श्री सूक्त - धन के लिए मंत्र

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् श....

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्
श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम्
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोथ बिल्व:
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी:
उपैतु मां देवसख: कीर्तिश्च मणिना सह
प्रादुर्भूतोस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीर्नाशयाम्यहम्
अभूतिमसमृद्धिं च सर्वान्निर्णुद मे गृहात्
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्
मनस: काममाकूतिं वाच: सत्यमशीमहि
पशूनां रूपमन्नस्य मयि श्री: श्रयतां यश:
कर्दमेन प्रजाभूता मयि संभव कर्दम
श्रियं वासय मे कुले मातरं पद्ममालिनीम्
आप: सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे
निच देवीं मातरं श्रियं वासय मे कुले
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह
आर्द्रां य: करिणीं यष्टिं सुवर्णां हेममालिनीम्
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्
यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान् विन्देयं पुरुषानहम्
महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि
तन्नो लक्ष्मी: प्रचोदयात्

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |