Durga Saptashati - Chapter 5

16.4K
1.0K

Comments

byimy

What is the difference between Shruti and Smriti?

Shruti means a group of scriptures comprising of Veda Samhitas, Brahmanas, Aranyakas, and Upanishads. They are eternal knowledge revealed to the Rishis in the format of mantras. No authorship can be attributed to them. The Smritis, written by Rishis, are expositions based on the Shruti.

What is the meaning of hypocrisy?

It is called hypocrisy when someone pretends to have more knowledge or moral standards than he actually has. It is the holier-than-thou attitude.

Quiz

Who is Atithi ?

अस्य श्री उत्तरचरितस्य > रुद्र-ऋषिः । श्रीमहासरस्वती देवता । अनुष्टुप् छन्दः । भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्त्वम् । सामवेदः स्वरूपम् । श्रीमहासरस्वतीप्रीत्यर्थे कामार्थे विनियोगः । ध्यानम् । घण्टाशूलह....

अस्य श्री उत्तरचरितस्य > रुद्र-ऋषिः । श्रीमहासरस्वती देवता ।
अनुष्टुप् छन्दः । भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्त्वम् ।
सामवेदः स्वरूपम् । श्रीमहासरस्वतीप्रीत्यर्थे कामार्थे विनियोगः ।
ध्यानम् ।
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ।
ॐ क्लीं ऋषिरुवाच ।
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः ।
त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् ।
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।
कौबेरमथ याम्यं च चक्राते वरुणस्य च ।
तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च ।
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ।
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः ।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ।
तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः ।
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ।
इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् ।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ।
देवा ऊचुः ।
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ।
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ।
नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ।
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ।
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ।
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु छायारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु दयारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ।
चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
स्तुता सुरैः पूर्वमभीष्टसंश्रया-
त्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापदः ।
या साम्प्रतं चोद्धतदैत्यतापितै-
रस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति नः
सर्वापदो भक्तिविनम्रमूर्तिभिः ।
ऋषिरुवाच ।
एवं स्तवाभियुक्तानां देवानां तत्र पार्वती ।
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ।
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का ।
शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा ।
स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः ।
देवैः समेतैः समरे निशुम्भेन पराजितैः ।
शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका ।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ।
तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।
कालिकेति समाख्याता हिमाचलकृताश्रया ।
ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ।
ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा ।
काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ।
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ।
स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा ।
सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ।
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो ।
त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ।
ऐरावतः समानीतो गजरत्नं पुरन्दरात् ।
पारिजाततरुश्चायं तथैवोच्चैःश्रवा हयः ।
विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे ।
रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ।
निधिरेष महापद्मः समानीतो धनेश्वरात् ।
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् ।
छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति ।
तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ।
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता ।
पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ।
निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः ।
वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी ।
एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते ।
स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ।
ऋषिरुवाच ।
निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः ।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ।
इति चेति च वक्तव्या सा गत्वा वचनान्मम ।
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ।
स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।
तां च देवीं ततः प्राह श्लक्ष्णं मधुरया गिरा ।
दूत उवाच ।
देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः ।
दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ।
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ।
निर्जिताखिलदैत्यारिः स यदाह श‍ृणुष्व तत् ।
मम त्रैलोक्यमखिलं मम देवा वशानुगाः ।
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ।
त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः ।
तथैव गजरत्नं च हृतं देवेन्द्रवाहनम् ।
क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः ।
उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ।
यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च ।
रत्नभूतानि भूतानि तानि मय्येव शोभने ।
स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् ।
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् ।
मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।
भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः ।
परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।
एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ।
ऋषिरुवाच ।
इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ।
देव्युवाच ।
सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित्त्वयोदितम् ।
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ।
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।
श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ।
यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति ।
यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ।
तदागच्छतु शुम्भोऽत्र निशुम्भो वा महाबलः ।
मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु ।
दूत उवाच ।
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः ।
त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः ।
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि ।
तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका ।
इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे ।
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ।
सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः ।
केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ।
देव्युवाच ।
एवमेतद् बली शुम्भो निशुम्भश्चापितादृशः ।
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ।
स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः ।
तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु यत् ।
मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये पञ्चमः ।

asya shree uttaracharitasya > rudra-ri'shih' . shreemahaasarasvatee devataa .
anusht'up chhandah' . bheemaa shaktih' . bhraamaree beejam . sooryastattvam .
saamavedah' svaroopam . shreemahaasarasvateepreetyarthe kaamaarthe viniyogah' .
dhyaanam .
ghant'aashoolahalaani shankhamusale chakram dhanuh' saayakam
hastaabjairdadhateem ghanaantavilasachchheetaamshutulyaprabhaam .
gaureedehasamudbhavaam trijagataamaadhaarabhootaam mahaa-
poorvaamatra sarasvateemanubhaje shumbhaadidaityaardineem .
om kleem ri'shiruvaacha .
puraa shumbhanishumbhaabhyaamasuraabhyaam shacheepateh' .
trailokyam yajnyabhaagaashcha hri'taa madabalaashrayaat .
taaveva sooryataam tadvadadhikaaram tathaindavam .
kauberamatha yaamyam cha chakraate varunasya cha .
taaveva pavanarddhim cha chakraturvahnikarma cha .
tato devaa vinirdhootaa bhrasht'araajyaah' paraajitaah' .
hri'taadhikaaraastridashaastaabhyaam sarve niraakri'taah' .
mahaasuraabhyaam taam deveem samsmarantyaparaajitaam .
tayaasmaakam varo datto yathaapatsu smri'taakhilaah' .
bhavataam naashayishyaami tatkshanaatparamaapadah' .
iti kri'tvaa matim devaa himavantam nageshvaram .
jagmustatra tato deveem vishnumaayaam pratusht'uvuh' .
devaa oochuh' .
namo devyai mahaadevyai shivaayai satatam namah' .
namah' prakri'tyai bhadraayai niyataah' pranataah' sma taam .
raudraayai namo nityaayai gauryai dhaatryai namo namah' .
jyotsnaayai chenduroopinyai sukhaayai satatam namah' .
kalyaanyai pranataam vri'ddhyai siddhyai kurmo namo namah' .
nairri'tyai bhoobhri'taam lakshmyai sharvaanyai te namo namah' .
durgaayai durgapaaraayai saaraayai sarvakaarinyai .
khyaatyai tathaiva kri'shnaayai dhoomraayai satatam namah' .
atisaumyaatiraudraayai nataastasyai namo namah' .
namo jagatpratisht'haayai devyai kri'tyai namo namah' .
yaa devee sarvabhooteshu vishnumaayeti shabditaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu chetanetyabhidheeyate .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu buddhiroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu nidraaroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu kshudhaaroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu chhaayaaroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu shaktiroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu tri'shnaaroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu kshaantiroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu jaatiroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu lajjaaroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu shaantiroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu shraddhaaroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu kaantiroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu lakshmeeroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu vri'ttiroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu smri'tiroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu dayaaroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu tusht'iroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu maatri'roopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
yaa devee sarvabhooteshu bhraantiroopena samsthitaa .
namastasyai namastasyai namastasyai namo namah' .
indriyaanaamadhisht'haatree bhootaanaam chaakhileshu yaa .
bhooteshu satatam tasyai vyaaptyai devyai namo namah' .
chitiroopena yaa kri'tsnametad vyaapya sthitaa jagat .
namastasyai namastasyai namastasyai namo namah' .
stutaa suraih' poorvamabheesht'asamshrayaa-
ttathaa surendrena dineshu sevitaa .
karotu saa nah' shubhahetureeshvaree
shubhaani bhadraanyabhihantu chaapadah' .
yaa saampratam choddhatadaityataapitai-
rasmaabhireeshaa cha surairnamasyate .
yaa cha smri'taa tatkshanameva hanti nah'
sarvaapado bhaktivinamramoortibhih' .
ri'shiruvaacha .
evam stavaabhiyuktaanaam devaanaam tatra paarvatee .
snaatumabhyaayayau toye jaahnavyaa nri'panandana .
saabraveettaan suraan subhroorbhavadbhih' stooyate'tra kaa .
shareerakoshatashchaasyaah' samudbhootaabraveechchhivaa .
stotram mamaitatkriyate shumbhadaityaniraakri'taih' .
devaih' sametaih' samare nishumbhena paraajitaih' .
shareerakoshaadyattasyaah' paarvatyaa nih'sri'taambikaa .
kaushikeeti samasteshu tato lokeshu geeyate .
tasyaam vinirgataayaam tu kri'shnaabhootsaapi paarvatee .
kaaliketi samaakhyaataa himaachalakri'taashrayaa .
tato'mbikaam param roopam bibhraanaam sumanoharam .
dadarsha chand'o mund'ashcha bhri'tyau shumbhanishumbhayoh' .
taabhyaam shumbhaaya chaakhyaataa saateeva sumanoharaa .
kaapyaaste stree mahaaraaja bhaasayantee himaachalam .
naiva taadri'k kvachidroopam dri'sht'am kenachiduttamam .
jnyaayataam kaapyasau devee gri'hyataam chaasureshvara .
streeratnamatichaarvangee dyotayantee dishastvishaa .
saa tu tisht'hati daityendra taam bhavaan drasht'umarhati .
yaani ratnaani manayo gajaashvaadeeni vai prabho .
trailokye tu samastaani saampratam bhaanti te gri'he .
airaavatah' samaaneeto gajaratnam purandaraat .
paarijaatatarushchaayam tathaivochchaih'shravaa hayah' .
vimaanam hamsasamyuktametattisht'hati te'ngane .
ratnabhootamihaaneetam yadaaseedvedhaso'dbhutam .
nidhiresha mahaapadmah' samaaneeto dhaneshvaraat .
kinjalkineem dadau chaabdhirmaalaamamlaanapankajaam .
chhatram te vaarunam gehe kaanchanasraavi tisht'hati .
tathaayam syandanavaro yah' puraaseetprajaapateh' .
mri'tyorutkraantidaa naama shaktireesha tvayaa hri'taa .
paashah' salilaraajasya bhraatustava parigrahe .
nishumbhasyaabdhijaataashcha samastaa ratnajaatayah' .
vahnirapi dadau tubhyamagnishauche cha vaasasee .
evam daityendra ratnaani samastaanyaahri'taani te .
streeratnameshaa kalyaanee tvayaa kasmaanna gri'hyate .
ri'shiruvaacha .
nishamyeti vachah' shumbhah' sa tadaa chand'amund'ayoh' .
preshayaamaasa sugreevam dootam devyaa mahaasuram .
iti cheti cha vaktavyaa saa gatvaa vachanaanmama .
yathaa chaabhyeti sampreetyaa tathaa kaaryam tvayaa laghu .
sa tatra gatvaa yatraaste shailoddeshe'tishobhane .
taam cha deveem tatah' praaha shlakshnam madhurayaa giraa .
doota uvaacha .
devi daityeshvarah' shumbhastrailokye parameshvarah' .
dooto'ham preshitastena tvatsakaashamihaagatah' .
avyaahataajnyah' sarvaasu yah' sadaa devayonishu .
nirjitaakhiladaityaarih' sa yadaaha shri'nushva tat .
mama trailokyamakhilam mama devaa vashaanugaah' .
yajnyabhaagaanaham sarvaanupaashnaami pri'thak pri'thak .
trailokye vararatnaani mama vashyaanyasheshatah' .
tathaiva gajaratnam cha hri'tam devendravaahanam .
ksheerodamathanodbhootamashvaratnam mamaamaraih' .
uchchaih'shravasasanjnyam tatpranipatya samarpitam .
yaani chaanyaani deveshu gandharveshoorageshu cha .
ratnabhootaani bhootaani taani mayyeva shobhane .
streeratnabhootaam tvaam devi loke manyaamahe vayam .
saa tvamasmaanupaagachchha yato ratnabhujo vayam .
maam vaa mamaanujam vaapi nishumbhamuruvikramam .
bhaja tvam chanchalaapaangi ratnabhootaasi vai yatah' .
paramaishvaryamatulam praapsyase matparigrahaat .
etadbuddhyaa samaalochya matparigrahataam vraja .
ri'shiruvaacha .
ityuktaa saa tadaa devee gambheeraantah'smitaa jagau .
durgaa bhagavatee bhadraa yayedam dhaaryate jagat .
devyuvaacha .
satyamuktam tvayaa naatra mithyaa kinchittvayoditam .
trailokyaadhipatih' shumbho nishumbhashchaapi taadri'shah' .
kim tvatra yatpratijnyaatam mithyaa tatkriyate katham .
shrooyataamalpabuddhitvaatpratijnyaa yaa kri'taa puraa .
yo maam jayati sangraame yo me darpam vyapohati .
yo me pratibalo loke sa me bhartaa bhavishyati .
tadaagachchhatu shumbho'tra nishumbho vaa mahaabalah' .
maam jitvaa kim chirenaatra paanim gri'hnaatu me laghu .
doota uvaacha .
avaliptaasi maivam tvam devi broohi mamaagratah' .
trailokye kah' pumaamstisht'hedagre shumbhanishumbhayoh' .
anyeshaamapi daityaanaam sarve devaa na vai yudhi .
tisht'hanti sammukhe devi kim punah' stree tvamekikaa .
indraadyaah' sakalaa devaastasthuryeshaam na samyuge .
shumbhaadeenaam katham teshaam stree prayaasyasi sammukham .
saa tvam gachchha mayaivoktaa paarshvam shumbhanishumbhayoh' .
keshaakarshananirdhootagauravaa maa gamishyasi .
devyuvaacha .
evametad balee shumbho nishumbhashchaapitaadri'shah' .
kim karomi pratijnyaa me yadanaalochitaa puraa .
sa tvam gachchha mayoktam te yadetatsarvamaadri'tah' .
tadaachakshvaasurendraaya sa cha yuktam karotu yat .
maarkand'eyapuraane saavarnike manvantare deveemaahaatmye panchamah' .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |