पानी की कमी से निपटने के लिए मंत्र

इदं जनासो विदथ महद्ब्रह्म वदिष्यति । न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥१॥ अन्तरिक्ष आसां स्थाम श्रान्तसदामिव । आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा ॥२॥ यद्रोदसी रेजमाने भूमिश्च निरतक्षतम् । आर्द्र....

इदं जनासो विदथ महद्ब्रह्म वदिष्यति ।
न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥१॥
अन्तरिक्ष आसां स्थाम श्रान्तसदामिव ।
आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा ॥२॥
यद्रोदसी रेजमाने भूमिश्च निरतक्षतम् ।
आर्द्रं तदद्य सर्वदा समुद्रस्येव श्रोत्याः ॥३॥
विश्वमन्यामभीवार तदन्यस्यामधि श्रितम् ।
दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |