वास्तु दोष निवारण के लिए वेद मंत्र

ॐ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ।।
लम् इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो इन्द्र । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । पूर्वदिग्भागे इन्द्रः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ अग्निर्दा द्रविणं वीरपेशा अग्निर्ऋषिं यः सहस्रा तनोति ।
अग्निर्दिवि हव्यमाततानाग्नेर्धामानि विभृता पुरुत्रा ।
रम् अग्नये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो अग्ने । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । आग्नेयदिग्भागे अग्निः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ यमो दाधार पृथिवीं यमो विश्वमिदं जगत् ।
यमाय सर्वमित्रस्थे यत् प्राणद्वायुरक्षितम् ।
मं यमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो यम । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । दक्षिणदिग्भागे यमः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ असुन्वन्तमयजमानमिच्छ स्तेनस्तेत्यां तस्करस्यान्वेषि ।
अन्यमस्मदिच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यमस्तु ।
क्षं निर्ऋतये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो निर्ऋते । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । निर्ऋतिदिग्भागे निर्ऋतिः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ सधमादो द्युम्निनीरूर्ज एता अनिभृष्टा अपस्युवो वसानः ।
पस्त्यासु चक्रे वरुणः सधस्तमपां शिशुर्मातृतमाः स्वन्तः ।
वं वरुणाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो वरुण । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । पश्चिमदिग्भागे वरुणः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ आनो नियुद्भिः शतिनीभिरध्वरम् । सहस्रिणीभिरुप याहि यज्ञम् ।
वायो अस्मिन् हविषि मादयस्व । यूयं पात स्वस्तिभिः सदा नः ।
यं वायवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो वायो । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । वायव्यदिग्भागे वायुः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ सोमो धेनुं सोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु ।
सादन्यं विदथ्यं सभेयम् । पितुश्रपणं यो ददाशदस्मै ।
सं सोमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो सोम । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । उत्तरदिग्भागे सोमः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ सहस्राणि सहस्रधा बाहुवोस्तव हेतयः ।
तासामीशानो भगवः पराचीना मुखा कृधि ।
शं ईशानाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो ईशान । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । ऐशान्यदिग्भागे ईशानः सुप्रीतः सुप्रसन्नो वरदो भवतु ।


क्या इस मंत्र को सुनने के लिए दीक्षा आवश्यक है?

नहीं। दीक्षा केवल तब आवश्यक होती है जब आप मंत्र साधना करना चाहते हैं, सुनने के लिए नहीं।

लाभ प्राप्त करने के लिए बस हमारे द्वारा दिए गए मंत्रों को सुनना पर्याप्त है।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Mantras

Mantras

मंत्र

Click on any topic to open

0

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies