भक्ताह्लादं सदसदमेयं शान्तं
रामं नित्यं सवनपुमांसं देवम्।
लोकाधीशं गुणनिधिसिन्धुं वीरं
सीतानाथं रघुकुलधीरं वन्दे।
भूनेतारं प्रभुमजमीशं सेव्यं
साहस्राक्षं नरहरिरूपं श्रीशम्।
ब्रह्मानन्दं समवरदानं विष्णुं
सीतानाथं रघुकुलधीरं वन्दे।
सत्तामात्रस्थित- रमणीयस्वान्तं
नैष्कल्याङ्गं पवनजहृद्यं सर्वम्।
सर्वोपाधिं मितवचनं तं श्यामं
सीतानाथं रघुकुलधीरं वन्दे।
पीयूषेशं कमलनिभाक्षं शूरं
कम्बुग्रीवं रिपुहरतुष्टं भूयः।
दिव्याकारं द्विजवरदानं ध्येयं
सीतानाथं रघुकुलधीरं वन्दे।
हेतोर्हेतुं श्रुतिरसपेयं धुर्यं
वैकुण्ठेशं कविवरवन्द्यं काव्यम्।
धर्मे दक्षं दशरथसूनुं पुण्यं
सीतानाथं रघुकुलधीरं वन्दे।
Lalitha Sahasranamam
अस्य श्रीललितासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादि ....
Click here to know more..Lalitha Trishati
अस्य श्रीललितात्रिशतीस्तोत्रनामावलिमहामन्त्रस्य। भग....
Click here to know more..Listening To Bhagavata Gives Moksha
This audio discourse which is part of Bhagavata series tells you how listening to Bhagavata can give moksha....
Click here to know more..