अथर्ववेद का रुद्र सूक्त

भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् । प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ।। शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः । मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त ।। क्रन्दाय ते प्राणाय याश्च ते भव रोपयः । नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ।। पुरस्तात्ते नमः कृण्म उत्तरादधरादुत । अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः ।। मुखाय ते पशुपते यानि चक्षूंषि ते भव । त्वचे रूपाय सन्दृशे प्रतीचीनाय ते नमः ।। अङ्गेभ्यस्त उदराय जिह्वाया आस्याय ते । दद्भ्यो गन्धाय ते नमः ।। अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना । रुद्रेणार्धकघातिना तेन मा समरामहि ।। स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृक्तु नो भवः । मा नोऽभि मांस्त नमो अस्त्वस्मै ।। चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते । तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ।। तव चतस्रः प्रदिशस्तव द्यौस्तव पृथिवी तवेदमुग्रोर्वान्तरिक्षम् । तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु ।। उरुः कोशो वसुधानस्तवायं यस्मिन्निमा विश्वा भुवनान्यन्तः । स नो मृड पशुपते नमस्ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्वघरुदो विकेश्यः ।। धनुर्बिभर्षि हरितं हिरण्मयं सहस्राघ्नि शतवधं शिखण्डिन् । रुद्रस्येषुश्चरति देवहेतिस्तस्मै नमो यतमस्यां दिशीतः ।। योऽभियातो निलयते त्वां रुद्र निचिकीर्षति । पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव ।। भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय । ताभ्यां नमो यतमस्यां दिशीतः ।। नमस्तेऽस्त्वायते नमो अस्तु परायते । नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः ।। नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा । भवाय च शर्वाय चोभाभ्यामकरं नमः ।। सहस्राक्षमतिपश्यं पुरस्ताद्रुद्रमस्यन्तं बहुधा विपश्चितम् । मोपाराम जिह्नयेयमानम् ।। श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम् । पूर्वे प्रतीमो नमो अस्त्वस्मै ।। मा नोऽभि स्रामत्यं देवहेतिं मा न क्रुधः पशुपते नमस्ते । अन्यत्पास्मद्दिव्यां शाखां वि धूनु । मा नो हिंसीरधि नो ब्रूहि परि णो वृङ्ग्धि मा क्रुधः । मा त्वया समरामहि ।। मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु । अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ।। यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति । अभिपूर्वं निर्णयते नमो अस्त्वस्मै ।। योऽन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन्देवपीयून् । तस्मै नमो दशभिः शक्वरीभिः ।। तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि । तव यक्षं पशुपते अप्स्वऽन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे ।। शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि । न ते दूरं न परितिष्ठास्ति ते भव सद्यः सर्वान् परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन् समुद्रे ।। मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना । अन्यत्रास्मद्विद्युतं पातयैताम् ।। भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम् । तस्मै नमो यतमस्यां दिशीतः ।। भव राजन् यजमानाय मृज पशूनां हि पशुपतिर्बभूविथ । यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ।। मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः । मा नो हिसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषोः नः ।। रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः । इदं महास्येभ्यः श्वभ्यो अकरं नमः ।। नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः । नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः । नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ।।

क्या इस मंत्र को सुनने के लिए दीक्षा आवश्यक है?

नहीं। दीक्षा केवल तब आवश्यक होती है जब आप मंत्र साधना करना चाहते हैं, सुनने के लिए नहीं।

लाभ प्राप्त करने के लिए बस हमारे द्वारा दिए गए मंत्रों को सुनना पर्याप्त है।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Mantras

Mantras

मंत्र

Click on any topic to open

0

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies