanchate parivanchate staayoonaam pataye namo namo nicherave paricharaayaaranyaanaam pataye namo namah' sri'kaavibhyo jighaasadbhyo mushnataam pataye namo namo'simadbhyo naktam charadbhyah' prakri'ntaanaam pataye namo nama ushneeshine giricharaaya kulunchaanaam pataye namo nama ishumadbhyo dhanvaavibhyashcha vo namo nama aatanvaanebhyah' pratidadhaanebhyashcha vo namo nama aayachchhadbhyo visri'jadbhyashcha vo namo namo'syadbhyo viddhyadbhyashcha vo namo nama aaseenebhyah' shayaanebhyashcha vo namo namah' svapadbhyo jaagradbhyashcha vo namo namastisht'hadbhyo dhaavadbhyashcha vo namo namah' sabhaabhyah' sabhaapatibhyashcha vo namo namo ashvebhyo'shvapatibhyashcha vo namah' nama aavyadhineebhyo vividhyanteebhyashcha vo namo nama uganaabhyastri'mhateebhyashcha vo namo namo gri'tsebhyo gri'tsapatibhyashcha vo namo namo vraatebhyo vraatapatibhyashcha vo namo namo ganebhyo ganapatibhyashcha vo namo namo viroopebhyo vishvaroopebhyashcha vo namo namo mahadbhyah' kshullakebhyashcha vo namo namo rathibhyo'rathebhyashcha vo namo namo rathebhyah' rathapatibhyashcha vo namo namah' senaabhyah' senanibhyashcha vo namo namah' kshattri'bhyah' sangraheetri'bhyashcha vo namo namastakshabhyo rathakaarebhyashcha vo namo namah' kulaalebhyah' karmaarebhyashcha vo namo namah' punjisht'ebhyo nishaadebhyashcha vo namo nama ishukri'dbhyo dhanvakri'dbhyashcha vo namo namo mri'gayubhyah' shvanibhyashcha vo namo namah' shvabhyah' shvapatibhyashcha vo namah' namo bhavaaya cha rudraaya cha namah' sharvaaya cha pashupataye cha namo neelagreevaaya cha shitikant'haaya cha namah' kapardine cha vyuptakeshaaya cha namah' sahasraakshaaya cha shatadhanvane cha namo girishaaya cha shipivisht'aaya cha namo meed'husht'amaaya cheshumate cha namo hrasvaaya cha vaamanaaya cha namo bri'hate cha varsheeyase cha namo vri'ddhaaya cha samvri'ddhvane cha namo agriyaaya cha prathamaaya cha nama aashave chaajiraaya cha namah' sheeghriyaaya cha sheebhyaaya cha nama oormyaaya chaavasvanyaaya cha namah' srotasyaaya cha dveepyaaya cha namo jyesht'haaya cha kanisht'haaya cha namah' poorvajaaya chaaparajaaya cha namo madhyamaaya chaapagalbhaaya cha namo jaghanyaaya cha budhniyaaya cha namah' sobhyaaya cha pratisaryaaya cha namo yaamyaaya cha kshemyaaya cha nama urvaryaaya cha khalyaaya cha namah' shlokyaaya chaavasaanyaaya cha namo vanyaaya cha kakshyaaya cha namah' shravaaya cha pratishravaaya cha nama aashushenaaya chaashurathaaya cha namah' shooraaya chaavabhindate cha namo varmine cha varoothine cha namo bilmine cha kavachine cha namah' shrutaaya cha shrutasenaaya cha namo dundubhyaaya chaahananyaaya cha namo dhri'shnave cha pramri'shaaya cha namo dootaaya cha prahitaaya cha namo nishangine cheshudhimate cha namasteekshneshave chaayudhine cha namah' svaayudhaaya cha sudhanvane cha namah' srutyaaya cha pathyaaya cha namah' kaat'yaaya cha neepyaaya cha namah' soodyaaya cha sarasyaaya cha namo naadyaaya cha vaishantaaya cha namah' koopyaaya chaavat'yaaya cha namo varshyaaya chaavarshyaaya cha namo meghyaaya cha vidyutyaaya cha nama eedhriyaaya chaatapyaaya cha namo vaatyaaya cha reshmiyaaya cha namo vaastavyaaya cha vaastupaaya cha namah' somaaya cha rudraaya cha namastaamraaya chaarunaaya cha namah' shangaaya cha pashupataye cha nama ugraaya cha bheemaaya cha namo agrevadhaaya cha doorevadhaaya cha namo hantre cha haneeyase cha namo vri'kshebhyo harikeshebhyo namastaaraaya namah' shambhave cha mayobhave cha namah' shankaraaya cha mayaskaraaya cha namah' shivaaya cha shivataraaya cha namasteerthyaaya cha koolyaaya cha namah' paaryaaya chaavaaryaaya cha namah' prataranaaya chottaranaaya cha nama aataaryaaya chaalaadyaaya cha namah' shashpyaaya cha phenyaaya cha namah' sikatyaaya cha pravaahyaaya cha nama irinyaaya cha prapathyaaya cha namah' kimshilaaya cha kshayanaaya cha namah' kapardine cha pulastaye cha namo gosht'hyaaya cha gri'hyaaya cha namastalpyaaya cha gehyaaya cha namah' kaat'yaaya cha gahvaresht'haaya cha namo hri'dayyaaya cha niveshpyaaya cha namah' paamsavyaaya cha rajasyaaya cha namah' shushkyaaya cha harityaaya cha namo lopyaaya cholapyaaya cha nama oorvyaaya cha soormyaaya cha namah' parnyaaya cha parnashadyaaya cha namo'paguramaanaaya chaabhighnate cha nama aakhkhidate cha prakhkhidate cha namo vah' kirikebhyo devaanaam hri'dayebhyo namo viksheenakebhyo namo vichinvatkebhyo nama aanirhatebhyo nama aameevatkebhyah' draape andhasaspate daridranneelalohita eshaam purushaanaameshaam pashoonaam maa bhermaaro mo eshaankinchanaamamat yaa te rudra shivaa tanooh' shivaa vishvaaha bheshajee shivaa rudrasya bheshajee tayaa no mri'd'a jeevase imaam rudraaya tavase kapardine kshayadveeraaya prabharaamahe matim yathaa nah' shamasaddvipade chatushpade vishvam pusht'angraame aasminnanaaturam mri'd'aa no rudrotano mayaskri'dhi kshayadveeraaya namasaa vidhema te yachchhancha yoshcha manuraayaje pitaa tadashyaama tava rudra praneetau maa no mahaantamuta maa no arbhakam maa na ukshantamuta maa na ukshitam maa no vadheeh' pitaram mota maataram priyaa maa nastanuvo rudra reerisha maanastoke tanaye maa na aayushi maa no goshu maa no ashveshu reerishah' veeraanmaa no rudra bhaamito'vadheerhavishmanto namasaa vidhema te aaraatte goghna utta poorushaghne kshayadveeraaya sumnamasme te astu rakshaa cha no adhi cha deva broohyathaa cha nah' sharma yachchha dvibarhaah' stuhi shrutangartasadam yuvaanam mri'ganna bheemamupahatnumugram mri'd'aa jaritre rudra stavaano anyante asmannivapantu senaah' parino rudrasya hetirvri'naktu pari tveshasya durmatiraghaayoh' ava sthiraa maghavadbhyastanushva meed'hvastokaaya tanayaaya mri'd'aya meed'husht'ama shivatama shivo nah' sumanaa bhava parame vri'ksha aayudhannidhaaya kri'ttimvasaana aachara pinaakam bibhradaagahi vikirida vilohita namaste astu bhagavah' yaaste sahasram hetayo'nyamasmannivapantu taah' sahasraani sahasradhaa baahuvostava hetayah' taasaameeshaano bhagavah' paraacheenaa mukhaa kri'dhi sahasraani sahasrasho ye rudraa adhi bhoomyaam teshaam sahasrayojane'vadhanvaani tanmasi asmin mahatyarnave'ntarikshe bhavaa adhi neelagreevaah' shitikant'haah' sharvaa adhah' kshamaacharaah' neelagreevaah' shitikant'haa divam rudraa upashritaah' ye vri'ksheshu saspinjaraa neelagreevaa vilohitaah' ye bhootaanaamadhipatayo vishikhaasah' kapardinah' ye anneshu vividhyanti paatreshu pibato janaan ye pathaam pathirakshaya ailabri'daa yavyudhah' ye teerthaani pracharanti sri'kaavanto nishanginah' ya etaavantashcha bhooyaamsashcha disho rudraa vitasthire teshaam sahasrayojane'vadhanvaani tanmasi namo rudrebhyo ye pri'thivyaam ye'ntarikshe ye divi yeshaamannam vaato varshamishavastebhyo dasha praacheerdasha dakshinaa dasha prateecheerdashodeecheerdashordhvaastebhyo namaste no mri'd'ayantu te yandvishmo yashcha no dvesht'i tam vo jambhe dadhaami tryambakam yajaamahe sugandhim pusht'ivardhanam urvaarukamiva bandhanaanmri'tyormuksheeya maa'mri'taat yo rudro agnau yo apsu ya oshadheeshu yo rudro vishvaa bhuvanaa''vivesha tasmai rudraaya namo astu tamusht'uhi yah' svishuh' sudhanvaa yo vishvasya kshayati bheshajasya yakshvaamahe saumanasaaya rudrannamobhirdevamasuranduvasya ayam me hasto bhagavaanayam me bhagavattarah' ayam me vishvabheshajo'yam shivaabhimarshanah' ye te sahasramayutam paashaa mri'tyo martyaaya hantave taan yajnyasya maayayaa sarvaanava yajaamahe mri'tyave svaahaa mri'tyave svaahaa om namo bhagavate rudraaya vishnave mri'tyurme paahi praanaanaangranthirasi rudro maa vishaantakah' tenaannenaapyaayasva namo rudraaya vishnave mri'tyurme paahi om shaantih' shaantih' shaantih'

Is initiation necessary to listen to this mantra?

No. Initiation is required only if you want to do mantra sadhana, not for listening. You just have to listen to the mantras we provide to get benefited.

Ramaswamy Sastry and Vighnesh Ghanapaathi

Mantras

Mantras

Mantras

Click on any topic to open

0

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies