वरुण सूक्त

उदु॑त्त॒मं व॑रुण॒पाश॑म॒स्मदवा॑ध॒मं विम॑ध्य॒मꣳ श्र॑थाय । अथा॑ व॒यमा॑दित्यव्र॒ते तवाना॑गसो॒ अदि॑तये स्याम । अस्त॑भ्ना॒द्॒ द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्या आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्....

उदु॑त्त॒मं व॑रुण॒पाश॑म॒स्मदवा॑ध॒मं विम॑ध्य॒मꣳ श्र॑थाय ।
अथा॑ व॒यमा॑दित्यव्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ।
अस्त॑भ्ना॒द्॒ द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्या
आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तनि॒ वरु॑णस्य व्र॒तानि॑ ।
यत्किञ्चे॒दम् व॑रुण॒दैव्यै॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या᳚श्चरामसि ।
अचि॑त्तीयत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥
कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑घा स॒त्यमु॒तयन्न वि॒द्म ।
सर्वा॒ ता विष्य॑ शिथि॒रेव॑ दे॒वथा॑ ते स्याम वरुणप्रि॒यासः॑ ॥
अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ ।
क्षय॑न्न॒स्मभ्य॑मसुरप्रचेतो॒ राज॒न्नेनाꣳ॑सिशिश्रथः कृ॒तानि॑ ॥
तत्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |