विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत्कथितार्थनिधे।
हृदये कलये विमलं चरणं
भव शङ्करदेशिक मे शरणम्।
करुणावरुणालय पालय मां
भवसागरदुःखविदूनहृदम्।
रचयाखिलदर्शनतत्त्वविदं
भव शङ्करदेशिक मे शरणम्।
भवता जनता सुहिता भविता
निजबोधविचारणचारुमते।
कलयेश्वरजीवविवेकविदं
भव शङ्करदेशिक मे शरणम्।
भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता।
मम वारय मोहमहाजलधिं
भव शङ्करदेशिक मे शरणम्।
सुकृतेऽधिकृते बहुधा भवतो
भविता समदर्शनलालसता।
अतिदीनमिमं परिपालय मां
भव शङ्करदेशिक मे शरणम्।
जगतीमवितुं कलिताकृतयो
विचरन्ति महामहसश्छलतः।
अहिमांशुरिवात्र विभासि गुरो
भव शङ्करदेशिक मे शरणम्।
गुरुपुङ्गव पुङ्गवकेतन ते
समतामयतन्नहि कोऽपि सुधीः।
शरणागतवत्सल तत्त्वनिधे
भव शङ्करदेशिक मे शरणम्।
विदिता न मया विशदैककला
न च किञ्चन काञ्चनमस्ति गुरो ।
द्रुतमेव विधेहि कृपां सहजां
भव शङ्करदेशिक मे शरणम्।
शिव शतनाम स्तोत्र
शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः। वामदेवो विरूपाक्....
Click here to know more..विष्णु सहस्रनाम
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नव....
Click here to know more..सत्यवती
महाभारत में सत्यवती कौन थी? उनका पूर्व जन्म, व्यास जी का ज....
Click here to know more..